धर्मDharmic Data

काण्ड 15

सूक्त 15

  1. तस्य॒ व्रात्य॑स्य ॥ १ ॥

  2. स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ॥ २ ॥

  3. तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥ ३ ॥

  4. तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ॥ ४ ॥

  5. तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयः॑ प्रा॒णो॒३ऽभ्यूऽढो॒ नामा॒सौ स च॒न्द्रमाः॑ ॥ ५ ॥

  6. तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ॥ ६ ॥

  7. तस्य॒ व्रात्य॑स्य ।योऽस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ॥ ७ ॥

  8. तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ॥ ८ ॥

  9. तस्य॒ व्रात्य॑स्य ।योऽस्य सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ॥ ९ ॥

Reach this point to mark the section finished.

Continue to सूक्त 16

Previous: सूक्त 14