धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 103

  1. [भस] गुणैः समुदितं सम्यग इदं नः परथितं कुलम अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक ॥ 1 ॥

  2. रक्षितं राजभिः पूर्वैर धर्मविद्भिर महात्मभिः नॊत्सादम अगमच चेदं कदा चिद इह नः कुलम ॥ 2 ॥

  3. मया च सत्यवत्या च कृष्णेन च महात्मना समवस्थापितं भूयॊ युष्मासु कुलतन्तुषु ॥ 3 ॥

  4. वर्धते तद इदं पुत्र कुलं सागरवद यथा तथा मया विधातव्यं तवया चैव विशेषतः ॥ 4 ॥

  5. शरूयते यादवी कन्या अनुरूपा कुलस्य नः सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥ 5 ॥

  6. कुलीना रूपवत्यश च नाथवत्यश च सर्वशः उचिताश चैव संबन्धे ते ऽसमाकं कषत्रियर्षभाः ॥ 6 ॥

  7. मन्ये वरयितव्यास ता इत्य अहं धीमतां वर संतानार्थं कुलस्यास्य यद वा विदुर मन्यसे ॥ 7 ॥

  8. [व] भवान पिता भवान माता भवान नः परमॊ गुरुः तस्मात सवयं कुलस्यास्य विचार्य कुरु यद धितम ॥ 8 ॥

  9. [व] अथ शुश्राव विप्रेभ्यॊ गान्धारीं सुबलात्मजाम आराध्य वरदं देवं भग नेत्रहरं हरम गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥ 9 ॥

  10. इति शरुत्वा च तत्त्वेन भीष्मः कुरुपितामहः ततॊ गान्धारराजस्य परेषयाम आस भारत ॥ 10 ॥

  11. अचक्षुर इति तत्रासीत सुबलस्य विचारणा कुलं खयातिं च वृत्तं च बुद्ध्या तु परसमीक्ष्य सः ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम ॥ 11 ॥

  12. गान्धारी तव अपि शुश्राव धृतराष्ट्रम अचक्षुषम आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥ 12 ॥

  13. ततः सा पट्टम आदाय कृत्वा बहुगुणं शुभा बबन्ध नेत्रे सवे राजन पतिव्रतपरायणा नात्यश्नीयां पतिम अहम इत्य एवं कृतनिश्चया ॥ 13 ॥

  14. ततॊ गान्धारराजस्य पुत्रः शकुनिर अभ्ययात सवसारं परया लक्ष्म्या युक्ताम आदाय कौरवान ॥ 14 ॥

  15. दत्त्वा स भगिनीं वीरॊ यथार्हं च परिच्छदम पुनर आयात सवनगरं भीष्मेण परतिपूजितः ॥ 15 ॥

  16. गान्धार्य अपि वरारॊहा शीलाचार विचेष्टितैः तुष्टिं कुरूणां सर्वेषां जनयाम आस भारत ॥ 16 ॥

  17. वृत्तेनाराध्य तान सर्वान पतिव्रतपरायणा वाचापि पुरुषान अन्यान सुव्रता नान्वकीर्तयत ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 104

Previous: अध्याय 102