धर्मDharmic Data

बालकाण्ड

सर्ग 24

  1. ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ । विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥ 1 ॥

    Thereafter the destroyers of foes, Rama and Lakshmana offering their morning oblations on that bright dawn arrived at the bank of the river (Ganga) with Viswamitra ahead of them.

    Word by word

    तत: thereafter, अरिन्दमौ two destroyers of enemies, विमले on a pure, प्रभाते daybreak, कृताह्निकम् by observing daily oblations, विश्वामित्रम् Viswamitra, पुरस्कृत्य ahead of them नद्या: river's, तीरम् bank, उपागतौ arrived.

  2. ते च सर्वे महात्मानो मुनयः संश्रित व्रताः । उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥ 2 ॥

    All the highminded ascetics and strict followers of vows secured an auspicious boat for them and addressed Viswamitra, saying:

    Word by word

    महात्मान: highminded, संश्रितव्रता: strict observers of vows, ते सर्वे all those, मुनय: ascetics, शुभाम् auspicious, नावम् boat, उपस्थाप्य kept ready, अथ there after, विश्वामित्रम् addressed Visvamitra, अब्रुवन् saying.

  3. आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः । अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥ 3 ॥

    With the princes ahead of you, board the boat. Tread the safe path. Let there be no loss of time.

    Word by word

    भवान् O Great rishi, राजपुत्रपुरस्कृत: with the princes ahead of you, नावम् boat, आरोहतु you may board it, अरिष्टम् devoid of evils, पन्थानम् path, गच्छ go, कालविपर्यय: loss of time, माभूत् let not take place.

  4. विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च । ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥ 4 ॥

    "Be it so", said Viswamitra and paid respect to all those sages. And accompanied by them (Rama and Lakshmana), crossed the river flowing towards the sea.

    Word by word

    विश्वामित्र: Visvamitra, तथेति 'so be it', उक्त्वा having said, तान् ऋषीन् all those sages, अभिपूज्य having worshipped, ताभ्याम् by Rama and Lakshmana, सहित: accompanied by, सागरङ्गमाम् flowing towards the sea, सरितम् river Ganga, ततार crossed.

  5. तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् । मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥ 5 ॥

    As they reached the midstream, Rama and his younger brother heard a sound greatly augmented by the speed (of the river).

    Word by word

    तत: then, राम: Rama, तोयस्य of the water, मध्यम् midst, आगम्य having come, अतिसंरम्भवर्धितम् greatly augmented by the speed, शब्दम् thunderous noise, कनीयसा सह with his younger brother, शुश्राव heard.

  6. ज्ञातु कामो महातेजा सह रामः कनीयसा । अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥ 6 ॥

  7. वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः । राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥ 7 ॥

  8. कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । कैलास पर्वते राम मनसा निर्मितम् परम् ॥ 8 ॥

  9. ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः । तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥ 9 ॥

  10. सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता । तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥ 10 ॥

  11. वारि संक्षोभजो राम प्रणामम् नियतः कुरु । ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥ 11 ॥

  12. तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ । स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥ 12 ॥

  13. अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् । अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥ 13 ॥

  14. भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः । नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥ 14 ॥

  15. सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् । धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥ 15 ॥

  16. संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् । तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥ 16 ॥

  17. श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् । एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥ 17 ॥

  18. मलदाः च करूषाः च देव निर्माण निर्मितौ । पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥ 18 ॥

  19. क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् । तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥ 19 ॥

  20. कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् । इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥ 20 ॥

  21. शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे । निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥ 21 ॥

  22. ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् । इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥ 22 ॥

  23. मलदाः च करूषाः च मम अंग मल धारिणौ । साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥ 23 ॥

  24. देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता । एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥ 24 ॥

    Having seen the honour bestowed on that land by the wise Indra, the gods said to him, 'Well done, Well done'.

    Word by word

    धीमता by the wise, शक्रेण by Indra, कृताम् performed, ताम् देशस्य of that land, पूजाम् honour, दृट्वा having seen, देवा: gods, साधु साधु इति 'Well, Well', तं पाकशासनम् adddressing Indra, अब्रुवन् said.

  25. मलदाः च करूषाः च मुदिता धन धान्यतः । कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥ 25 ॥

  26. बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् । ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥ 26 ॥

    Then, after a lapse of several years, O gentle one a terrible yakshini by name Tataka, wife of intelligent Sunda, capable of assuming different forms at will, possessed of the strength of a thousand elephants and mother of a rakshasa known as Maricha armed with the power of Indra took possession of this place.

    Word by word

    अथ thereafter, कस्यचित्कालस्य after a lapse of some time, कामरूपिणी capable of assuming forms at will, नागसहस्रस्य of a thousand elephants, बलम् strength of, धारयन्ती possessing, ताटका नाम यक्षी yakshi known as Tataka, धीमत: of the intelligent, सुन्दस्य Sunda's, भार्या wife, शक्रपराक्रम: possessed of the power of Indra, मारीच: rakshasa known as Maricha, यस्या: whose, पुत्र: son, अभूत् became known, भद्रं ते May prosperity greet you.

  27. मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः । वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥ 27 ॥

  28. राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः । इमौ जनपदौ नित्यम् विनाशयति राघव ॥ 28 ॥

  29. मलदांश्च करूषांश्च ताटका दुष्ट चारिणी । सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥ 29 ॥

  30. अत एव च गन्तव्यम् ताटकाया वनम् यतः । स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥ 30 ॥

  31. मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः । न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥ 31 ॥

  32. यक्षिण्या घोरया राम उत्सादितम् असह्यया । एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् । यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥ 32 ॥

    You have been told the manner in which this fierce forest is entirely ruined by that cruel yakshini. Tell now she has not left this place". इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्विंशतिस्सर्ग:।। Thus ends the twentyfourth sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.

    Word by word

    एतत् वनम् this forest, सर्वम् entirely, दारुणम् cruel, यक्ष्या by the yakshi, यथा in such a manner, उत्सादितम् ruined, अद्यापि even now, यथा in a manner, न निवर्तते does not go back, एतत् सर्वम् all this, ते to you, आख्यातम् has been told.

Reach this point to mark the section finished.

Continue to सर्ग 25

Previous: सर्ग 23