धर्मDharmic Data

मण्डल 2

सूक्त 8

  1. वा॒ज॒यन्नि॑व॒ नू रथा॒न् योगाँ॑ अ॒ग्नेरुप॑ स्तुहि । य॒शस्त॑मस्य मी॒ळहुष॑: ॥ १ ॥

  2. यः सु॑नी॒थो द॑दा॒शुषे॑ ऽजु॒र्यो ज॒रय॑न्न॒रिम् । चारु॑प्रतीक॒ आहु॑तः ॥ २ ॥

  3. य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ । यस्य॑ व्र॒तं न मीय॑ते ॥ ३ ॥

  4. आ यः स्व१र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ । अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥ ४ ॥

  5. अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः । विश्वा॒ अधि॒ श्रियो॑ दधे ॥ ५ ॥

  6. अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् । अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 9

Previous: सूक्त 7