ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥ 1 ॥
Having observed the tenday mourning period, Bharata purified himself on the twelfth day and got the shraddha rites (obsequies) performed.
Word by wordHide word by word
ततः then, दशाहे the tenth day, अतिगते having passed, कृतशौचः purified himself, नृपात्मजः king's son, Bharata, द्वादशे on the twelfth, अहनि day, सम्प्राप्ते had arrived, श्राद्धकर्माणि shraddha rites, अकारयत् got them performed.
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥ 2 ॥
During the shraddha ceremony (obsequies) Bharata bestowed on brahmins precious stones, wealth, large quantities of rice, highly valuable garments and various gems.
Word by wordHide word by word
ब्राह्मणेभ्यः to brahmins, रत्नम् precious stones, धनम् wealth, पुष्कलम् in abundance, अन्नम् rice, महार्हाणि highly valuable, वासांसि garments, विविधानि of various kinds, रत्नानि gems, ददौ gave.
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥ 3 ॥
At the time of performing the rites pertaining to the other world, Bharata bestowed on brahmins herds of white goats, cows in hundreds, male and female servants and spacious houses and carriages.
Word by wordHide word by word
पुत्रः son of Dasaratha, तस्य that, राज्ञः king's, और्ध्वदैहिकम् rites pertaining to the other world, ब्राह्मणेभ्यः to brahmins, बहु many, शुक्लम् white in colour, बास्तिकम् of goats, तथा also, शतशः in hundreds, गाश्चापि even cows, दासी दासं च male and female servants, यानं च carriages, सुमहान्ति spacious, वेश्मानि च houses, ददौ gave.
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥ 4 ॥
विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥ 5 ॥
Thereafter at the hour of dawn on the thirteenth day mightyarmed Bharata visited the cemetery to perform the purificatory ceremony. Approaching the place of the funeral pyre of his father, he lamented in the intensity of grief:
Word by wordHide word by word
ततः then, त्रयोदशे on the thiteenth, दिवसे day, प्रभातसमये at dawn, अथ thereafter, शोधनार्थम् for purification, उपागतः having arrived (at the cemetery), महाबाहुः mightyarmed, भरतः Bharata, शोकमूर्छितः rendered unconscious by grief, शब्दापिहितकण्ठः loudly, विललाप lamented, पितुः father's, चितामूले at the foot of the pyre, सुदुःखितः intensely grieved, इदं वाक्यम् these words, आह spoke.
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥ 6 ॥
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥ 7 ॥
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥ 8 ॥
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥ 9 ॥
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥ 10 ॥
अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥ 11 ॥
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥ 12 ॥
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥ 13 ॥
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥ 14 ॥
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥ 15 ॥
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥ 16 ॥
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥ 17 ॥
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥ 18 ॥
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥ 19 ॥
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥ 20 ॥
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥ 21 ॥
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥ 22 ॥
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥ 23 ॥
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥ 24 ॥
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥ 25 ॥
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥ 26 ॥
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ॥ 27 ॥
The counsellors hastened up both the sons, who were wiping away the tears and speaking with blodshot eyes, to complete the remaining part of the funeral rites. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तसप्ततितमस्सर्गः।। Thus ends the seventyseventh sarga in Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.
Word by wordHide word by word
अश्रूणि tears, परिमृद्नन्तौ wiping away, रक्ताक्षौ with blodshot eyes, दीनभाषिणौ speaking in desolation, तनयौ both sons, अमात्याः counsellors, अपराः the remaining क्रियाः funeral rites, त्वरयन्ति स्म hastened up.
अयोध्याकाण्ड
सर्ग 77
Reach this point to mark the section finished.
Continue to सर्ग 78