धर्मDharmic Data

मण्डल 2

सूक्त 7

  1. श्रेष्ठं॑ यविष्ठ भार॒ताऽग्ने॑ द्यु॒मन्त॒मा भ॑र । वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥ १ ॥

  2. मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥ २ ॥

  3. विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहेमहि॒ द्विष॑: ॥ ३ ॥

  4. शुचि॑: पावक॒ वन्द्यो ऽग्ने॑ बृ॒हद् वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥ ४ ॥

  5. त्वं नो॑ असि भार॒ताऽग्ने॑ व॒शाभि॑रु॒क्षभि॑: । अ॒ष्टाप॑दीभि॒राहु॑तः ॥ ५ ॥

  6. द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 8

Previous: सूक्त 6