[स] हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः ॥ 1 ॥
पराच्याश च दाक्षिणात्याश च परवीरा गजयॊधिनः अङ्गा वङ्गाश च पुण्ड्राश च मागधास ताम्रलिप्तकाः ॥ 2 ॥
मेकलाः कॊशला मद्रा दशार्णा निषधास तथा गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ 3 ॥
शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुदाः सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे ॥ 4 ॥
तान संमिमर्दिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम पॊथितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत ॥ 5 ॥
एकैकं दशभिः षड्भिर अष्टाभिर अपि भारत दविरदान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः परच्छाद्यमानॊ दविरदैर मेघैर इव दिवाकरः ॥ 6 ॥
पर्यासुः पाण्डुपाञ्चाला नदन्तॊ निशितायुधाः तान नागान अभिवर्षन्तॊ जयातन्त्री शरनादितैः ॥ 7 ॥
नकुलः सहदेवश च दरौपदेयाः परभद्रकाः सात्यकिश च शिखण्डी च चेकितानश च वीर्यवान ॥ 8 ॥
ते मलेच्छैः परेषिता नागा नरान अश्वान रथान अपि हस्तैर आक्षिप्य ममृदुः पद्भिश चाप्य अतिमन्यवः ॥ 9 ॥
बिभिदुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः ॥ 10 ॥
परमुखे वर्तमानं तु दविपं वङ्गस्य सात्यकिः नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत ॥ 11 ॥
तस्यावर्जितनागस्य दविरदाद उत्पतिष्यतः नाराचेनाभिनद वक्षः सॊ ऽपतद भुवि सात्यकेः ॥ 12 ॥
पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम सहदेवः परयत्नात तैर नाराचैर वयहनत तरिभिः ॥ 13 ॥
विपताकं वियन्तारं विवर्म धवजजीवितम तं कृत्वा दविरदं भूयः सहदेवॊ ऽङगम अभ्यगात ॥ 14 ॥
सहदेवं तु नकुलॊ वारयित्वाङ्गम आर्दयत नाराचैर यमदण्डाभैस तरिभिर नागं शतेन च ॥ 15 ॥
दिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत ॥ 16 ॥
तथार्ध चन्द्रेण शिरस तस्य चिच्छेद पाण्डवः स पपात हतॊ मलेच्छस तेनैव सह दन्तिना ॥ 17 ॥
आचार्य पुत्रे निहते हस्तिशिक्षा विशारदे अङ्गाः करुद्धा महामात्रा नागैर नकुलम अभ्ययुः ॥ 18 ॥
चलत पताकैः परमुखैर हेमकक्ष्या तनुच छदैः मिमर्दिशन्तस तवरिताः परदीप्तैर इव पर्वतैः ॥ 19 ॥
मेकलॊत्कल कालिङ्गा निषादास ताम्रलिप्तकाः शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः ॥ 20 ॥
तैश छाद्यमानं नकुलं दिवाकरम इवाम्बुदैः परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः ॥ 21 ॥
ततस तद अभवद युद्धं रथिनां हस्तिभिः सह सृजतां शरवर्षाणि तॊमरांश च सहस्रशः ॥ 22 ॥
नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च दन्ताश चैवातिविद्धानां नाराचैर भूषणानि च ॥ 23 ॥
तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः सहदेवॊ जघानाशु ते पेतुः सह सादिभिः ॥ 24 ॥
अञ्जॊ गतिभिर आयम्य परयत्नाद धनुर उत्तमम नाराचैर अहनन नागान नकुलः कुरनन्दन ॥ 25 ॥
ततः शैनेय पाञ्चाल्यौ दरौपदेयाः परभद्रकाः शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः ॥ 26 ॥
ते पाण्डुयॊधाम्बुधरैः शत्रुद्विरदपर्वताः बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः ॥ 27 ॥
एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः दरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम ॥ 28 ॥
ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः विक्षॊभयित्वा च पुनः कर्णम एवाभिदुद्रुवुः ॥ 29 ॥
सहदेवं ततः करुद्धं दहन्तं तव वाहिनीम दुःशासनॊ महाराज भराता भरातरम अभ्ययात ॥ 30 ॥
तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः सिंहनाद रवांश चक्रुर वासांस्य आदुधुवुश च ह ॥ 31 ॥
ततॊ भारत करुद्धेन तव पुत्रेण धन्विना पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली ॥ 32 ॥
सहदेवस ततॊ राजन नाराचेन तवात्मजम विद्ध्वा विव्याध सप्तत्या सारथिं च तरिभिस तरिभिः ॥ 33 ॥
दुःशासनस तदा राजंश छित्त्वा चापं महाहवे सहदेवं तरिसप्तत्या बाह्वॊर उरसि चार्दयत ॥ 34 ॥
सहदेवस ततः करुद्धः खड्गं गृह्य महाहवे वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति ॥ 35 ॥
स मार्गणगणं चापं छित्त्वा तस्य महान असिः निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात ॥ 36 ॥
अथान्यद धनुर आदाय सहदेवः परतापवान दुःशासनाय चिक्षेप बाणम अन्तकरं ततः ॥ 37 ॥
तम आपतन्तं विशिखं यमदण्डॊपमत्विषम खड्गेन शितधारेण दविधा चिच्छेद कौरवः ॥ 38 ॥
तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः पातयाम आस समरे सहदेवॊ हसन्न इव ॥ 39 ॥
ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे सहदेव रथे तूर्णं पातयाम आस भारत ॥ 40 ॥
ताञ शरान समरे राजन वेगेनापततॊ बहून एकैकं पञ्चभिर बाणैः सहदेवॊ नयकृन्तत ॥ 41 ॥
स निवार्य महाबाणांस तव पुत्रेण परेषितान अथास्मै सुबहून बबाणांर माद्रीपुत्रः समाचिनॊत ॥ 42 ॥
ततः करुद्धॊ महाराज सहदेवः परतावना समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत ॥ 43 ॥
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत पराविशद धरणीं राजन वल्मीकम इव पन्नगः ततः स मुमुहे राजंस तव पुत्रॊ महारथः ॥ 44 ॥
मूढं चैनं समालक्ष्य सारथिस तवरितॊ रथम अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः ॥ 45 ॥
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज दुर्यॊधन बलं हृष्टः परामथद वै समन्ततः ॥ 46 ॥
पिपीलिका पुटं राजन यथामृद्नान नरॊ रुषा तथा सा कौरवी सेना मृदिता तेन भारत ॥ 47 ॥
नकुलं रभसं युद्धे दारयन्तं वरूथिनीम कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तदा ॥ 48 ॥
नकुलश च तदा कर्णं परहसन्न इदम अब्रवीत चिरस्य बत दृष्टॊ ऽहं दैवतैः सौम्य चक्षुषा ॥ 49 ॥
यस्य मे तवं रणे पापचक्षुर विषयम आगतः तवं हि मूलम अनर्थानां वैरस्य कलहस्य च ॥ 50 ॥
तवद दॊषात कुरवः कषीणाः समासाद्य परस्परम तवाम अद्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः ॥ 51 ॥
एवम उक्तः परत्युवाच नकुलं सूतनन्दनः सदृशं राजपुत्रस्य धन्विनश च विशेषतः ॥ 52 ॥
परहरस्व रणे बाल पश्यामस तव पौरुषम कर्मकृत्वा रणे शूर ततः कत्थितुम अर्हसि ॥ 53 ॥
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः स युध्यस्व मया शक्त्या विनेष्ये दर्पम अद्य ते ॥ 54 ॥
इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः ॥ 55 ॥
नकुलस तु ततॊ विद्धः सूतपुत्रेण भारत अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत ॥ 56 ॥
तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः तरिंशता परमेष्वासः शरैः पाण्डवम आर्दयत ॥ 57 ॥
ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ 58 ॥
अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम कर्णं विव्याध विंशत्या सारथिं च तरिभिः शरैः ॥ 59 ॥
ततः करुद्धॊ महाराज नकुलः परवीरहा कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत ॥ 60 ॥
अथैनं छिन्नधन्वानं सायकानां शतैस तरिभिः आजघ्ने परहसन वीरः सर्वलॊकमहारथम ॥ 61 ॥
कर्णम अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष विस्मयं परमं जग्मू रथिनः सह दैवतैः ॥ 62 ॥
अथान्यद धनुर आदाय कर्णॊ वैकर्तनस तदा नकुलं पञ्चभिर बाणैर जत्रु देशे समार्दयत ॥ 63 ॥
उरःस्थैर अथ तैर बाणैर माद्रीपुत्रॊ वयरॊचत सवरश्मिभिर इवादित्यॊ भुवने विसृजन परभाम ॥ 64 ॥
नकुकस तु ततः कर्णं विद्ध्वा सप्तभिर आयसैः अथास्य धनुषः कॊटिं पुनश चिच्छेद मारिष ॥ 65 ॥
सॊ ऽनयत कार्मुकम आदाय समरे वेगवत्तरम नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयद दिशः ॥ 66 ॥
संछाद्यमानः सहसा कर्ण चापच्युतैः शरैः चिच्छेद स शरांस तूर्णं शरैर एव महारथः ॥ 67 ॥
ततॊ बाणमयं जालं विततं वयॊम्न्य अदृश्यत खद्यॊतानां गणैर एवं संपतद्भिर यथा नभः ॥ 68 ॥
तैर विमुक्तैः शरशतैश छादितं गगनं तदा शलभानां यथा वरातैस तद्वद आसीत समाकुलम ॥ 69 ॥
ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः शरेणी कृता अभासन्त हंसाः शरेणी गता इव ॥ 70 ॥
बाणजालावृते वयॊम्नि छादिते च दिवाकरे समसर्पत ततॊ भूतं किं चिद एव विशां पते ॥ 71 ॥
निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः वयरॊचतां महाभागौ बालसूर्याव इवॊदितौ ॥ 72 ॥
कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ॥ 73 ॥
नकुलस्य तथा बाणैर वध्यमाना चमूस तव वयशीर्यत दिशॊ राजन वातनुन्ना इवाम्बुदाः ॥ 74 ॥
ते सेने वध्यमाने तु ताभ्यां दिव्यैर महाशरैः शरपातम अपक्रम्य ततः परेक्षकवत सथिते ॥ 75 ॥
परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः ॥ 76 ॥
निदर्शयन्तौ तव अस्त्राणि दिव्यानि रणमूर्धनि छादयन्तौ च सहसा परस्परवधैषिणौ ॥ 77 ॥
नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः ते तु कर्णम अवच्छाद्य वयतिष्ठन्त यथा पुरे ॥ 78 ॥
शरवेश्म परविष्टौ तौ ददृशाते न कैश चन चन्द्रसूर्यौ यथा राजंश छाद्यमानौ जलागमे ॥ 79 ॥
ततः करुद्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः पाण्डवं छाद्दयाम आस समन्ताच छरवृष्टिभिः ॥ 80 ॥
सच्छाद्यमानः समरे सूतपुत्रेण पाण्डवः न चकार वयथां राजन भास्करॊ जलदैर यथा ॥ 81 ॥
ततः परहस्याधिरथिः शरजालानि मारिष परेषयाम आस समरे शतशॊ ऽथ सहस्रशः ॥ 82 ॥
एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः अभ्रच छायेव संजज्ञे संपतद्भिः शरॊत्तमैः ॥ 83 ॥
ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः सारथिं पातयाम आस रथनीडाद धसन्न इव ॥ 84 ॥
तथाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः यमस्य सदनं तूर्णं परेषयाम आस भारत ॥ 85 ॥
अथास्य तं रथं तूर्णं तिलशॊ वयधमच छरैः पताकां चक्ररक्षौ च धवजं खड्गं च मारिष शतचन्द्रं ततश चर्म सर्वॊपकरणानि च ॥ 86 ॥
हताश्वॊ विरथश चैव विवर्मा च विशां पते अवतीर्य रथात तूर्णं परिघं गृह्य विष्ठितः ॥ 87 ॥
तम उद्यतं महाघॊरं परिघं तस्य सूतजः वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः ॥ 88 ॥
वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः आर्दयद बहुशः कर्णॊ न चैनं समपीडयत ॥ 89 ॥
स वध्यमानः समरे कृतास्त्रेण बलीयसा पराद्रवत सहसा राजन नकुलॊ वयाकुलेन्द्रियः ॥ 90 ॥
तम अभिद्रुत्य राधेयः परहसन वै पुनः पुनः स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत ॥ 91 ॥
ततः स शुशुभे राजन कण्ठासक्तमहाधनुः परिवेषम अनुप्राप्तॊ यथा सयाद वयॊम्नि चन्द्रमाः यथैव च सितॊ मेघः शक्रचापेन शॊभितः ॥ 92 ॥
तम अब्रवीत तदा कर्णॊ वयर्थं वयाहृतवान असि वदेदानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः ॥ 93 ॥
मा यॊत्सीर गुरुभिः सार्धं बलवद्भिश च पाण्डव सदृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ ॥ 94 ॥
एवम उक्त्वा महाराज वयसर्जयत तं ततः वधप्राप्तं तु तं राजन नावधीत सूतनन्दनः समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत ॥ 95 ॥
विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना वरीडन्न इव जगामाथ युधिष्ठिर रथं परति ॥ 96 ॥
आरुरॊह रथं चापि सूतपुत्र परतापिनः निःश्वसन दुःखसंतप्तः कुम्भे कषिप्त इवॊरगः ॥ 97 ॥
तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ रथेनातिपताकेन चन्द्र वर्णहयेन च ॥ 98 ॥
तत्राक्रन्दॊ महान आसीत पाण्डवानां विशां पते दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान ॥ 99 ॥
तत्राकरॊन महाराज कदनं सूतनन्दनः मध्यं गते दिनकरे चक्रवत परचरन परभुः ॥ 100 ॥
भग्नचक्रै रथैः केच चिच छन्नध्वजपताकिभिः ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष हरियमाणान अपश्याम पाञ्चालानां रथव्रजान ॥ 101 ॥
तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः दवाग्निना परीताङ्गा यथैव सयुर महावने ॥ 102 ॥
भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः भिन्नगात्रवराश चैव छिन्नवालाश च मारिष छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना ॥ 103 ॥
अपरे तरासिता नागा नाराचशततॊमरैः तम एवाभिमुखा यान्ति शलभा इव पावकम ॥ 104 ॥
अपरे निष्टनन्तः सम वयदृश्यन्त महाद्विपाः कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम ॥ 105 ॥
उरश छदैर विमुक्ताश च वालबन्धैश च वाजिनः राजतैश च तथा कांस्यैः सौवर्णैश चैव भूषणैः ॥ 106 ॥
हीना आस्तरणैश चैव खलीनैश च विवर्जिताः चामरैश च कुथाभिश च तूणीरैः पतितैर अपि ॥ 107 ॥
निहतैः सादिभिश चैव शूरैर आहवशॊभिभिः अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान ॥ 108 ॥
परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः ॥ 109 ॥
रथान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः भरममाणान अपश्याम हतेषु रथिषु दरुतम ॥ 110 ॥
भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान ॥ 111 ॥
विहीनान रथिनस तत्र धावमानान समन्ततः सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते ॥ 112 ॥
विशस्त्रांश च तथैवान्यान सशस्त्रांश च बहून हतान तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान ॥ 113 ॥
नानावर्णविचित्राभिः पताकाभिर अलंकृतान पदातीन अन्वपश्याम धावमानान समन्ततः ॥ 114 ॥
शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तथा युधि कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान ॥ 115 ॥
महान वयतिकरॊ रौद्रॊ यॊधानाम अन्वदृश्यत कर्ण सायकनुन्नानां हतानां निशितैः शरैः ॥ 116 ॥
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः तम एवाभिमुखा यान्ति पतंगा इव पावकम ॥ 117 ॥
तं दहन्तम अनीकानि तत्र तत्र महारथम कषत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम ॥ 118 ॥
हतशेषास तु ये वीराः पाञ्चालानां महारथाः तान परभग्नान दरुतान कर्णः पृष्ठतॊ विकिरञ शरैः अभ्यधावत तेजस्वी विशीर्णकवचध्वजान ॥ 119 ॥
तापयाम आस तान बाणैः सूतपुत्रॊ महारथः मध्यंदिनम अनुप्राप्तॊ भूतानीव तमॊनुदः ॥ 120 ॥
कर्णपर्व · Karna Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18