तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥ १ ॥
तस्य॒ व्रात्य॑स्य । योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ॥ २ ॥
तस्य॒ व्रात्य॑स्य । योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः ॥ ३ ॥
तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥ ४ ॥
तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥ ५ ॥
तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥ ६ ॥
तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥ ७ ॥
तस्य॒ व्रात्य॑स्य । स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ॥ ८ ॥
तस्य॒ व्रात्य॑स्य । यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑ ॥ ९ ॥
तस्य॒ व्रात्य॑स्य । एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ॥ १० ॥
काण्ड 15
सूक्त 17
Reach this point to mark the section finished.
Continue to सूक्त 18