धर्मDharmic Data

काण्ड 15

सूक्त 16

  1. तस्य॒ व्रात्य॑स्य ।योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी ॥ १ ॥

  2. तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥ २ ॥

  3. तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या ॥ ३ ॥

  4. तस्य॒ व्रात्य॑स्य । योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा ॥ ४ ॥

  5. तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥ ५ ॥

  6. तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥ ६ ॥

  7. तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः ॥ ७ ॥

Reach this point to mark the section finished.

Continue to सूक्त 17

Previous: सूक्त 15