धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 108

  1. [ज] जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय ॥ 1 ॥

  2. [व] दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा दुःसहॊ दुःशलश चैव जलसंधः समः सहः ॥ 2 ॥

  3. विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च ॥ 3 ॥

  4. विविंशतिर विकर्णश च जलसंधः सुलॊचनः चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः ॥ 4 ॥

  5. दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ ॥ 5 ॥

  6. सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः ॥ 6 ॥

  7. अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः ॥ 7 ॥

  8. उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः ॥ 8 ॥

  9. दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः ॥ 9 ॥

  10. अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ ॥ 10 ॥

  11. आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः ॥ 11 ॥

  12. उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः ॥ 12 ॥

  13. अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः ॥ 13 ॥

  14. कुण्डाशी विरजाश चैव दुःशला च शताधिका एतद एकशतं राजन कन्या चैका परकीर्तिता ॥ 14 ॥

  15. नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः ॥ 15 ॥

  16. सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः ॥ 16 ॥

  17. सर्वेषाम अनुरूपाश च कृता दारा महीपते धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा ॥ 17 ॥

  18. दुःशलां समये राजा सिन्धुराजाय भारत जयद्रथाय परददौ सौबलानुमते तदा ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 109

Previous: अध्याय 107