निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑ । नै॒र्बा॒ध्येऽन ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥ १ ॥
प॒र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा। यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥ २ ॥
एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑ । एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति । शश्व॒तीभ्यः॒ समा॑भ्यो॒ यावत् सूर्यो॒ अस॑द् दि॒वि ॥ ३ ॥
काण्ड 6
सूक्त 75
Reach this point to mark the section finished.
Continue to सूक्त 76