धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 98

  1. [न] हिरण्यपुरम इत्य एतत खयातं पुरवरं महत दैत्यानां दानवानां च माया शतविचारिणाम ॥ 1 ॥

  2. अनल्पेन परयत्नेन निर्मितं विश्वकर्मणा मयेन मनसा सृष्टं पातालतलम आश्रितम ॥ 2 ॥

  3. अत्र माया सहस्राणि विकुर्वाणा महौजसः दानवा निवसन्ति सम शूरा दत्तवराः पुरा ॥ 3 ॥

  4. नैते शक्रेण नान्येन वरुणेन यमेन वा शक्यन्ते वशम आनेतुं तथैव धनदेन च ॥ 4 ॥

  5. असुराः कालखञ्जाश च तथा विष्णुपदॊद्भवाः नैरृता यातुधानाश च बरह्म वेदॊद्भवाश च ये ॥ 5 ॥

  6. दंष्ट्रिणॊ भीमरूपाश च निवसन्त्य आत्मरक्षिणः मायावीर्यॊपसंपन्ना निवसन्त्य आत्मरक्षिणः निवातकवचा नाम दानवा युद्धदुर्मदाः ॥ 6 ॥

  7. जानासि च यथा शक्रॊ नैताञ शक्नॊति वाधितुम ॥ 7 ॥

  8. बहुशॊ मातले तवं च तव पुत्रश च गॊमुखः निर्भग्नॊ देवराजश च सह पुत्रः शचीपतिः ॥ 8 ॥

  9. पश्य वेश्मानि रौक्माणि मातले राजतानि च कर्मणा विधियुक्तेन युक्तान्य उपगतानि च ॥ 9 ॥

  10. वैडूर्य हरितानीव परवालरुचिराणि च अर्कस्फटिक शुभ्राणि वर्ज सारॊज्ज्वलानि च ॥ 10 ॥

  11. पार्थिवानीव चाभान्ति पुनर नगमयानि च शैलानीव च दृश्यन्ते तारकाणीव चाप्य उत ॥ 11 ॥

  12. सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च मणिजालविचित्राणि परांशूनि निबिडानि च ॥ 12 ॥

  13. नैतानि शक्यं निर्देष्टुं रूपतॊ दरव्यतस तथा गुणतश चैव सिद्धानि परमाण गुणवन्ति च ॥ 13 ॥

  14. आक्रीडान पश्य दैत्यानां तथैव शयनान्य उत रत्नवन्ति महार्हाणि भाजनान्य आसनानि च ॥ 14 ॥

  15. जलदाभांस तथा शैलांस तॊयप्रस्रवणान्वितान कामपुष्पफलांश चैव पादपान कामचारिणः ॥ 15 ॥

  16. मातले कश चिद अत्रापि रुचितस ते वरॊ भवेत अथ वान्यां दिशं भूमेर गच्छाव यदि मन्यसे ॥ 16 ॥

  17. [कण्व] मातलिस तव अब्रवीद एनं भाषमाणं तथाविधम देवर्षे नैव मे कार्यं विप्रियं तरिदिवौकसाम ॥ 17 ॥

  18. नित्यानुषक्त वैरा हि भरातरॊ देवदानवाः अरिपक्षेण संबन्धं रॊचयिष्याम्य अहं कथम ॥ 18 ॥

  19. अन्यत्र साधु गच्छावॊ दरष्टुं नार्हामि दानवान जानामि तु तथात्मानं दित्सात्म कमलं यथा ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 99

Previous: अध्याय 97