धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 104

  1. [धृ] तथा तु नर्दमानं तं भीमसेनं महाबलम मेघस्तनित निर्घॊषं के वीराः पर्यवारयन ॥ 1 ॥

  2. न हि पश्याम्य अहं तं वै तरिषु लॊकेषु संजयम करुद्धस्य भिमसेनस्य यस तिष्ठेद अग्रतॊ रणे ॥ 2 ॥

  3. गदाम उद्यच्छमानस्य कालस्येव महामृधे न हि पश्याम्य अहं तात यस तिष्ठेत रणाजिरे ॥ 3 ॥

  4. रथं रथेन यॊ हन्यात कुञ्जरं कुञ्जरेण च कस तस्य समरे सथाता साक्षाद अपि शतक्रतुः ॥ 4 ॥

  5. करुद्धस्य भीमसेनस्य मम पुत्राञ जिघांसतः दुर्यॊधन हिते युक्ताः समतिष्ठन्त के ऽगरतः ॥ 5 ॥

  6. भीमसेन दवाग्नेस तु मम पुत्र तृणॊलपम परधक्ष्यतॊ रणमुखे के वीराः परमुखे सथिताः ॥ 6 ॥

  7. काल्यमानान हि मे पुत्रान भीमेनावेक्ष्य संयुगे कालेनेव परजाः सर्वाः के भीमं पर्यवारयन ॥ 7 ॥

  8. भीम वह्नेः परदीप्तस्य मम पुत्रान दिधक्षतः के शूराः पर्यवर्तन्त तन ममाचक्ष्व संजय ॥ 8 ॥

  9. [स] तथा तु नर्दमानं तं भीमसेनं महारथम तुमुलेनैव शब्देन कर्णॊ ऽपय अभ्यपतद बली ॥ 9 ॥

  10. वयाक्षिपन बलवच चापम अतिमात्रम अमर्षणः कर्णस तु युद्धम आकाङ्क्षन दर्शयिष्यन बलं बली ॥ 10 ॥

  11. परावेपन्न इव गात्राणि कर्ण भीम समागमे रथिनां सादिनां चैव तयॊः शरुत्वा तलस्वनम ॥ 11 ॥

  12. भीमसेनस्य निनदं घॊरं शरुत्वा रणाजिरे खं च भूमिं च संबद्धां मेनिरे कषत्रियर्षभाः ॥ 12 ॥

  13. पुनर घॊरेण नादेन पाण्डवस्य महात्मनः समरे सर्वयॊधानां धनूंष्य अभ्यपतन कषितौ ॥ 13 ॥

  14. वित्रस्तानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः वाहनानि महाराज बभूवुर विमनांसि च ॥ 14 ॥

  15. परादुरासन निमित्तानि घॊराणि च बहूनि च तस्मिंस तु तुमुले राजन भीमकर्ण समागमे ॥ 15 ॥

  16. ततः कर्णस तु विंशत्या शराणां भीमम आर्दयत विव्याध चास्य तवरितः सूतं पञ्चहिर आशुगैः ॥ 16 ॥

  17. परहस्य भीमसेनस तु कर्णं परत्यर्पयद रणे सायकानां चतुःषष्ट्या कषिप्रकारी महाबलः ॥ 17 ॥

  18. तस्य कर्णॊ महेष्वासः सायकांश चतुरॊ ऽकषिपत असंप्राप्तांस तु तान भीमः सायकैर नतपर्वभिः चिच्छेद बहुधा राजन दर्शयन पाणिलाघवम ॥ 18 ॥

  19. तं कर्णश छादयाम आस शरव्रातैर अनेकशः संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ 19 ॥

  20. चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः विव्याध चैनं बहुभिः सायकैर नतपर्वभिः ॥ 20 ॥

  21. अथान्यद धनुर आदाय सज्यं कृत्वा च सूतजः विव्याध समरे भीमं भीमकर्मा महारथः ॥ 21 ॥

  22. तस्य भीमॊ भृशं करुद्दस तरीञ शरान नतपर्वणः निचखानॊरसि तदा सूतपुत्रस्य वेगितः ॥ 22 ॥

  23. तैः कर्णॊ ऽभराजत शरैर उरॊ मध्यगतैस तदा महीधर इवॊदग्रस तरिशृङ्गॊ भरतर्षभ ॥ 23 ॥

  24. सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः धातुप्रस्यन्दिनः शैलाद यथा गैरिकराजयः ॥ 24 ॥

  25. किं चिद विचलितः कर्णः सुप्रहाराभिपीडितः स सायकं धनुः कृत्वा भीमं विव्याध मारिष चिक्षेप च पुनर बाणाञ शतशॊ ऽथ सहस्रशः ॥ 25 ॥

  26. स छाद्यमानः सहसा कर्णेन दृढधन्विना धनुर्ज्याम अच्छिनत तूर्णम उत्स्मयन पाण्डुनन्दनः ॥ 26 ॥

  27. सारथिं चास्य भल्लेन पराहिणॊद यमसादनम वाहांश च चतुरं संख्ये वयसूंश चक्रे महारथः ॥ 27 ॥

  28. हताश्वात तु रथात कर्णः समाप्लुत्य विशां पते सयन्दनं वृषसेनस्य समारॊहन महारथः ॥ 28 ॥

  29. निर्जित्य तु रणे कर्णं भीमसेनः परतापवान ननाद सुमहानादं पर्जन्यनिनदॊपमम ॥ 29 ॥

  30. तस्य तं निनदं शरुत्वा परहृष्टॊ ऽभूद युधिष्ठिरः कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥ 30 ॥

  31. समन्ताच छङ्खनिनदं पाण्डुसेनाकरॊत तदा शत्रुसेना धवनिं शरुत्वा तावका हय अपि नानदन गाण्डीवं पराक्षिपत पार्थः कृष्णॊ ऽपय अब्जम अवादयत ॥ 31 ॥

  32. तम अन्तर धाय निनदं धवनिर भीमस्य नर्दतः अश्रूयत महाराज सर्वसैन्येषु भारत ॥ 32 ॥

  33. ततॊ वयायच्छताम अस्त्रैः पृथक्पृथग अरिंदमौ मृदुपूर्वं च राधेयॊ दृढपूर्वं च पाण्डवः ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 105

Previous: अध्याय 103