[वै] तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः ॥ 1 ॥
[पाण्डु] सताम अपि कुले जाताः कर्मणा बत दुर्गतिम पराप्नुवन्त्य अकृतात्मानः कामजालविमॊहिताः ॥ 2 ॥
शश्वद धर्मात्मना जातॊ बाल एव पिता मम जीवितान्तम अनुप्राप्तः कामात्मैवेति नः शरुतम ॥ 3 ॥
तस्य कामात्मनः कषेत्रे राज्ञः संयत वाग ऋषिः कृष्णद्वैपायनः साक्षाद भगवान माम अजीजनत ॥ 4 ॥
तस्याद्य वयसने बुद्धिः संजातेयं ममाधमा तयक्तस्य देवैर अनयान मृगयायां दुरात्मनः ॥ 5 ॥
मॊक्षम एव वयवस्यामि बन्धॊ हि वयसनं महत सुवृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम अतीव तपसात्मानं यॊजयिष्याम्य असंशयम ॥ 6 ॥
तस्माद एकॊ ऽहम एकाहम एकैकस्मिन वनस्पतौ चरन भैक्षं मुनिर मुण्डश चरिष्यामि महीम इमाम ॥ 7 ॥
पांसुना समवच्छन्नः शून्यागार परतिश्रयः वृक्षमूलनिकेतॊ वा तयक्तसर्वप्रियाप्रियः ॥ 8 ॥
न शॊचन न परहृष्यंश च तुल्यनिन्दात्मसंस्तुतिः निराशीर निर्नमस्कारॊ निर्द्वन्द्वॊ निष्परिग्रहः ॥ 9 ॥
न चाप्य अवहसन कं चिन न कुर्वन भरुकुटीं कव चित परसन्नवदनॊ नित्यं सर्वभूतहिते रतः ॥ 10 ॥
जङ्गमाजङ्गमं सर्वम अविहिंसंश चतुर्विधम सवासु परजास्व इव सदा समः पराणभृतां परति ॥ 11 ॥
एककालं चरन भैक्षं कुलानि दवे च पञ्च च असंभवे वा भैक्षस्य चरन्न अनशनान्य अपि ॥ 12 ॥
अल्पम अल्पं यथा भॊज्यं पूर्वलाभेन जातुचित नित्यं नातिचरँल लाभे अलाभे सप्त पूरयन ॥ 13 ॥
वास्यैकं तक्षतॊ बाहुं चन्दनेनैकम उक्षतः नाकल्याणं न कल्याणं परध्यायन्न उभयॊस तयॊः ॥ 14 ॥
न जिजीविषुवत किं चिन न मुमूर्षुवद आचरन मरणं जीवितं चैव नाभिनन्दन न च दविषन ॥ 15 ॥
याः काश चिज जीवता शक्याः कर्तुम अभ्युदय करियाः ताः सर्वाः समतिक्रम्य निमेषादिष्व अवस्थितः ॥ 16 ॥
तासु सर्वास्व अवस्थासु तयक्तसर्वेन्द्रियक्रियः संपरित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः ॥ 17 ॥
निर्मुक्तः सर्वपापेभ्यॊ वयतीतः सर्ववागुराः न वशे कस्य चित तिष्ठन सधर्मा मातरिश्वनः ॥ 18 ॥
एतया सततं वृत्त्या चरन्न एवं परकारया देहं संधारयिष्यामि निर्भयं मार्गम आस्थितः ॥ 19 ॥
नाहं शवा चरिते मार्गे अवीर्य कृपणॊचिते सवधर्मात सततापेते रमेयं वीर्यवर्जितः ॥ 20 ॥
सत्कृतॊ ऽसक्तृतॊ वापि यॊ ऽनयां कृपण चक्षुषा उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥ 21 ॥
[व] एवम उक्त्वा सुदुःखार्तॊ निःश्वासपरमॊ नृपः अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥ 22 ॥
कौसल्या विदुरः कषत्ता राजा च सह बन्धुभिः आर्या सत्यवती भीष्मस ते च राजपुरॊहिताः ॥ 23 ॥
बराह्मणाश च महात्मानः सॊमपाः संशितव्रताः पौरवृद्धाश च ये तत्र निवसन्त्य अस्मद आश्रयाः परसाद्य सर्वे वक्तव्याः पाण्डुः परव्रजितॊ वनम ॥ 24 ॥
निशम्य वचनं भर्तुर वनवासे धृतात्मनः तत समं वचनं कुन्ती माद्री च समभाषताम ॥ 25 ॥
अन्ये ऽपि हय आश्रमाः सन्ति ये शक्या भरतर्षभः आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपॊ महत तवम एव भविता सार्थः सवर्गस्यापि न संशयः ॥ 26 ॥
परणिधायेन्द्रिय गरामं भर्तृलॊकपरायणे तयक्तकामसुखे हय आवां तप्स्यावॊ विपुलं तपः ॥ 27 ॥
यदि आवां महाप्राज्ञ तयक्ष्यसि तवं विशां पते अद्यैवावां परहास्यावॊ जीतिवं नात्र संशयः ॥ 28 ॥
[प] यदि वयवसितं हय एतद युवयॊर धर्मसंहितम सववृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम ॥ 29 ॥
तयक्तग्राम्य सुखाचारस तप्यमानॊ महत तपः वल्कली फलमूलाशी चरिष्यामि महावने ॥ 30 ॥
अग्निं जुह्वन्न उभौ कालाव उभौ कालाव उपस्पृशन कृशः परिमिताराहश चीरचर्म जटाधरः ॥ 31 ॥
शीतवातातप सहः कषुत्पिपासाश्रमान्वितः तपसा दुश्चरेणेदं शरीरम उपशॊषयन ॥ 32 ॥
एकान्तशीली विमृशन पक्वापक्वेन वर्तयन पितॄन देवांश च वन्येन वाग्भिर अद्भिश च तर्पयन ॥ 33 ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम नाप्रियाण्य आचरज जातु किं पुनर गरामवासिनाम ॥ 34 ॥
एवम आरण्य शास्त्राणाम उग्रम उग्रतरं विधिम काङ्क्षमाणॊ ऽहम आसिष्ये देहस्यास्य समापनात ॥ 35 ॥
[व] इत्य एवम उक्त्वा भार्ये ते राजा कौरववंशजः ततश चूडामणिं निष्कम अङ्गदे कुण्डलानि च वासांसि च महार्हाणि सत्रीणाम आभरणानि च ॥ 36 ॥
परदाय सर्वं विप्रेभ्यः पाण्डुः पुनर अभाषत गत्वा नागपुरं वाच्यं पाण्डुः परव्रजितॊ वनम ॥ 37 ॥
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम परतस्थे सर्वम उत्सृज्य सभार्यः कुरुपुंगवः ॥ 38 ॥
ततस तस्यानुयात्राणि ते चैव परिचारकाः शरुत्वा भरत सिंहस्य विविधाः करुणा गिरः भीमम आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥ 39 ॥
उष्णम अश्रुविमुञ्चन्तस तं विहाय महीपतिम ययुर नागपुरं तूर्णं सर्वम आदाय तद वचः ॥ 40 ॥
शरुत्वा च तेभ्यस तत सर्वं यथावृत्तं महावने धृतराष्ट्रॊ नरश्रेष्ठः पाण्डुम एवान्वशॊचत ॥ 41 ॥
राजपुत्रस तु कौरव्यः पाण्डुर मूलफलाशनः जगाम सह भार्याभ्यां ततॊ नागसभं गिरिम ॥ 42 ॥
स चैत्ररथम आसाद्य वारिषेणम अतीत्य च हिमवन्तम अतिक्रम्य परययौ गन्धमादनम ॥ 43 ॥
रक्ष्यमाणॊ महाभूतैः सिद्धैश च परमर्षिभिः उवास स तदा राजा समेषु विषमेषु च ॥ 44 ॥
इन्द्र दयुम्न सरः पराप्य हंसकूटम अतीत्य च शतशृङ्गे महाराज तापसः समपद्यत ॥ 45 ॥
आदिपर्व · Adi Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111