[धृ] यौ तौ कर्णश च भीमश च संप्रयुद्धौ महाबलौ अर्जुनस्य रथॊपान्ते कीदृशः सॊ ऽभवद रणः ॥ 1 ॥
पूर्वं हि निर्जितः कर्णॊ भीमसेनेन संयुगे कथं भूयस तु राधेयॊ भीमम आगान महारथः ॥ 2 ॥
भीमॊ वा सूत तनयं परत्युद्यातः कथं रणे महारथसमाख्यातं पृथिव्यां परवरं रथम ॥ 3 ॥
भीष्मद्रॊणाव अतिक्रम्य धर्मपुत्रॊ युधिष्ठिरः नान्यतॊ भयम आदत्त विना कर्णं धनुर्धरम ॥ 4 ॥
भयन न शेते सततं चिन्तयन वै महारथम तं कथं सूतपुत्रं हि भीमॊ ऽयुध्यत संयुगे ॥ 5 ॥
बरह्मण्यं वीर्यसंपन्नं समरेष्व अनिवर्तिनम कथं कर्णं युधां शरेष्टहं भीमॊ ऽयुध्यत संयुगे ॥ 6 ॥
यौ तौ समीयतुर वीराव अर्जुनस्य रथं परति कथं नु ताव अयुध्येतां सूतपुत्र वृकॊदरौ ॥ 7 ॥
भरातृत्वदर्शितं पूर्वं घृणी चापि ससूतजः कथं भीमेन युयुधे कुन्त्या वाक्यम अनुस्मरन ॥ 8 ॥
भीमॊ वा सूतपुत्रेण समरन वैरं पुरा कृतम सॊ ऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥ 9 ॥
आशास ते च सदा सूतपुत्रॊ दुर्यॊधनॊ मम कर्णॊ जेष्यति संग्रामे सहितान पाण्डवान इति ॥ 10 ॥
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे स कथं भीमकर्माणं भीमसेनम अयुध्यत ॥ 11 ॥
यं समाश्रित्य पुत्रैर मे कृतं वैरं महारथैः तं सूत तनयं तात कथं भीमॊ हय अयॊधयत ॥ 12 ॥
अनेकान विप्रकारांश च सूतपुत्र समुद्भवान समरमाणः कथं भीमॊ युयुधे सूत सूनुना ॥ 13 ॥
यॊ ऽजयत पृथिवीं सर्वां रथेनैकेन वीर्यवान तं सूत तनयं युद्धे कथं भीमॊ हय अयॊधयत ॥ 14 ॥
यॊ जातः कुण्डलाभ्यां च कवचेन सहैव च तं सूतपुत्रं समरे भीमः कथम अयॊधयत ॥ 15 ॥
यथा तयॊर युद्धम अभूद यश चासीद विजयी तयॊः तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय ॥ 16 ॥
[स] भीमसेनस तु राधेयम उत्सृज्य रथिनां वरम इयेष गन्तुं यत्रास्तां वीरौ कृष्ण धनंजयौ ॥ 17 ॥
तं परयान्तम अभिद्रुत्य राधेयः कङ्कपत्रिभिः अभ्यवर्षन महाराज मेघॊ वृष्ट्येव पर्वतम ॥ 18 ॥
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन बली आजुहाव रणे यान्तं भीमम आधिरथिस तदा ॥ 19 ॥
भीमसेनस तदाह्वानं कर्णान नामर्षयद युधि अर्धमण्डलम आवृत्य सूतपुत्रम अयॊधयत ॥ 20 ॥
अवक्रगामिभिर बाणैर अभ्यवर्षन महायसैः दवैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम ॥ 21 ॥
विधित्सुः कलहस्यान्तं जिघांसुः कर्णम अक्षिणॊत तं च हत्वेतरान सर्वान हन्तुकामॊ महाबलः ॥ 22 ॥
तस्मै परासृजद उग्राणि विविधानि परंतपः अमर्षी पाण्डवः करुद्धः शरवर्षाणि मारिष ॥ 23 ॥
तस्य तानीषु वर्षाणि मत्तद्विरदगामिनः सूतपुत्रॊ ऽसत्रमायाभिर अग्रसत सुमहायशाः ॥ 24 ॥
स यथा वन महाराज विद्यया वै सुपूजितः आचार्यवन महेष्वासः कर्णः पर्यचरद रणे ॥ 25 ॥
संरम्भेण तु युध्यन्तं भीमसेनं समयन्न इव अभ्यपद्यत राधेयस तम अमर्षी वृकॊदरम ॥ 26 ॥
तन नामृष्यत कौन्तेयः कर्णस्य समितम आहवे युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ 27 ॥
तं भीमसेनः संप्राप्तं वत्सदन्तैः सतनान्तरे विव्याध बलवान करुद्धस तॊत्त्रैर इव महाद्विपम ॥ 28 ॥
सूतं तु सूतपुत्रस्य सुपुङ्खैर निशितैः शरैः सुमुक्तैश चित्रवर्माणं निर्बिभेद तरिसप्तभिः ॥ 29 ॥
कर्णॊ जाम्बूनदैर जालैः संछन्नान वातरंहसः विव्याध तुरगान वीरः पञ्चभिः पञ्चभिः शरैः ॥ 30 ॥
ततॊ बाणमयं जालं भीमसेनरथं परति कर्णेन विहितं राजन निमेषार्धाद अदृश्यत ॥ 31 ॥
स रथः स धवजस तत्र ससूतः पाण्डवस तदा पराछाद्यत महाराज कर्ण चापच्युतैः शरैः ॥ 32 ॥
तस्य कर्णश चतुःषष्ट्या वयधमत कवचं दृढम करुद्धश चाप्य अहनत पार्श्वे नाराचैर मर्मभेदिभिः ॥ 33 ॥
ततॊ ऽचिन्त्यमहावेगान कर्ण कार्मुकनिःसृतान समाश्लिष्यद असंभ्रान्तः सूतपुत्रं वृकॊदरः ॥ 34 ॥
स कर्ण चापप्रभवान इषून आशीविषॊपमान बिभ्रद भीमॊ महाराज न जगाम वयथां रणे ॥ 35 ॥
ततॊ दवात्रिंशता भल्लैर निशितैस तिग्मतेजनैः विव्याध समरे कर्णं भीमसेनः परतापवान ॥ 36 ॥
अयत्नेनैव तं कर्णः शरैर उप समाकिरत भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम ॥ 37 ॥
मृदुपूर्वं च राधेयॊ भीमम आजाव अयॊधयत करॊधपूर्वं तथा भीमः पूर्ववैरम अनुस्मरन ॥ 38 ॥
तं भीमसेनॊ नामृष्यद अवमानम अमर्षणः स तस्मै वयसृजत तूर्णं शरवर्षम अमित्रजित ॥ 39 ॥
ते शराः परेषिता राजन भीमसेनेन संयुगे निपेतुः सर्वतॊ भीमाः कूजन्त इव पक्षिणः ॥ 40 ॥
हेमपुङ्खा महाराज भीमसेनधनुश चयुताः अभ्यद्रवंस ते राधेयं वृकाः कषुद्रमृगं यथा ॥ 41 ॥
कर्णस तु रथिनां शरेष्ठश छाद्यमानः समन्ततः राजन वयसृजद उग्राणि शरवर्षाणि संयुगे ॥ 42 ॥
तस्य तान अशनिप्रख्यान इषून समरशॊभिनः चिच्छेद बहुभिर भल्लैर असंप्राप्तान वृकॊदरः ॥ 43 ॥
पुनश च शरवर्षेण छादयाम आस भारत कर्णॊ वैकर्तनॊ युद्धे भीमसेनं महारथम ॥ 44 ॥
तत्र भारत भीमं तु हृष्टवन्तः सम सायकैः समाचित तनुं संख्ये शवाविधं शलिलैर इव ॥ 45 ॥
हेमपुङ्खाञ शिला दौतान कर्ण चापच्युताञ शरान दधार समरे वीरः सवरश्मीन इव भास्करः ॥ 46 ॥
रुधिरॊक्षितसर्वाङ्गॊ भीमसेनॊ वयरॊचत तपनीयनिभैः पुष्पैः पलाश इव कानने ॥ 47 ॥
तत तु भीमॊ महाराज कर्णस्य चरितं रणे नामृष्यत महेष्वासः करॊधाद उद्वृत्य चक्षुषी ॥ 48 ॥
स कर्णं पञ्चविंशत्या नारचानां समार्पयत महीधरम इव शवेतं गूढपादैर विषॊल्बणैः ॥ 49 ॥
तं विव्याध पुनर भीमः षड्भिर अष्टाभिर एव च मर्मस्व अमर विक्रान्तः सूतपुत्रं महारणे ॥ 50 ॥
ततः कर्णस्य संक्रुद्धॊ भीमसेनः परतापवान चिच्छेद कार्मुकं तूर्णं सर्वॊपकरणानि च ॥ 51 ॥
जघान चतुरश चाश्वान सूतं च तवरितः शरैः नाराचैर अर्करश्म्य आभैः कर्णं विव्याध चॊरसि ॥ 52 ॥
ते जग्मुर धरणीं सर्वे कर्णं निर्भिद्य मारिष यथा हि जलदं भित्त्वा राजन सूर्यस्य रश्मयः ॥ 53 ॥
स वैकल्यं महत पराप्य छिन्नधन्वा शरार्दितः तथा पुरुषमानी स परत्यपायाद रथान्तरम ॥ 54 ॥
द्रोणपर्व · Drona Parva
अध्याय 106
Reach this point to mark the section finished.
Continue to अध्याय 107