[व] तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत ॥ 1 ॥
ऊर्ध्वसस्याभवद भूमिः सस्यानि फलवन्ति च यथर्तु वर्षी पर्जन्यॊ बहुपुष्पफला दरुमाः ॥ 2 ॥
वाहनानि परहृष्टानि मुदिता मृगपक्षिणः गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ 3 ॥
वणिग्भिश चावकीर्यन्त नगराण्य अथ शिल्पिभिः शूराश च कृतविद्याश च सन्तश च सुखिनॊ ऽभवन ॥ 4 ॥
नाभवन दस्यवः के चिन नाधर्मरुचयॊ जनाः परदेशेष्व अपि राष्ट्राणां कृतं युगम अवर्तत ॥ 5 ॥
दानक्रिया धर्मशीला यज्ञव्रतपरायणाः अन्यॊन्यप्रीतिसंयुक्ता वयवर्धन्त परजास तदा ॥ 6 ॥
मानक्रॊधविहीनाश च जना लॊभविवर्जिताः अन्यॊन्यम अभ्यवर्धन्त धर्मॊत्तरम अवर्तत ॥ 7 ॥
तन महॊदधिवत पूर्णं नगरं वै वयरॊचत दवारतॊरण निर्यूहैर युक्तम अभ्रचयॊपमैः परासादशतसंबाधं महेन्द्र पुरसंनिभम ॥ 8 ॥
नदीषु वनखण्डेषु वापी पल्वल सानुषु काननेषु च रम्येषु विजह्रुर मुदिता जनाः ॥ 9 ॥
उत्तरैः कुरुभिर सार्धं दक्षिणाः कुरवस तदा विस्पर्धमाना वयचरंस तथा सिद्धर्षिचारणैः नाभवत कृपणः कश चिन नाभवन विधवाः सत्रियः ॥ 10 ॥
तस्मिञ जनपदे रम्ये बहवः कुरुभिः कृताः कूपाराम सभा वाप्यॊ बराह्मणावसथास तथा भीष्मेण शास्त्रतॊ राजन सर्वतः परिरक्षिते ॥ 11 ॥
बभूव रमणीयश च चैत्ययूप शताङ्कितः स देशः परराष्ट्राणि परतिगृह्याभिवर्धितः भीष्मेण विहितं राष्ट्रे धर्मचक्रम अवर्तत ॥ 12 ॥
करियमाणेषु कृत्येषु कुमाराणां महात्मनाम पौरजानपदाः सर्वे बभूवुः सततॊत्सवाः ॥ 13 ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप दीयतां भुज्यतां चेति वाचॊ ऽशरूयन्त सर्वशः ॥ 14 ॥
धृतराष्ट्रश च पाण्डुश च विदुरश च महामतिः जन्मप्रभृति भीष्मेण पुत्रवत परिपालिताः ॥ 15 ॥
संस्कारैः संस्कृतास ते तु वरताध्ययन संयुताः शरमव्यायाम कुशलाः समपद्यन्त यौवनम ॥ 16 ॥
धनुर्वेदे ऽशवपृष्ठे च गदायुद्धे ऽसि चर्मणि तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥ 17 ॥
इतिहास पुराणेषु नाना शिक्षासु चाभिभॊ वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥ 18 ॥
पाण्डुर धनुषि विक्रान्तॊ नरेभ्यॊ ऽभयधिकॊ ऽभवत अत्य अन्यान बलवान आसीद धृतराष्ट्रॊ महीपतिः ॥ 19 ॥
तरिषु लॊकेषु न तव आसीत कश चिद विदुर संमितः धर्मनित्यस ततॊ राजन धर्मे च परमं गतः ॥ 20 ॥
परनष्टं शंतनॊर वंशं समीक्ष्य पुनर उद्धृतम ततॊ निर्वचनं लॊके सर्वराष्ट्रेष्व अवर्तत ॥ 21 ॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम ॥ 22 ॥
धृतराष्ट्रस तव अचक्षुष्ट्वाद राज्यं न परत्यपद्यत करणत्वाच च विदुरः पाण्डुर आसीन महीपतिः ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103