[स] भूरिस तु समरे राजञ शैनेयं रथिनां वरम आपतन्तम अपासेधत परपानाद इव कुञ्जरम ॥ 1 ॥
अथैनं सात्यकिः करुद्धः पञ्चभिर निशितैः शरैः विव्याध हृदये तूर्णं परास्रवत तस्य शॊणितम ॥ 2 ॥
तथैव कौरवॊ युद्धे शैनेयं युद्धदुर्मदम दशभिर विशिखैस तीक्ष्णैर अविध्यत भुजान्तरे ॥ 3 ॥
ताव अन्यॊन्यं महाराज ततक्षाते शरैर भृशम करॊधसंरक्तनयनौ करॊधाद विस्फार्य कार्मुके ॥ 4 ॥
तयॊर आसीन महाराज शस्त्रवृष्टिः सुदारुणा करुद्धयॊः सायकमुचॊर यमान्तकनिकाशयॊः ॥ 5 ॥
ताव अन्यॊन्यं शरै राजन परच्छाद्य समरे सथितौ मुहूर्तं चैव तद युद्धं समरूपम इवाभवत ॥ 6 ॥
ततः करुद्धॊ महाराज शैनेयः परहसन्न इव धनुश चिच्छेद समरे कौरव्यस्य महात्मनः ॥ 7 ॥
अथैनं छिन्नधन्वानं नवभिर निशितैः शरैः विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत ॥ 8 ॥
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुतापनः धनुर अन्यत समादाय सात्वतं परत्यविध्यत ॥ 9 ॥
स विद्ध्वा सात्वतं बाणैस तरिभिर एव विशां पते धनुश चिच्छेद भल्लेन सुतीक्ष्णेन हसन्न इव ॥ 10 ॥
छिन्नधन्वा महाराज सात्यकिः करॊधमूर्छितः परजहार महावेगां शक्तिं तस्य महॊरसि ॥ 11 ॥
स तु शक्त्या विभिन्नाङ्गॊ निपपात रथॊत्तमात लॊहिताङ्ग इवाकाशाद दीप्तरश्मिर यदृच्छया ॥ 12 ॥
तं तु दृष्ट्वा तहं शूरम अश्वत्थामा महारथः अभ्यधावत वेगेन शैनेयं परति संयुगे अभ्यवर्षच छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ 13 ॥
तम आपतन्तं संरब्धं शैनेयस्य रथं परति घटॊत्कचॊ ऽबरवीद राजन नादं मुक्त्वा महारथः ॥ 14 ॥
तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि एष तवाद्य हनिष्यामि महिषं सकन्द राड इव युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे ॥ 15 ॥
इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः परवीरहा दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी ॥ 16 ॥
रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः ॥ 17 ॥
शरवृष्टिं तु तां पराप्तां शरैर आशीविषॊपमैः शातयाम आस समरे तरसा दरौणिर उत्स्मयन ॥ 18 ॥
ततः शरशतैस तीक्ष्णैर मर्मभेदिभिर आशुगैः समाचिनॊद राक्षसेन्द्रं घटॊत्कचम अरिंदम ॥ 19 ॥
स शरैर आचितस तेन राक्षसॊ रणमूर्धनि वयकाशत महाराज शवाविच छललितॊ यथा ॥ 20 ॥
ततः करॊधसमाविष्टॊ भैमसेनिः परतापवान शरैर अवचकर्तॊग्रैर दरौणिं वज्राशनिस्वनैः ॥ 21 ॥
कषुरप्रैर अर्धचन्द्रैश च नाराचैः स शिलीमुखैः वराहकर्णैर नालीकैस तीक्ष्णैश चापि विकर्णिभिः ॥ 22 ॥
तां शस्त्रवृष्टिम अतुलां वज्राशनिसमस्वनाम पतन्तीम उपरि करुद्धॊ दरौणिर अव्यथितेन्द्रियः ॥ 23 ॥
सुदुःसहां शरैर घॊरैर दिव्यास्त्रप्रतिमन्त्रितैः वयधमत स महातेजा महाभ्राणीव मारुतः ॥ 24 ॥
ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत घॊररूपॊ महाराज यॊधानां हर्षवर्धनः ॥ 25 ॥
ततॊ ऽसत्रसंघर्ष कृतैर विस्फुलिङ्गैः समन्ततः बभौ निशामुखे वयॊम खद्यॊतैर इव संवृतम ॥ 26 ॥
स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः परियार्थं तव पुत्राणां राक्षसं समवाकिरत ॥ 27 ॥
ततः परववृते युद्धं दरौणिराक्षसयॊर मृधे विगाढे रजनीमध्ये शक्र परह्रादयॊर इव ॥ 28 ॥
ततॊ घटॊत्कचॊ बाणैर दशभिर दरौणिम आहवे जघानॊरसि संक्रुद्धः कालज्वलन संनिभैः ॥ 29 ॥
स तैर अभ्यायतैर विद्धॊ राक्षसेन महाबलः चचाल समरे दरौणिर वातनुन्न इव दरुमः स मॊहम अनुसंप्राप्तॊ धवजयष्टिं समाश्रितः ॥ 30 ॥
ततॊ हाहाकृतं सैन्यं तव सर्वं जनाधिप हतं सम मेनिरे सर्वे तावकास तं विशां पते ॥ 31 ॥
तं तु दृष्ट्वा तथावस्थम अश्वत्थामानम आहवे पाञ्चालाः सृञ्जयाश चैव सिंहनादं परचक्रिरे ॥ 32 ॥
परतिलभ्य ततः संज्ञाम अश्वत्थामा महाबलः धनुः परपीड्य वामेन करेणामित्रकर्शनः ॥ 33 ॥
मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम यमदण्डॊपमं घॊरम उद्दिश्याशु घटॊत्कचम ॥ 34 ॥
स भित्त्वा हृदयं तस्य राक्षसस्य शरॊत्तमः विवेश वसुधाम उग्रः सुपुङ्खः पृथिवीपते ॥ 35 ॥
सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत राक्षसेन्द्रः सुबलवान दरौणिना रणमानिना ॥ 36 ॥
दृष्ट्वा विमूढं हैडिम्बं सारथिस तं रणाजिरात दरौणेः सकाशात संभ्रान्तस तव अपनिन्ये तवरान्वितः ॥ 37 ॥
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटॊत्कचम ननाद सुमहानादं दरॊणपुत्रॊ महाबलः ॥ 38 ॥
पूजितस तव पुत्रैश च सर्वयॊधैश च भारत वपुषा परतिजज्वाल मध्याह्न इव भास्करः ॥ 39 ॥
भीमसेनं तु युध्यन्तं भारद्वाज रथं परति सवयं दुर्यॊधनॊ राजा परत्यविध्यच छितैः शरैः ॥ 40 ॥
तं भीमसेनॊ नवभिः शरैर विव्याध मारिष दुर्यॊधनॊ ऽपि विंशत्या शराणां परत्यविध्यत ॥ 41 ॥
तौ सायकैर अवच्छन्नाव अदृश्येतां रणाजिरे मेघजालसमाच्छन्नौ नभसीवेन्दु भास्करौ ॥ 42 ॥
अथ दुर्यॊधनॊ राजा भीमं विव्याध पत्रिभिः पञ्चभिर भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत ॥ 43 ॥
तस्य भीमॊ धनुश छित्त्वा धवजं च नवभिः शरैः विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम ॥ 44 ॥
ततॊ दुर्यॊधनः करुद्धॊ भीमसेनस्य मारिष चिक्षेप स शरान राजन पश्यतां सर्वधन्विनाम ॥ 45 ॥
तान निहत्य शरान भीमॊ दुर्यॊधन धनुश्च्युतान कौरवं पञ्चविंशत्या करुद्रकाणां समार्पयत ॥ 46 ॥
दुर्यॊधनस तु संक्रुद्धॊ भीमसेनस्य मारिष कषुरप्रेण धनुश छित्त्वा दशभिः परत्यविध्यत ॥ 47 ॥
अथान्यद धनुर आदाय भीमसेनॊ महाबलः विव्याध नृपतिं तूर्णं सप्तभिर निशितैः शरैः ॥ 48 ॥
तद अप्य अस्य धनुः कषिप्रं चिच्छेद लघुहस्तवत दवितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥ 49 ॥
आत्तम आत्तं महाराज भीमस्य धनुर आच्छिनत तव पुत्रॊ महाराज जितकाशी मदॊत्कटः ॥ 50 ॥
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम ॥ 51 ॥
अप्राप्ताम एव तां शक्तिं तरिधा चिच्छेद कौरवः पश्यतः सर्वलॊकस्य भीमस्य च महात्मनः ॥ 52 ॥
ततॊ भीमॊ महाराज गदां गुर्वीं महाप्रभाम चिक्षेपाविध्य वेगेन दुर्यॊधन रथं परति ॥ 53 ॥
ततः स सहसा वाहांस तव पुत्रस्य संयुगे सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥ 54 ॥
पुत्रस तु तव राजेन्द्र रथाद धेमपरिष्कृतात आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥ 55 ॥
ततॊ भीमॊ हतं मत्वा तव पुत्रं महारथम सिंहनादं महच चक्रे तर्जयन्न इव कौरवान ॥ 56 ॥
तावकाः सैनिकाश चापि मेनिरे निहतं नृपम ततॊ विचुक्रुशुः सर्वे हाहेति च समन्ततः ॥ 57 ॥
तेषां तु निनदं शरुत्वा तरस्तानां सर्वयॊद्निनाम भीमसेनस्य नादं च शरुत्वा राजन महात्मनः ॥ 58 ॥
ततॊ युधिष्ठिरॊ राजा हतं मत्वा सुयॊधनम अभ्यवर्तत वेगेन यत्र पार्थॊ वृकॊदरः ॥ 59 ॥
पाञ्चालाः केकया मत्स्याः सृञ्जयाश च विशां पते सर्वॊद्यॊगेनाभिजग्मुर दरॊणम एव युयुत्सया ॥ 60 ॥
तत्रासीत सुमहद युद्धं दरॊणस्याथ परैः सह घॊरे तमसि मग्नानां निघ्नताम इतरेतरम ॥ 61 ॥
द्रोणपर्व · Drona Parva
अध्याय 141
Reach this point to mark the section finished.
Continue to अध्याय 142