[ज] कथितॊ धार्तराष्ट्राणाम आर्षः संभव उत्तमः अमानुषॊ मानुषाणां भवता बरह्म वित्तम ॥ 1 ॥
नामधेयानि चाप्य एषां कथ्यमानानि भागशः तवत्तः शरुतानि मे बरह्मन पाण्डवानां तु कीर्तय ॥ 2 ॥
ते हि सर्वे महात्मानॊ देवराजपराक्रमाः तवयैवांशावतरणे देव भागाः परकीर्तिताः ॥ 3 ॥
तस्माद इच्छाम्य अहं शरॊतुम अतिमानुष कर्मणाम तेषाम आजननं सर्वं वैशम्पायन कीर्तय ॥ 4 ॥
[व] राजा पाण्डुर महारण्ये मृगव्यालनिषेविते वने मैथुन कालस्थं ददर्श मृगयूथपम ॥ 5 ॥
ततस तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः निर्बिभेद शरैस तीक्ष्णैः पाण्डुः पञ्चभिर आशुगैः ॥ 6 ॥
स च राजन महातेजा ऋषिपुत्रस तपॊधनः भार्यया सह तेजस्वी मृगरूपेण संगतः ॥ 7 ॥
संसक्तस तु तया मृग्या मानुषीम ईरयन गिरम कषणेन पतितॊ भूमौ विललापाकुलेन्द्रियः ॥ 8 ॥
[मृग] काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च वर्जयन्ति नृशंसानि पापेष्व अभिरता नराः ॥ 9 ॥
न विधिं गरसते परज्ञा परज्ञां तु गरसते विधिः विधिपर्यागतान अर्थान परज्ञा न परतिपद्यते ॥ 10 ॥
शश्वद धर्मात्मनां मुख्ये कुले जातस्य भारत कामलॊभाभिभूतस्य कथं ते चलिता मतिः ॥ 11 ॥
[प] शत्रूणां या वधे वृत्तिः सा मृगाणां वधे समृता राज्ञां मृगन मां मॊहात तवं गर्हयितुम अर्हसि ॥ 12 ॥
अच्छद्मनामायया च मृगाणां वध इष्यते स एव धर्मॊ राज्ञां तु तद विद्वान किं नु गर्हसे ॥ 13 ॥
अगस्त्यः सत्रम आसीनश चचार मृगयाम ऋषिः आरण्यान सर्वदैवत्यान मृगान परॊक्ष्य महावने ॥ 14 ॥
परमाण दृष्टधर्मेण कथम अस्मान विगर्हसे अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥ 15 ॥
[मृग] न रिपून वै समुद्दिश्य विमुञ्चन्ति पुरा शरान रन्ध्र एषां विशेषेण वधकालः परशस्यते ॥ 16 ॥
[प] परमत्तम अप्रमत्तं वा विवृतं घनन्ति चौजसा उपायैर इषुभिस तीक्ष्णैः कस्मान मृगविगर्हसे ॥ 17 ॥
[म] नाहं घनन्तं मृगान राजन विगर्हे आत्मकारणात मैथुनं तु परतीक्ष्यं मे सयात तवयेहानृशंसतः ॥ 18 ॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा कॊ हि विद्वान मृगं हन्याच चरन्तं मैथुनं वने पुरुषार्थ फलं कान्तं यत तवया वितथं कृतम ॥ 19 ॥
पौरवाणाम ऋषीणां च तेषाम अक्लिष्टकर्मणाम वंशे जातस्य कौरव्य नानुरूपम इदं तव ॥ 20 ॥
नृशंसं कर्म सुमहत सर्वलॊकविगर्हितम अस्वर्ग्यम अयशस्यं च अधर्मिष्ठं च भारत ॥ 21 ॥
सत्री भॊगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित नार्हस तवं सुरसंकाश कर्तुम अस्वर्ग्यम ईदृशम ॥ 22 ॥
तवया नृशंसकर्तारः पापाचाराश च मानवाः निग्राह्याः पार्थिवश्रेष्ठ तरिवर्गपरिवर्जिताः ॥ 23 ॥
किं कृतं ते नरश्रेष्ठ निघ्नतॊ माम अनागसम मुनिं मूलफलाहारं मृगवेष धरं नृप वसमानम अरण्येषु नित्यं शम परायणम ॥ 24 ॥
तवयाहं हिंसितॊ यस्मात तस्मात तवाम अप्य असंशयम दवयॊर नृशंसकर्तारम अवशं काममॊहितम जीवितान्तकरॊ भाव एवम एवागमिष्यति ॥ 25 ॥
अहं हि किंदमॊ नाम तपसाप्रतिमॊ मुनिः वयपत्रपन मनुष्याणां मृग्यां मैथुनम आचरम ॥ 26 ॥
मृगॊ भूत्वा मृगैः सार्धं चरामि गहने वने न तु ते बरह्महत्येयं भविष्यत्य अविजानतः मृगरूपधरं हत्वा माम एवं काममॊहितम ॥ 27 ॥
अस्य तु तवं फलं मूढ पराप्स्यसीदृशम एव हि परियया सह संवासं पराप्य कामविमॊहितः तवम अप्य अस्याम अवस्थायां परेतलॊकं गमिष्यसि ॥ 28 ॥
अन्तकाले च संवासं यया गन्तासि कन्यया परेतराजवशं पराप्तं सर्वभूतदुरत्ययम भक्त्या मतिमतां शरेष्ठ सैव तवाम अनुयास्यति ॥ 29 ॥
वर्तमानः सुखे दुःखं यथाहं पराप्तितस तवया तथा सुखं तवां संप्राप्तं दुःखम अभ्यागमिष्यति ॥ 30 ॥
[व] एवम उक्त्वा सुदुःखार्तॊ जीवितात स वययुज्यत मृगः पाण्डुश च शॊकार्तः कषणेन समपद्यत ॥ 31 ॥
आदिपर्व · Adi Parva
अध्याय 109
Reach this point to mark the section finished.
Continue to अध्याय 110