धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 107

  1. [वै] ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः ॥ 1 ॥

  2. पाण्डॊः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः देवेभ्यः समपद्यन्त संतानाय कुलस्य वै ॥ 2 ॥

  3. [ज] कथं पुत्रशतं जज्ञे गान्धार्यां दविजसत्तम कियता चैव कालेन तेषाम आयुश च किं परम ॥ 3 ॥

  4. कथं चैकः स वैश्यायां धृतराष्ट्र सुतॊ ऽभवत कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम आनुकूल्ये वर्तमानां धृतराष्ट्रॊ ऽतयवर्तत ॥ 4 ॥

  5. कथं च शप्तस्य सतः पाण्डॊस तेन महात्मना समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥ 5 ॥

  6. एतद विद्वन यथावृत्थं विस्तरेण तपॊधन कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥ 6 ॥

  7. [व] कषुच छरमाभिपरिग्लानं दवैपायनम उपस्थितम तॊषयाम आस गान्धारी वयासस तस्यै वरं ददौ ॥ 7 ॥

  8. सा वव्रे सदृशं भर्तुः पुत्राणां शतम आत्मनः ततः कालेन सा गर्भं धृतराष्ट्राद अथाग्रहीत ॥ 8 ॥

  9. संवत्सरद्वयं तं तु गान्धारी गर्भम आहितम अप्रजा धारयाम आस ततस तां दुःखम आविशत ॥ 9 ॥

  10. शरुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम उदरस्यात्मनः सथैर्यम उपलभ्यान्वचिन्तयत ॥ 10 ॥

  11. अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः सॊदरं पातयाम आस गान्धारी दुःखमूर्च्छिता ॥ 11 ॥

  12. ततॊ जज्ञे मांसपेशी लॊहाष्ठीलेव संहता दविवर्षसंभृतां कुक्षौ ताम उत्स्रष्टुं परचक्रमे ॥ 12 ॥

  13. अथ दवैपायनॊ जञात्वा तवरितः समुपागमत तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥ 13 ॥

  14. ततॊ ऽबरवीत सौबलेयीं किम इदं ते चिकीर्षितम सा चात्मनॊ मतं सत्यं शशंस परमर्षये ॥ 14 ॥

  15. जयेष्ठं कुन्तीसुतं जातं शरुत्वा रविसमप्रभम दुःखेन परमेणेदम उदरं पातितं मया ॥ 15 ॥

  16. शतं च किल पुत्राणां वितीर्णं मे तवया पुरा इयं च मे मांसपेशी जाता पुत्रशताय वै ॥ 16 ॥

  17. [वय] एवम एतत सौबलेयि नैतज जात्व अन्यथा भवेत वितथं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा ॥ 17 ॥

  18. घृतपूर्णं कुण्ड शतं कषिप्रम एव विधीयताम शीताभिर अद्भिर अष्ठीलाम इमां च परिषिञ्चत ॥ 18 ॥

  19. [व] सा सिच्यमाना अष्ठीला अभवच छतधा तदा अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथग एव तु ॥ 19 ॥

  20. एकाधिक शतं पूर्णं यथायॊगं विशां पते मांसपेश्यास तदा राजन करमशः कालपर्ययात ॥ 20 ॥

  21. ततस तांस तेषु कुण्डेषु गर्भान अवदधे तदा सवनुगुप्तेषु देशेषु रक्षां च वयदधात ततः ॥ 21 ॥

  22. शशास चैव भगवान कालेनैतावता पुनः विघट्टनीयान्य एतानि कुण्डानीति सम सौबलीम ॥ 22 ॥

  23. इत्य उक्त्वा भगवान वयासस तथा परतिविधाय च जगाम तपसे धीमान हिमवन्तं शिलॊच्चयम ॥ 23 ॥

  24. जज्ञे करमेण चैतेन तेषां दुर्यॊधनॊ नृपः जन्मतस तु परमाणेन जयेष्ठॊ राजा युधिष्ठिरः ॥ 24 ॥

  25. जातमात्रे सुते तस्मिन धृतराष्ट्रॊ ऽबरवीद इदम समानीय बहून विप्रान भीष्मं विदुरम एव च ॥ 25 ॥

  26. युधिष्ठिरॊ राजपुत्रॊ जयेष्ठॊ नः कुलवर्धनः पराप्तः सवगुणतॊ राज्यं न तस्मिन वाच्यम अस्ति नः ॥ 26 ॥

  27. अयं तव अनन्तरस तस्माद अपि राजा भविष्यति एतद धि बरूत मे सत्यं यद अत्र भविता धरुवम ॥ 27 ॥

  28. वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत करव्यादाः पराणदन घॊराः शिवाश चाशिव शंसिनः ॥ 28 ॥

  29. लक्षयित्वा निमित्तानि तानि घॊराणि सर्वशः ते ऽबरुवन बराह्मणा राजन विदुरश च महामतिः ॥ 29 ॥

  30. वयक्तं कुलान्त करणॊ भवितैष सुतस तव तस्य शान्तिः परित्यागे पुष्ट्या तव अपनयॊ महान ॥ 30 ॥

  31. शतम एकॊनम अप्य अस्तु पुत्राणां ते महीपते एकेन कुरु वै कषेमं लॊकस्य च कुलस्य च ॥ 31 ॥

  32. तयजेद एकं कुलस्यार्थे गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत ॥ 32 ॥

  33. स तथा विदुरेणॊक्तस तैश च सर्वैर दविजॊत्तमैः न चकार तथा राजा पुत्रस्नेह समन्वितः ॥ 33 ॥

  34. ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव मासमात्रेण संजज्ञे कन्या चैका शताधिका ॥ 34 ॥

  35. गान्धार्यां कलिश्यमानायाम उदरेण विवर्धता धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत किल ॥ 35 ॥

  36. तस्मिन संवत्सरे राजन धृतराष्ट्रान महायशाः जज्ञे धीमांस ततस तस्यां युयुत्सुः करणॊ नृप ॥ 36 ॥

  37. एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः महारथानां वीराणां कन्या चैकाथ दुःशला ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 108

Previous: अध्याय 106