सं वः॑ पृच्यन्तां त॒न्वः॑१ सं मनां॑सि॒ समु॑ व्र॒ता। सं वोऽयं ब्रह्म॑ण॒स्पति॒र्भगः॑ सं वो॑ अजीगमत् ॥ १ ॥
सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ सं॒ज्ञप॑नं हृ॒दः । अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥ २ ॥
यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः । एवा त्रि॑णाम॒न्नहृ॑णीयमान इ॒मान् जना॒न्त्संम॑नसस्कृधी॒ह ॥ ३ ॥
काण्ड 6
सूक्त 74
Reach this point to mark the section finished.
Continue to सूक्त 75