धर्मDharmic Data

काण्ड 15

सूक्त 18

  1. तस्य॒ व्रात्य॑स्य ॥ १ ॥

  2. यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥ २ ॥

  3. योऽस्य॒ दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥ ३ ॥

  4. अ॒हो॒रा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥ ४ ॥

  5. अह्ना॑ प्र॒त्यङ् व्रात्यो॒ रात्र्या॒ प्राङ् नमो॒ व्रात्या॑य ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 1

Previous: सूक्त 17