[नारद] एतत तु नागलॊकस्य नाभिस्थाने सथितं पुरम पातालम इति विख्यातं दैत्यदानव सेवितम ॥ 1 ॥
इदम अद्भिः समं पराप्ता ये के चिद धरुवजङ्गमाः परविशन्तॊ महानादं नदन्ति भयपीडिताः ॥ 2 ॥
अत्रासुरॊ ऽगनिः सततं दीप्यते वारि भॊजनः वयापारेण धृतात्मानं निबद्धं समबुध्यत ॥ 3 ॥
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः अतः सॊमस्य हानिश च वृद्धिश चैव परदृश्यते ॥ 4 ॥
अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि उत्तिष्ठति सुवर्णाभं वार्भिर आपूरयञ जगत ॥ 5 ॥
यस्माद अत्र समग्रास ताः पतन्ति जलमूर्तयः तस्मात पातालम इत्य एतत खयायते पुरम उत्तमम ॥ 6 ॥
ऐरावतॊ ऽसमात सलिलं गृहीत्वा जगतॊ हितः मेघेष्व आमुञ्चते शीतं यन महेन्द्रः परवर्षति ॥ 7 ॥
अत्र नानाविधाकारास तिमयॊ नैकरूपिणः अप्सु सॊमप्रभां पीत्वा वसन्ति जलचारिणः ॥ 8 ॥
अत्र सूर्यांशुभिर भिन्नाः पातालतलम आश्रिताः मृता दिवसतः सूत पुनर जीवन्ति ते निशि ॥ 9 ॥
उदये नित्यशश चात्र चन्द्रमा रश्मिभिर वृतः अमृतं सपृश्य संस्पर्शात संजीवयति देहिनः ॥ 10 ॥
अत्र ते ऽधर्मनिरता बद्धाः कालेन पीडिताः दैतेया निवसन्ति सम वासवेन हृतश्रियः ॥ 11 ॥
अत्र भूतपतिर नाम सर्वभूतमहेश्वरः भूतये सर्वभूतानाम अचरत तप उत्तमम ॥ 12 ॥
अत्र गॊव्रतिनॊ विप्राः सवाध्यायाम्नाय कर्शिताः तयक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥ 13 ॥
यत्र तत्र शयॊ नित्यं येन केन चिद आशितः येन केन चिद आच्छन्नः स गॊव्रत इहॊच्यते ॥ 14 ॥
ऐरावतॊ नागराजॊ वामनः कुमुदॊ ऽञजनः परसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥ 15 ॥
पश्य यद्य अत्र ते कश चिद रॊचते गुणतॊ वरः वरयिष्याव तं गत्वा यत्नम आस्थाय मातले ॥ 16 ॥
अण्डम एतज जले नयस्तं दीप्यमानम इव शरिया आ परजानां निसर्गाद वै नॊद्भिद्यति न सर्पति ॥ 17 ॥
नास्य जातिं निसर्गं वा कथ्यमानं शृणॊमि वै पितरं मातरं वापि नास्य जानाति कश चन ॥ 18 ॥
अतः किल महान अग्निर अन्तकाले समुत्थितः धक्ष्यते मातले सर्वं तरैलॊक्यं सचराचरम ॥ 19 ॥
[कण्व] मातलिस तव अब्रवीच छरुत्वा नारदस्याथ भाषितम न मे ऽतर रॊचते कश चिद अन्यतॊ वरज माचिरम ॥ 20 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 97
Reach this point to mark the section finished.
Continue to अध्याय 98