धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 105

  1. [व] रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे ॥ 1 ॥

  2. सिंहदंष्ट्रं गजस्कन्धम ऋषभाक्षं महाबलम भूमिपाल सहस्राणां मध्ये पाण्डुम अविन्दत ॥ 2 ॥

  3. स तया कुन्तिभॊजस्य दुहित्रा कुरुनन्दनः युयुजे ऽमितसौभाग्यः पौलॊम्या मघवान इव ॥ 3 ॥

  4. यात्वा देवव्रतेनापि मद्राणां पुटभेदनम विश्रुता तरिषु लॊकेषु माद्री मद्रपतेः सुता ॥ 4 ॥

  5. सर्वराजसु विख्याता रूपेणासदृशी भुवि पाण्डॊर अर्थे परिक्रीता धनेन महता तदा विवाहं कारयाम आस भीष्मः पाण्डॊर महात्मनः ॥ 5 ॥

  6. सिंहॊरस्कं गजस्कन्धम ऋषभाक्षं मनस्विनम पाण्डुं दृष्ट्वा नरव्याघ्रं वयस्मयन्त नरा भुवि ॥ 6 ॥

  7. कृतॊद्वाहस ततः पाण्डुर बलॊत्साह समन्वितः जिगीषमाणॊ वसुधां ययौ शत्रून अनेकशः ॥ 7 ॥

  8. पूर्वम आगस्कृतॊ गत्वा दशार्णाः समरे जिताः पाण्डुना नरसिंहेन कौरवाणां यशॊभृता ॥ 8 ॥

  9. ततः सेनाम उपादाय पाण्डुर नानाविध धवजाम परभूतहस्त्यश्वरथां पदातिगणसंकुलाम ॥ 9 ॥

  10. आगस्कृत सर्ववीराणां वैरी सर्वमहीभृताम गॊप्ता मगध राष्ट्रस्य दार्वॊ राजगृहे हतः ॥ 10 ॥

  11. ततः कॊशं समादाय वाहनानि बलानि च पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ 11 ॥

  12. तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ सवबाहुबलवीर्येण कुरूणाम अकरॊद यशः ॥ 12 ॥

  13. तं शरौघमहाज्वालम अस्त्रार्चिषम अरिंदमम पाण्डुपावकम आसाद्य वयदह्यन्त नराधिपाः ॥ 13 ॥

  14. ते ससेनाः ससेनेन विध्वंसितबला नृपाः पाण्डुना वशगाः कृत्वा करकर्मसु यॊजिताः ॥ 14 ॥

  15. तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः तम एकं मेनिरे शूरं देवेष्व इव पुरंदरम ॥ 15 ॥

  16. तं कृताञ्जलयः सर्वे परणता वसुधाधिपाः उपाजग्मुर धनं गृह्य रत्नानि विविधानि च ॥ 16 ॥

  17. मणिमुक्ता परवालं च सुवर्णं रजतं तथा गॊरत्नान्य अश्वरत्नानि रथरत्नानि कुञ्जरान ॥ 17 ॥

  18. खरॊष्ट्रमहिषांश चैव यच च किं चिद अजाविकम तत सर्वं परतिजग्राह राजा नागपुराधिपः ॥ 18 ॥

  19. तद आदाय ययौ पाण्डुः पुनर मुदितवाहनः हर्षयिष्यन सवराष्ट्राणि पुरं च गजसाह्वयम ॥ 19 ॥

  20. शंतनॊ राजसिंहस्य भरतस्य च धीमतः परनष्टः कीर्तिजः शब्दः पाण्डुना पुनर उद्धृतः ॥ 20 ॥

  21. ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥ 21 ॥

  22. इत्य अभाषन्त राजानॊ राजामात्याश च संगताः परतीतमनसॊ हृष्टाः पौरजानपदैः सह ॥ 22 ॥

  23. परत्युद्ययुस तं संप्राप्तं सर्वे भीष्म पुरॊगमाः ते नदूरम इवाध्वानं गत्वा नागपुरालयाः आवृतं ददृशुर लॊकं हृष्टा बहुविधैर जनैः ॥ 23 ॥

  24. नाना यानसमानीतै रत्नैर उच्चावचैस तथा हस्त्यश्वरथरत्नैश च गॊभिर उष्ट्रैर अथाविकैः नान्तं ददृशुर आसाद्य भीष्मेण सह कौरवाः ॥ 24 ॥

  25. सॊ ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः यथार्हं मानयाम आस पौरजानपदान अपि ॥ 25 ॥

  26. परमृद्य परराष्ट्राणि कृतार्थं पुनरागतम पुत्रम आसाद्य भीष्मस तु हर्षाद अश्रूण्य अवर्तयत ॥ 26 ॥

  27. स तूर्यशतसंघानां भेरीणां च महास्वनैः हर्षयन सर्वशः पौरान विवेश गजसाह्वयम ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 106

Previous: अध्याय 104