धर्मDharmic Data

काण्ड 16

सूक्त 1

  1. ९ आसुरी पङ्क्तिः, ११ साम्नी उष्णिक्, १२-१३ आर्ची अनुष्टुप्। अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ॥ १ ॥

  2. रु॒जन् प॑रिरु॒जन् मृ॒णन् प्र॑मृ॒णन् ॥ २ ॥

  3. म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ॥ ३ ॥

  4. इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ॥ ४ ॥

  5. तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ ५ ॥

  6. अ॒पामग्र॑मसि समु॒द्रं वो॒ऽभ्यव॑सृजामि ॥ ६ ॥

  7. यो॒३प्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ॥ ७ ॥

  8. यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद् वो॑ घो॒रं तदे॒तत् ॥ ८ ॥

  9. इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत् ॥ ९ ॥

  10. अ॒रि॒प्रा आपो॑ अप॑ रि॒प्रम॒स्मत् ॥ १० ॥

  11. प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु ॥ ११ ॥

  12. शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥ १२ ॥

  13. शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त देवीः ॥ १३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 2

Previous: सूक्त 18