धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 101

  1. [ज] किं कृतं कर्म धर्मेण येने शापम उपेयिवान कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत ॥ 1 ॥

  2. [व] बभूव बराह्मणः कश चिन माण्डव्य इति विश्रुतः धृतिमान सर्वधर्मज्ञः सत्ये तपसि च सथितः ॥ 2 ॥

  3. स आश्रमपदद्वारि वृक्षमूले महातपाः ऊर्ध्वबाहुर महायॊगी तस्थौ मौन वरतान्वितः ॥ 3 ॥

  4. तस्य कालेन महता तस्मिंस तपसि तिष्ठतः तम आश्रमपदं पराप्ता दस्यवॊ लॊप्त्र हारिणः अनुसार्यमाणा बहुभी रक्षिभिर भरतर्षभ ॥ 4 ॥

  5. ते तस्यावसथे लॊप्त्रं निदधुः कुरुसत्तम निधाय च भयाल लीनास तत्रैवान्वागते बले ॥ 5 ॥

  6. तेषु लीनेष्व अथॊ शीघ्रं ततस तद रक्षिणां बलम आजगाम ततॊ ऽपश्यंस तम ऋषिं तस्करानुगाः ॥ 6 ॥

  7. तम अपृच्छंस ततॊ राजंस तथा वृत्तं तपॊधनम कतरेण पथा याता दस्यवॊ दविजसत्तम तेन गच्छामहे बरह्मन पथा शीघ्रतरं वयम ॥ 7 ॥

  8. तथा तु रक्षिणां तेषां बरुवतां स तपॊधनः न किं चिद वचनं राजन्न अवदत साध्व असाधु वा ॥ 8 ॥

  9. ततस ते राजपुरुषा विचिन्वानास तदाश्रमम ददृशुस तत्र संलीनांस तांश चॊरान दरव्यम एव च ॥ 9 ॥

  10. ततः शङ्का समभवद रक्षिणां तं मुनिं परति संयम्यैनं ततॊ राज्ञे दस्यूंश चैव नयवेदयन ॥ 10 ॥

  11. तं राजा सह तैश चॊरैर अन्वशाद वध्यताम इति स वध्य घातैर अज्ञातः शूले परॊतॊ महातपाः ॥ 11 ॥

  12. ततस ते शूलम आरॊप्य तं मुनिं रक्षिणस तदा परतिजग्मुर महीपालं धनान्य आदाय तान्य अथ ॥ 12 ॥

  13. शूलस्थः स तु धर्मात्मा कालेन महता ततः निराहारॊ ऽपि विप्रर्षिर मरणं नाभ्युपागमत धारयाम आस च पराणान ऋषींश च समुपानयत ॥ 13 ॥

  14. शूलाग्रे तप्यमानेन तपस तेन महात्मना संतापं परमं जग्मुर मुनयॊ ऽथ परंतप ॥ 14 ॥

  15. ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः दर्शयन्तॊ यथाशक्ति तम अपृच्छन दविजॊत्तमम शरॊतुम इच्छामहे बरह्मन किं पापं कृतवान असि ॥ 15 ॥

  16. ततः स मुनिशार्दूलस तान उवाच तपॊधनान दॊषतः कं गमिष्यामि न हि मे ऽनयॊ ऽपराध्यति ॥ 16 ॥

  17. राजा च तम ऋषिं शरुत्वा निष्क्रम्य सह मन्त्रिभिः परसादयाम आस तदा शूलस्थम ऋषिसत्तमम ॥ 17 ॥

  18. यन मयापकृतं मॊहाद अज्ञानाद ऋषिसत्तम परसादये तवां तत्राहं न मे तवं करॊद्धुम अर्हसि ॥ 18 ॥

  19. एवम उक्तस ततॊ राज्ञा परसादम अकरॊन मुनिः कृतप्रसादॊ राजा तं ततः समवतारयत ॥ 19 ॥

  20. अवतार्य च शूलाग्रात तच छूलं निश्चकर्ष ह अशक्नुवंश च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ 20 ॥

  21. स तथान्तर गतेनैव शूलेन वयचरन मुनिः स तेन तपसा लॊकान विजिग्ये दुर्लभान परैः अणी माण्डव्य इति च ततॊ लॊकेषु कथ्यते ॥ 21 ॥

  22. स गत्वा सदनं विप्रॊ धर्मस्य परमार्थवित आसनस्थं ततॊ धर्मं दृष्ट्वॊपालभत परभुः ॥ 22 ॥

  23. किं नु तद दुष्कृतं कर्म मया कृतम अजानता यस्येयं फलनिर्वृत्तिर ईदृश्य आसादिता मया शीघ्रम आचक्ष्व मे तत्त्वं पश्य मे तपसॊ बलम ॥ 23 ॥

  24. [धर्म] पतंगकानां पुच्छेषु तवयेषीका परवेशिता कर्मणस तस्य ते पराप्तं फलम एतत तपॊधन ॥ 24 ॥

  25. [आण] अल्पे ऽपराधे विपुलॊ मम दण्डस तवया कृतः शूद्रयॊनाव अतॊ धर्ममानुषः संभविष्यसि ॥ 25 ॥

  26. मर्यादां सथापयाम्य अद्य लॊके धर्मफलॊदयाम आचतुर्दशमाद वर्षान न भविष्यति पातकम परेण कुर्वताम एवं दॊष एव भविष्यति ॥ 26 ॥

  27. [व] एतेन तव अपराधेन शापात तस्य महात्मनः धर्मॊ विदुर रूपेण शूद्रयॊनाव अजायत ॥ 27 ॥

  28. धर्मे चार्थे च कुशलॊ लॊभक्रॊधविवर्जितः दीर्घदर्शी शम परः कुरूणां च हिते रतः ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 102

Previous: अध्याय 100