धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 106

  1. [वै] धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः ॥ 1 ॥

  2. विदुराय च वै पाण्डुः परेषयाम आस तद धनम सुहृदश चापि धर्मात्मा धनेन समतर्पयत ॥ 2 ॥

  3. ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत ॥ 3 ॥

  4. ननन्द माता कौसल्या तम अप्रतिमतेजसम जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम ॥ 4 ॥

  5. तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः ॥ 5 ॥

  6. संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः ॥ 6 ॥

  7. हित्वा परासादनिलयं शुभानि शयनानि च अरण्यनित्यः सततं बभूव मृगया परः ॥ 7 ॥

  8. स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ 8 ॥

  9. रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः ॥ 9 ॥

  10. भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम विचित्रकवचं वीरं परमास्त्र विदं नृपम देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः ॥ 10 ॥

  11. तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः ॥ 11 ॥

  12. अथ पारशवीं कन्यां देवलस्य महीपतेः रूपयौवन संपन्नां स शुश्रावापगा सुतः ॥ 12 ॥

  13. ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः विवाहं कारयाम आस विदुरस्य महामतेः ॥ 13 ॥

  14. तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 107

Previous: अध्याय 105