[स] युधिष्ठिरेणैवम उक्तः कौन्तेयः शवेतवाहनः असिं जग्राह संक्रुद्धॊ जिघांसुर भरतर्षभम ॥ 1 ॥
तस्य कॊपं समुद्वीक्ष्य चित्तज्ञः केशवस तदा उवाच किम इदं पार्थ गृहीतः खड्ग इत्य उत ॥ 2 ॥
नेह पश्यामि यॊद्धव्यं तव किं चिद धनंजय ते धवस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥ 3 ॥
अपयातॊ ऽसि कौन्तेय राजा दरष्टव्य इत्य अपि स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ 4 ॥
तं दृष्ट्वा नृपशार्दूल शार्दूल समविक्रमम हर्षकाले तु संप्राप्ते कस्मात तवा मन्युर आविशत ॥ 5 ॥
न तं पश्यामि कौन्तेय यस ते वध्यॊ भवेद इह कस्माद भवान महाखड्गं परिगृह्णाति सत्वरम ॥ 6 ॥
तत तवा पृच्छामि कौन्तेय किम इदं ते चिकीर्षितम परामृशसि यत करुद्धः खड्गम अद्भुतविक्रम ॥ 7 ॥
एवम उक्तस तु कृष्णेन परेक्षमाणॊ युधिष्ठिरम अर्जुनः पराह गॊविन्दं करुद्धः सर्प इव शवसन ॥ 8 ॥
दद गाण्डीवम अन्यस्मा इति मां यॊ ऽभिचॊदयेत छिन्द्याम अहं शिरस तस्य इत्य उपांशु वरतं मम ॥ 9 ॥
तद उक्तॊ ऽहम अदीनात्मन राज्ञामित पराक्रम समक्षं तव गॊविन्द न तत कषन्तुम इहॊत्सहे ॥ 10 ॥
तस्माद एनं वधिष्यामि राजानं धर्मभीरुकम परतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम एतदर्थं मया खड्ग्गॊ गृहीतॊ यदुनन्दन ॥ 11 ॥
सॊ ऽहं युधिष्ठिरं हत्वा सत्ये ऽपय आनृण्यतां गतः विशॊकॊ विज्वरश चापि भविष्यामि जनार्दन ॥ 12 ॥
किं वा तवं मन्यसे पराप्तम अस्मिन काले समुत्थिते तवम अस्य जगतस तात वेत्थ सर्वं गतागतम तत तथा परकरिष्यामि यथा मां वक्ष्यते भवान ॥ 13 ॥
[क] इदानीं पाथ जानामि न वृद्धाः सेवितास तवया अकाले पुरुषव्याघ्र संरम्भक्रिययानया न हि धर्मविभागज्ञः कुर्याद एवं धनंजय ॥ 14 ॥
अकार्याणां च कार्याणां संयॊगं यः करॊति वै कार्याणाम अक्रियाणां च स पार्थ पुरुषाधमः ॥ 15 ॥
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः समास विस्तरविदां न तेषां वेत्थ निश्चयम ॥ 16 ॥
अनिश्चयज्ञॊ हि नरः कार्याकार्यविनिश्चये अवशॊ मुह्यते पार्थ यथा तवं मूढ एव तु ॥ 17 ॥
न हि कार्यम अकार्यं वा सुखं जञातुं कथं चन शरुतेन जञायते सर्वं तच च तवं नावबुध्यसे ॥ 18 ॥
अविज्ञानाद भवान यच च धर्मं रक्षति धर्मवित पराणिनां हि वधं पार्थ धार्मिकॊ नावबुध्यते ॥ 19 ॥
पराणिनाम अवधस तात सर्वज्यायान मतॊ मम अनृतं तु भवेद वाच्यं न च हिंस्यात कथं चन ॥ 20 ॥
स कथं भरातरं जयेष्ठं राजानं धर्मकॊविदम हन्याद भवान नरश्रेष्ठ पराकृतॊ ऽनयः पुमान इव ॥ 21 ॥
अयुध्यमानस्य वधस तथाशस्त्रस्य भारत पराङ्मुखस्य दरवतः शरणं वाभिगच्छतः कृताञ्जलेः परपन्नस्य न वधः पुज्यते बुधैः ॥ 22 ॥
तवया चैव वरतं पार्थ बालेनैव कृतं पुरा तस्माद अधर्मसंयुक्तं मौढ्यात कर्म वयवस्यसि ॥ 23 ॥
स गुरुं पार्थ कस्मात तवं हन्या धर्मम अनुस्मरन असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम ॥ 24 ॥
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ यद बरूयात तव भीष्मॊ वा धर्मज्ञॊ वा युधिष्ठिरः ॥ 25 ॥
विदुरॊ वा तथा कषत्ता कुन्ती वापि यशस्विनी तत ते वक्ष्यामि तत्त्वेन तन निबॊध धनंजय ॥ 26 ॥
सत्यस्य वचनं साधु न सत्याद विद्यते परम तत्त्वेनैतत सुदुर्ज्ञेयं यस्य सत्यम अनुष्ठितम ॥ 27 ॥
भवेत सत्यम अवक्तव्यं वक्तव्यम अनृतं भवेत सर्वस्वस्यापहारे तु वक्तव्यम अनृतं भवेत ॥ 28 ॥
पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत यत्रानृतं भवेत सत्यं सत्यं चाप्य अनृतं भवेत ॥ 29 ॥
तादृशं पश्यते बालॊ यस्य सत्यम अनुष्ठितम सत्यानृते विनिश्चित्यल ततॊ भवति धर्मवित ॥ 30 ॥
किम आश्चर्यं कृतप्रज्ञः पुरुषॊ ऽपि सुदारुणः सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाद इव ॥ 31 ॥
किम आश्चर्यं पुनर मूढॊ धर्मकामॊ ऽपय अपण्डितः सुमहत पराप्नुयात पापम आपगाम इव कौशिकः ॥ 32 ॥
[अर्ज] आचक्ष्व भगवन्न एतद यथा विद्याम अहं तथा बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च ॥ 33 ॥
[क] मृगव्याधॊ ऽभवत कश चिद बलाकॊ नाम भारत यात्रार्थं पुत्रदारस्य मृगान हन्ति न कामतः ॥ 34 ॥
सॊ ऽनधौ च माता पितरौ बिभर्त्य अन्यांश च संश्रितान सवधर्मनिरतॊ नित्यं सत्यवाग अनसूयकः ॥ 35 ॥
स कदा चिन मृगाँल लिप्सुर नान्वविन्दत परयत्नवान अथापश्यत स पीतॊदं शवापदं घराणचक्षुषम ॥ 36 ॥
अदृष्टपूर्वम अपि तत सत्त्वं तेन हतं तदा अन्व एव च ततॊ वयॊम्नः पुष्पवर्षम अवापतत ॥ 37 ॥
अप्सरॊगीतवादित्रैर नादितं च मनॊरमम विमानम आगमत सवर्गान मृगव्याध निनीषया ॥ 38 ॥
तद भूतं सर भूतानाम अभावाय किलार्जुन तपस तप्त्वा वरं पराप्तं कृतम अन्धं सवयं भुवा ॥ 39 ॥
तद धत्वा सर्वभूतानाम अभाव कृतनिश्चयम ततॊ बलाकः सवरगाद एवं धर्मः सुदुर्विदः ॥ 40 ॥
कौशिकॊ ऽपय अभवद विप्रस तपस्वी न बहुश्रुतः नदीनां संगमे गरामाद अदूरे स किलावसत ॥ 41 ॥
सत्यं मया सदा वाच्यम इति तस्याभवद वरतम सत्यवादीति विख्यातः स तदासीद धनंजय ॥ 42 ॥
अथ दस्यु भयात केचित्तदा तद वनम आविशन दस्यवॊ ऽपि गताः करूरा वयमार्गन्त परयत्नतः ॥ 43 ॥
अथ कौशिकम अभ्येत्य पराहुस तं सत्यवादिनम कतमेन पथा याता भगवन बहवॊ जनाः सत्येन पृष्ठप्रब्रूहि यदि तान वेत्थ शंस नः ॥ 44 ॥
स पृष्ठः कौशिकः सत्यं वचनं तान उवाच ह बहुवृक्ष लतागुल्मम एतद वनम उपाश्रिताः ततस ते तान समासाद्य करूरा जघ्नुर इति शरुतिः ॥ 45 ॥
तेनाधर्मेण महता वाग दुरुक्तेन कौशिकः गतः सुकष्टं नरकं सूक्ष्मधर्मेष्व अकॊविदः अप्रभूत शरुतॊ मूढॊ धर्माणाम अविभागवित ॥ 46 ॥
वृद्धान अपृष्ट्वा संदेहं महच छवभ्रम इतॊ ऽरहति तत्र ते लक्षणॊद्देशः कश चिद एव भविष्यति ॥ 47 ॥
दुष्करं परमज्ञानं कर्तेणात्र वयवस्यति शरुतिर धर्म इति हय एके वदन्ति बहवॊ जनाः ॥ 48 ॥
न तव एतत परतिसूयामि न हि सर्वं विधीयते परभवार्थाय भूतानां धर्मप्रवचनं कृतम ॥ 49 ॥
धारणाद धर्मम इत्य आहुर धर्मॊ धारयति परजाः यः सयाद धारण संयुक्तः स धर्म इति निश्चयः ॥ 50 ॥
ये ऽनयायेन जिहीर्षन्तॊ जना इच्छन्ति कर्हि चित अकूजनेन चेन मॊक्षॊ नात्र कूजेत कथं चन ॥ 51 ॥
अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजतः शरेयस तत्रानृतं वक्तुं सत्याद इति विचारितम ॥ 52 ॥
पराणात्यये विवाहे वा सर्वज्ञाति धनक्षये नर्मण्य अभिप्रवृत्ते वा परवक्तव्यं मृषा भवेत अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थ दर्शिनः ॥ 53 ॥
यः सतेनैः सह संबन्धान मुच्यते शपथैर अपि शरेयस तत्रानृतं वक्तुं तत सत्यम अविचारितम ॥ 54 ॥
न च तेभ्यॊ धनं देयं शक्ये सति कथं चन पापेभ्यॊ हि धनं देयं शक्ये सति कथं चन तस्माद धर्मार्थम अनृतम उक्त्वा नानृत वाग भवेत ॥ 55 ॥
एष ते लक्षणॊद्देशः समुद्दिष्टॊ यथाविधि एतच छरुत्वा बरूहि पार्थ यदि वध्यॊ युधिष्ठिरः ॥ 56 ॥
[अर्ज] यथा बरूयान महाप्राज्ञॊ यथा बरूयान महामतिः हितं चैव यथास्माकं तथैतद वचनं तव ॥ 57 ॥
भवान मातृसमॊ ऽसमाकं तथा पितृसमॊ ऽपि च गतिश च परमा कृष्ण तेन ते वाक्यम अद्भुतम ॥ 58 ॥
न हि ते तरिषु लॊकेषु विद्यते ऽविदितं कव चित तस्माद भवान परं धर्मं वेद सर्वं यथातथम ॥ 59 ॥
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम यस्मिन समयसंयॊगे बरूहि किं चिद अनुग्रहम इदं चापरम अत्रैव शृणु हृत्स्थं विवक्षितम ॥ 60 ॥
जानामि दाशार्ह मम वरतं तवं; यॊ मां बरूयात कश चन मानुषेषु अन्यस्मै तवं गाण्डिवं देहि पार्थ; यस तवत्तॊ ऽसत्रैर भविता वा विशिष्टः ॥ 61 ॥
हन्याम अहं केशव तं परसह्य; भीमॊ हन्यात तूबरकेति चॊक्तः तन मे राजा परॊक्तवांस ते समक्षं; धनुर देहीत्य असकृद वृष्णिसिंह ॥ 62 ॥
तं हत्वा चेत केशव जीवलॊके; सथाता कालं नाहम अप्य अल्पमात्रम सा च परतिज्ञा मम लॊकप्रबुद्धा; भवेत सत्या धर्मभृतां वरिष्ठ यथा जीवेत पाण्डवॊ ऽहं च कृष्ण; तथा बुद्धिं दातुम अद्यार्हसि तवम ॥ 63 ॥
[वा] राजा शरान्तॊ जगतॊ विक्षतश च; कर्णेन संख्ये निशितैर बाणसंघैः तस्मात पार्थ तवां परुषाण्य अवॊचत; कर्णे दयूतंह्य अद्य रणे निबद्धम ॥ 64 ॥
तस्मिन हते कुरवॊ निर्जिताः सयुर; एवं बुद्धिः पार्थिवॊ धर्मपुत्रः यदावमानं लभते महान्तं; तदा जीवन मृत इत्य उच्यते सः ॥ 65 ॥
तन मानितः पार्थिवॊ ऽयं सदैव; तवया सभीमेन तथा यमाभ्याम वृद्धैश च लॊके पुरुषप्रवीरैस; तस्यावमानं कलया तवं परयुङ्क्ष्व ॥ 66 ॥
तवम इत्य अत्र भवन्तं तवं बरूहि पार्थ युधिष्ठिरम तवम इत्य उक्तॊ हि निहतॊ गुरुर भवति भारत ॥ 67 ॥
एवम आचर कौन्तेय धर्मराजे युधिष्ठिरे अधर्मयुक्तं संयॊगं कुरुष्वैवं कुरूद्वह ॥ 68 ॥
अथर्वाङ्गिरसी हय एषा शरुतीनाम उत्तमा शरुतिः अविचार्यैव कार्यैषा शरेयः कामैर नरैः सदा ॥ 69 ॥
वधॊ हय अयं पाण्डव धर्मराज्ञस; तवत्तॊ युक्तॊ वेत्स्यते चैवम एषः ततॊ ऽसय पादाव अभिवाद्य पश्चाच; छमं बरूयाः सान्त्वपूर्वं च पार्थम ॥ 70 ॥
भराता पराज्ञस तव कॊपं न जातु; कुर्याद राजा कं चन पाण्डवेयः मुक्तॊ ऽनृताद भरातृवधाच च पार्थ; हृष्टः कर्णं तवं जहि सूतपुत्रम ॥ 71 ॥
[स] इत्य एवम उक्तस तु जनार्दनेन; पार्थः परशस्याथ सुहृद वधं तम ततॊ ऽबरवीद अर्जुनॊ धर्मराजम; अनुक्तपूर्वं परुषं परसह्य ॥ 72 ॥
मा तवं राजन वयाहर वयाहरत्सु; न तिष्ठसे करॊशमात्रे रणार्धे भीमस तु माम अर्हति गर्हणाय; यॊ दयुध्यते सर्वयॊधप्रवीरः ॥ 73 ॥
काले हि शत्रून परतिपीड्य संख्ये; हत्वा च शूरान पृथिवीपतींस तान यः कुञ्जराणाम अधिकं सहस्रं; हत्वानदत तुमुलं सिंहनादम ॥ 74 ॥
सुदुष्करं कर्म करॊति वीरः; कर्तुं यथा नार्हसि तवं कदा चित रथाद अवप्लुत्य गदां परामृशंस; तया निहन्त्य अश्वनरद्विपान रणे ॥ 75 ॥
वरासिना वाजिरथाश्वकुञ्जरांस; तथा रथाङ्गैर धनुषा च हन्त्य अरीन परमृद्य पद्भ्याम अहितान निहन्ति यः; पुनश च दॊर्भ्यां शतमन्युविक्रमः ॥ 76 ॥
महाबलॊ वैश्रवणान्तकॊपमः; परसह्य हन्ता दविषतां यथार्हम स भीमसेनॊ ऽरहति गर्हणां मे; न तवं नित्यं रक्ष्यसे यः सुहृद्भिः ॥ 77 ॥
महारथान नागवरान हयांश च; पदातिमिख्यान अपि च परमथ्य एकॊ भीमॊ धार्तराष्ट्रेषु मग्नः; स माम उपालब्धुम अरिंदमॊ ऽरहति ॥ 78 ॥
कलिङ्ग वङ्ग अनङ्ग निषादमागधान; सदा मदान नीलबलाहकॊपमान निहन्ति यः शत्रुगणान अनेकशः; स माभिवक्तुं परभवत्य अनागसम ॥ 79 ॥
सुयुक्तम आस्थाय रथं हि काले; धनुर विकर्षञ शरपूर्णमुष्टिः सृजत्य असौ शरवर्षाणि वीरॊ; महाहवे मेघ इवाम्बुधाराः ॥ 80 ॥
बलं तु वाचि दविजसत्तमानां; कषात्रं बुधा बाहुबलं वदन्ति तवं वाग्बलॊ भारत निष्ठुरश च; तवम एव मां वेत्सि यथाविधॊ ऽहम ॥ 81 ॥
यतामि नित्यं तव कर्तुम इष्टं; दारैः सुतैर जीवितेनात्मना च एवं च मां वाग विशिखैर निहंसि; तवत्तः सुखं न वयं विद्म किं चित ॥ 82 ॥
अवामंस्था मां दरौपदी तल्प संस्थॊ; महारथान परतिहन्मि तवदर्थे तेनातिशङ्की भारत निष्ठुरॊ ऽसि; तवत्तः सुखं नाभिजानामि किं चित ॥ 83 ॥
परॊक्तः सवयं सत्यसंधेन मृत्युस; तव परियार्थं नददेव युद्धे वीरः शिखण्डी दरौपदॊ ऽसौ महात्मा; मयाभिगुप्तेन हतश च तेन ॥ 84 ॥
न चाभिनन्दामि तवाधिराज्यं; यतस तम अक्षेष्व अहिताय सक्तः सवयं कृत्वा पापम अनार्यजुष्टम; एभिर युद्धे तर्तुम इच्छस्य अरींस तु ॥ 85 ॥
अक्षेषु दॊषा बहवॊ विधर्माः; शरुतास तवया सहदेवॊ ऽबरवीद यान तान नैषि सांतर्तुम असाधु जुष्टान; येन सम सर्वे निरयं परपन्नाः ॥ 86 ॥
तवं देविता तवत्कृते राज्यनाशस; तवत संभवं वयसनं नॊ नरेन्द्र मास्मान करूरैर वाक परतॊदैस तुद तवं; भूयॊ राजन कॊपयन्न अल्पभाग्यान ॥ 87 ॥
एता वाचः परुषाः साव्य साची; सथिरप्रज्ञं शरावयित्वा ततक्ष तदानुतेपे सुरराजपुत्रॊ; विनिःश्वसंश चाप्य असिम उद्बबर्ह ॥ 88 ॥
तम आह कृष्णाः किम इदं पुनर भवान; विकॊशम आकाशनिभं करॊत्य असिम परब्रूहि सत्यं पुरर उत्तरं विधेर; वचः परवक्ष्याम्य अहम अर्थसिद्धये ॥ 89 ॥
इत्य एव पृष्ठः पुरुषॊत्तमेन; सुदुःखितः केशवम आह वाक्यम अहं हनिष्ये सवशरीरम एव; परसह्य येनाहितम आचरं वै ॥ 90 ॥
निशम्य तत पार्थ वचॊ ऽबरवीद इदं; धनंजयं धर्मभृतां वरिष्ठः परब्रूहि पार्थ सवगुणान इहात्मनस; तथा सवहार्दं भवतीह सद्यः ॥ 91 ॥
तथास्तु कृष्णेत्य अभिनन्द्य वाक्यं; धनंजयः पराह धनुर विनाम्य युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्न इति शक्रसूनुः ॥ 92 ॥
न मादृशॊ ऽनयॊ नरदेव विद्यते; धनुर्धरॊ देवम ऋते पिनाकिनम अहं हि तेनानुमतॊ महात्मना; कषणेन हन्यां सचराचरं जगत ॥ 93 ॥
मया हि राजन सदिग ईश्वरा दिशॊ; विजित्य सर्वा भवतः कृता वशे स राजसूयश च समाप्तदक्षिणः; सभा च दिव्या भवतॊ ममौजसा ॥ 94 ॥
पापौ पृषत्का लिखिता ममेमे; धनुश च संख्ये विततं सबाणम पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति ॥ 95 ॥
हता उदीच्या निहताः परतीच्याः; पराच्या निरस्ता दाक्षिणात्या विशस्ताः संशप्तकानां किं चिद एवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम ॥ 96 ॥
शेते मया निहता भारती च; चमू राजन देव चमू परकाशा ये नास्त्रज्ञास तान अहं हन्मि शस्त्रैस; तस्माल लॊकं नेह करॊमि भस्मसात ॥ 97 ॥
इत्य एवम उक्त्वा पुनर आह पार्थॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम अप्य अपुत्रा तेन राधा भवित्री; कुन्ती मया वा तद ऋतं विद्धि राजन परसीद राजन कषम यन मयॊक्तं; काले भवान वेत्स्यति तन नमस ते ॥ 98 ॥
परसाद्य राजानम अमित्रसाहं; सथितॊ ऽबरवीच चैनम अभिप्रपन्नः याम्य एष भीमं समरात परमॊक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम ॥ 99 ॥
तव परियार्थं मम जीवितं हि; बरवीमि सत्यं तद अवेहि राजन इति परायाद उपसंगृह्य पादौ; समुत्थितॊ दीप्ततेजाः किरीटी नेदं चिरात कषिप्रम इदं भविष्यत्य; आवर्तते ऽसाव अभियामि चैनम ॥ 100 ॥
एतच छरुत्वा पाण्डवॊ धर्मराजॊ; भरातुर वाक्यं परुषं फल्गुनस्य उत्थाय तस्माच छयनाद उवाच; पार्थं ततॊ दुःखपरीत चेताः ॥ 101 ॥
कृतं मया पार्थ यथा न साधु; येन पराप्तं वयसनं वः सुघॊरम तस्माच छिरश छिन्द्धि ममेदम अद्य; कुलान्तकस्याधम पुरुषस्य ॥ 102 ॥
पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेर अलसस्य भीरॊः वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं माम अनुवृत्य रूक्षम ॥ 103 ॥
गच्छाम्य अहं वनम एवाद्य पापः; सुखं भवान वर्ततां मद्विहीनः यॊग्यॊ राजा भीमसेनॊ महात्मा; कलीबस्य वा मम किं राज्यकृत्यम ॥ 104 ॥
न चास्मि शक्तः परुषाणि सॊढुं; पुनस तवेमानि रुषान्वितस्य भीमॊ ऽसतु राजा मम जीवितेन; किं कार्यम अद्यावमतस्य वीर ॥ 105 ॥
इत्य एवम उक्त्वा सहसॊत्पपात; राजा ततस तच छयनं विहाय इयेष निर्गन्तुम अथॊ वनाय; तं वासुदेवः परणतॊ ऽभयुवाच ॥ 106 ॥
राजन विदितम एतत ते यथा गाण्डीवधन्वनः परतिज्ञा सत्यसंधस्य गाण्डीवं परति विश्रुता ॥ 107 ॥
बरूयाद य एवं गाण्डीवं देह्य अन्यस्मै तवम इत्य उत स वध्यॊ ऽसय पुमाँल लॊके तवया चॊक्तॊ ऽयम ईदृशम ॥ 108 ॥
अतः सत्यां परतिज्ञां तां पार्थेन परिरक्षता मच्छन्दाद अवमानॊ ऽयं कृतस तव महीपते गुरूणाम अवमानॊ हि वध इत्य अभिधीयते ॥ 109 ॥
तस्मात तवं वै महाबाहॊ मम पार्थस्य चॊभयॊः वयतिक्रमम इमं राजन संक्षमस्वार्जुनं परति ॥ 110 ॥
शरणं तवां महाराज परपन्नौ सव उभाव अपि कषन्तुम अर्हसि मे राजन परणतस्याभियाचतः ॥ 111 ॥
राधेयस्याद्य पापस्य भूमिः पास्यति शॊणितम सत्यं ते परतिजानामि हतं विद्ध्य अद्य सूतजम यस्येच्छसि वधं तस्य गतम एवाद्य जीवितम ॥ 112 ॥
इति कृष्ण वचः शरुत्वा धर्मराजॊ युधिष्ठिरः ससंभ्रमं हृषीकेशम उत्थाप्य परणतं तदा कृताञ्जलिम इदं वाक्यम उवाचानन्तरं वचः ॥ 113 ॥
एवम एतद यथात्थ तवम अस्त्य एषॊ ऽतिक्रमॊ मम अनुनीतॊ ऽसमि गॊविन्द तारितश चाद्य माधव मॊक्षिता वयसनाद घॊराद वयम अद्य तवयाच्युत ॥ 114 ॥
भवन्तं नाथम आसाद्य आवां वयसनसागरात घॊराद अद्य समुत्तीर्णाव उभाव अज्ञानमॊहितौ ॥ 115 ॥
तवद बुद्धिप्रवम आसाद्य दुःखशॊकार्णवाद वयम समुत्तीर्णाः सहामात्याः सनाथाः सम तवयाच्युत ॥ 116 ॥
कर्णपर्व · Karna Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50