गते रामे प्रशांत आत्मा रामो दाशरथिः धनुः । वरुणाय अप्रमेयाय ददौ हस्ते महायशाः ॥ 1 ॥
When Parasurama departed, Rama, son of Dasaratha with a serene mind gave the bow along with the arrow to Varuna of immeasurable strength.
Word by wordHide word by word
रामे when Rama, गते had departed, प्रशान्तात्मा with serene mind, दाशरथि: son of Dasaratha, राम: Rama, ससायकम् together with arrow, धनु: bow, अप्रमेयाय immeasurable, strength, वरुणाय to Varuna, हस्ते in his hand, ददौ gave.
अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् । पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥ 2 ॥
Thereafter Rama the descendant of the Raghus, paid obeisance to Vasishta and other rishis, and looked at his father who appeared agitated said:
Word by wordHide word by word
तत: thereafter, रघुनन्दन: descendant of Raghu, राम: Rama, वसिष्ठप्रमुखान् Vasishta and other, ऋषीन् rishis, अभिवाद्य having paid obeisance, विह्वलम् agitated, पितरम् father, दृष्ट्वा having seen, प्रोवाच said.
जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी । अयोध्या अभिमुखी सेना त्वया नाथेन पालिता ॥ 3 ॥
"Parasurama, son of Jamadagni, has gone. Let the four divisions of the army of which you are the commander proceed towards Ayodhya.
Word by wordHide word by word
जामदग्न्य: son of Jamadagni, राम: Rama, गत: had gone, नाथेन by being a lord, त्वया by you, पालिता ruled, चतुरङ्गिणी सेना four divisions of army, अयोध्याभिमुखी towards Ayodhya, प्रयातु let it advance.
रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् । बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम् ॥ 4 ॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः । पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥ 5 ॥
On hearing the words 'Parasurama has departed' from Rama, king Dasaratha embraced him and kissed his forehead. The king, immensely happy, felt he and his son were reborn.
Word by wordHide word by word
राजा king, दशरथ: Dasaratha, रामस्य Rama's, वचनम् words, श्रुत्वा having heard, सुतम् son, राघवम् Rama, बाहुभ्याम् with hands, सम्परिष्वज्य having embraced, मूर्ध्नि on the forehead, आघ्राय च having smelt (kissed in delight), राम: Parasurama, गत: इति had departed, श्रुत्वा having listened, हृष्ट: filled with joy, प्रमुदित: exceedingly delighted, नृप: king, पुत्रम् son, तदा then, आत्मानमेव himself as well, पुन: again, जातम् having been born, मेने considered.
चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् । पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥ 6 ॥
सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् । राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥ 7 ॥
Thereafter, king Dasaratha directed his army to proceed speedily in advance. When he reached the city of Ayodhya it looked welldecorated with flags and banners. It resounded with trumpets. The royal highways were sprinkiled with water and strewn with flowers. It was filled with groups of people. Awaiting with delight the arrival of the king the citizens produced merry sounds with musical instruments.
Word by wordHide word by word
राजा king Dasaratha, ताम् that, सेनाम् army, चोदयामास directed, पताकाध्वजिनीम् adorned with flags and banners, रम्याम् beautiful, तूर्योद्घुष्टनिनादिताम् resounding with the sounds of trumpets, सिक्तराजपथाम् royal highways sprinkled with water, प्रकीर्णकुसुमोत्करामम् with flowers strewn, राजप्रवेशसुमुखै: delighted with the king's entry, मङ्गलवादिभि: making auspicious sounds with instruments, पौरै: by citizens, सम्पूर्णाम् filled with, जनौघै: by groups of people, समलङ्कृताम् well decorated, पुरीम् city, आशु speedily, जगाम went.
सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् । पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥ 8 ॥
पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः । प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥ 9 ॥
Prosperous king Dasaratha of great fame followed by his elegant sons entered the city of Ayodhya while the citizens and brahmins came forward from a long distance to welcome him who reentered his palace looking like the Himalayan mountain.
Word by wordHide word by word
पौरै: by the citizens, पुरवासिभि: living in the city, द्विजै: च by brahmins also, दूरम् from a long distance, प्रत्युद्गत: welcomed by walking towards him, श्रीमद्भि: by the graceful, पुत्रै: sons, अनुगत: followed by, श्रीमान् elegant, महायशा: possessing high fame, राजा king, पुन: again, हिमवत्सदृशम् resembling Himavat, गृहम् residence, प्रविवेश entered.
ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः । कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ 10 ॥
The king and his kith and kin were received with honour in a pleasing manner. Kausalya, Sumitra and Kaikeyi of slender waist and other women attending on the king were busy in receiving the new brides.
Word by wordHide word by word
राजा king, गृहे in the residence, कामै: with objects of enjoyment, सुपूजितः well honoured, सजन: with his relations and family members, ननन्द rejoiced, कौसल्या च Kausalya, सुमित्रा च Sumitra, सुमध्यमा slender waisted, कैकेयी च Kaikeyi, या: ह्यन्या: others, राजयोषितः women of royal family, वधूप्रतिग्रहे in receiving the new brides, युक्ता: engaged.
वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः । ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥ 11 ॥
कुशध्वज सुते च उभे जगृहुः नृप योषितः । मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥ 12 ॥
देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् । अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥ 13 ॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः । कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥ 14 ॥
शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः । कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥ 15 ॥
भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन । अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥ 16 ॥
त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव । श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥ 17 ॥
गमनाय अभिचक्राम शत्रुघ्न सहितः तदा । आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥ 18 ॥
मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ । युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥ 19 ॥
स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह । गते च भरते रामो लक्ष्मणः च महाबलः ॥ 20 ॥
पितरम् देव संकाशम् पूजयामासतुः तदा । पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥ 21 ॥
चकार रामः सर्वाणि प्रियाणि च हितानि च । मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥ 22 ॥
गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत । एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥ 23 ॥
रामस्य शील वृत्तेन सर्वम् विषय वासिनः । तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥ 24 ॥
स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः । रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥ 25 ॥
मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः । प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥ 26 ॥
गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते । तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥ 27 ॥
अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा । तस्य भूयो विशेषेण मैथिली जनक आत्मजा । देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥ 28 ॥
तया स राज ऋषि सुतो अभिकामयासमेयिवान् उत्तम राज कन्यया । अतीव रामः शुशुभे मुदा अन्वितोविभुः श्रिया विष्णुः इव अमर ईश्वरः ॥ 29 ॥
बालकाण्ड
सर्ग 77
Reach this point to mark the section finished.
Continue to सर्ग 1