धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 104

  1. [व] शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ 1 ॥

  2. पैतृष्वसेयाय स ताम अनपत्याय वीर्यवान अग्र्यम अग्रे परतिज्ञाय सवस्यापत्यस्य वीर्यवान ॥ 2 ॥

  3. अग्रजातेति तां कन्याम अग्र्यानुग्रह काङ्क्षिणे परददौ कुन्तिभॊजाय सखा सख्ये महात्मने ॥ 3 ॥

  4. सा नियुक्ता पितुर गेहे देवतातिथिपूजने उग्रं पर्यचरद घॊरं बराह्मणं संशितव्रतम ॥ 4 ॥

  5. निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः तम उग्रं संशितात्मानं सर्वयत्नैर अतॊषयत ॥ 5 ॥

  6. तस्यै स परददौ मन्त्रम आपद धर्मान्ववेक्षया अभिचाराभिसंयुक्तम अब्रवीच चैव तां मुनिः ॥ 6 ॥

  7. यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि तस्य तस्य परसादेन पुत्रस तव भविष्यति ॥ 7 ॥

  8. तथॊक्ता सा तु विप्रेण तेन कौतूहलात तदा कन्या सती देवम अर्कम आजुहाव यशस्विनी ॥ 8 ॥

  9. सा ददर्श तम आयान्तं भास्करं लॊकभावनम विस्मिता चानवद्याङ्गी दृष्ट्वा तन महद अद्भुतम ॥ 9 ॥

  10. परकाशकर्मा तपनस तस्यां गर्भं दधौ ततः अजीजनत ततॊ वीरं सर्वशस्त्रभृतां वरम आमुक्तकवचः शरीमान देवगर्भः शरियावृतः ॥ 10 ॥

  11. सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः अजायत सुतः कर्णः सर्वलॊकेषु विश्रुतः ॥ 11 ॥

  12. परादाच च तस्याः कन्यात्वं पुनः स परमद्युतिः दत्त्वा च ददतां शरेष्ठॊ दिवम आचक्रमे ततः ॥ 12 ॥

  13. गूहमानापचारं तं बन्धुपक्ष भयात तदा उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम ॥ 13 ॥

  14. तम उत्सृष्टं तदा गर्भं राधा भर्ता महायशाः पुत्रत्वे कल्पयाम आस सभार्यः सूतनन्दनः ॥ 14 ॥

  15. नामधेयं च चक्राते तस्य बालस्य ताव उभौ वसुना सह जातॊ ऽयं वसु षेणॊ भवत्व इति ॥ 15 ॥

  16. स वर्धामानॊ बलवान सर्वास्त्रेषूद्यतॊ ऽभवत आ पृष्ठतापाद आदित्यम उपतस्थे स वीर्यवान ॥ 16 ॥

  17. यस्मिन काले जपन्न आस्ते स वीरः सत्यसंगरः नादेयं बराह्मणेष्व आसीत तस्मिन काले महात्मनः ॥ 17 ॥

  18. तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षार्थं भूतभावनः कुण्डले परार्थयाम आस कवचं च महाद्युतिः ॥ 18 ॥

  19. उत्कृत्य विमनाः सवाङ्गात कवचं रुधिरस्रवम कर्णस तु कुण्डले छित्त्वा परायच्छत स कृताञ्जलिः ॥ 19 ॥

  20. शक्तिं तस्मै ददौ शक्रॊ विस्मितॊ वाक्यम अब्रवीत देवासुरमनुष्याणां गन्धर्वॊरगरक्षसाम यस्मै कषेप्स्यसि रुष्टः सन सॊ ऽनया न भविष्यति ॥ 20 ॥

  21. पुरा नाम तु तस्यासीद वसु षेण इति शरुतम ततॊ वैकर्तनः कर्णः कर्मणा तेन सॊ ऽभवत ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 105

Previous: अध्याय 103