धर्मDharmic Data

काण्ड 6

सूक्त 76

  1. य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से । सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ॥ १ ॥

  2. अ॒ग्नेः सा॑न्तप॒नस्या॒हमायु॑षे प॒दमा र॑भे । अ॒द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥ २ ॥

  3. यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्। नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥ ३ ॥

  4. नैनं घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गच्छति । अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान् नाम॑ गृ॒ह्णात्यायु॑षे ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 77

Previous: सूक्त 75