श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ 1 ॥
Having heard Hanuman's words, full of love, Rama replied.
Word by wordHide word by word
रामः Rama, यथावत्: in that manner, अभिभाषितम् : spoken , हनुमतः by Hanuman, वाक्यम्: words,श्रुत्वा: having heard, प्रीतिसमायुक्तः filled with love, उत्तरम: replied, वाक्यम्: words, अब्रवीत्: said
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् । मनसापि यदन्येन न शक्यम् धरणीतले ॥ 2 ॥
"Hanuman You have performed a mighty task indeed, which is difficult even to think of in this world and not possible for any one else on this earth."
Word by wordHide word by word
हनुमता: Hanuman, यत्: such , धरणीतले: on this earth, अन्येन: by any one, मनसापि: even to think, नशक्यम्: not possible, सुमहत्: mighty, भुवि: world, दुर्लभम्: difficult, कार्यम्: task, कृतम्: has performed.
न हि तम् परिपश्यामि यस्तरेत महोदधिम् । अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥ 3 ॥
"None else than Garuda or Vayu have I seen to have crossed this great ocean crossed by you, Hanuman."
Word by wordHide word by word
गरुडात्: by Garuda( the vehicle of Visnu ), वायोः by windgod, अन्यत्र: anyone other than, हनूमतः by Hanuman, अन्यत्र: none other than, यः this, महार्णवम्: great ocean, तरेत: can cross, हि: indeed, परिपश्यामि: not seen
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् । अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥ 4 ॥
"Indeed, who has the strength to return alive after entering that city highly protected by Ravana. It is unimaginable even for devas, danavas, yakshas, gandharvas, uragas and rakshasas to cross."
Word by wordHide word by word
देवदानवयक्षाणाम्: for devas, danavas, yakshas, गन्धर्वोरगरक्षसाम्गन्धर्वोरगरक्षसाम् gandharvas ,uragas , rakshasas, अप्रधृष्याम्: unimaginable to cross, रावणेन: by Ravana, सुरक्षिताम्: highly protected, पुरीम्: city, सत्त्वम्: strength, आश्रित्य: resorted, प्रविष्टः enter, को नाम: who indeed, श्वसन्: life, निष्क्रमेत्: can return
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥ 5 ॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः । भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥ 6 ॥
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च । यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥ 7 ॥
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् । यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥ 8 ॥
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् । नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥ 9 ॥
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् । तन्नियोगे नियुक्तेन कृतम् हनूमता ॥ 10 ॥
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः । अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥ 11 ॥
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः । इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥ 12 ॥
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् । एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥ 13 ॥
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः । इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥ 14 ॥
हनुमन्तम् कृतात्मानम् कृ६इतवाक्यमुपागतम् । ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥ 15 ॥
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः । सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥ 16 ॥
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम । कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥ 17 ॥
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् । यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥ 18 ॥
समुद्रपारगमने हरीणाम् किमिहोत्तरम् । इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥ 19 ॥
युद्धकाण्ड
सर्ग 1
Reach this point to mark the section finished.
Continue to सर्ग 2