धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 71

  1. [भगवान] संजयस्य शरुतं वाक्यं भवतश च शरुतं मया सर्वं जानाम्य अभिप्रायं तेषां च भवतश च यः ॥ 1 ॥

  2. तव धर्माश्रिता बुद्धिस तेषां वैराश्रिता मतिः यद अयुद्धेन लभ्येत तत ते बहुमतं भवेत ॥ 2 ॥

  3. न च तन नैष्ठिकं कर्म कषत्रियस्य विशां पते आहुर आश्रमिणः सर्वे यद भैक्षं कषत्रियश चरेत ॥ 3 ॥

  4. जयॊ वधॊ वा संग्रामे धात्रा दिष्टः सनातनः सवधर्मः कषत्रियस्यैष कार्पण्यं न परशस्यते ॥ 4 ॥

  5. न हि कार्पण्यम आस्थाय शक्या वृत्तिर युधिष्ठिर विक्रमस्व महाबाहॊ जहि शत्रून अरिंदम ॥ 5 ॥

  6. अतिगृद्धाः कृतस्नेहा दीर्घकालं सहॊषिताः कृतमित्राः कृतबला धार्तराष्ट्राः परंतप ॥ 6 ॥

  7. न पर्यायॊ ऽसति यत साम्यं तवयि कुर्युर विशां पते बलवत्तां हि मन्यन्ते भीष्मद्रॊणकृपादिभिः ॥ 7 ॥

  8. यावच च मार्दवेनैतान राजन्न उपचरिष्यसि तावद एते हरिष्यन्ति तव राज्यम अरिंदम ॥ 8 ॥

  9. नानुक्रॊशान न कार्पण्यान न च धर्मार्थकारणात अलं कर्तुं धारराष्ट्रास तव कामम अरिंदम ॥ 9 ॥

  10. एतद एव निमित्तं ते पाण्डवास तु यथा तवयि नान्वतप्यन्त कौपीनं तावत कृत्वापि दुष्करम ॥ 10 ॥

  11. पितामहस्य दरॊणस्य विदुरस्य च धीमतः पश्यतां कुरुमुख्यानां सर्वेषाम एव तत्त्वतः ॥ 11 ॥

  12. दानशीलं मृदुं दान्तं धर्मकामम अनुव्रतम यत तवाम उपधिना राजन दयूतेनावञ्चयत तदा न चापत्रपते पापॊ नृशंसस तेन कर्मणा ॥ 12 ॥

  13. तथाशीर समाचारे राजन मा परणयं कृथाः वध्यास ते सर्वलॊकस्य किं पुनस तव भारत ॥ 13 ॥

  14. वाग्भिस तव अप्रतिरूपाभिर अतुदत स कनीयसम शलाघमानः परहृष्टः सन भाषते भरातृभिः सह ॥ 14 ॥

  15. एतावत पाण्डवानां हि नास्ति किं चिद इह सवकम नामधेयं च गॊत्रं च तद अप्य एषां न शिष्यते ॥ 15 ॥

  16. कालेन महता चैषां भविष्यति पराभवः परकृतिं ते भजिष्यन्ति नष्टप्रकृतयॊ जनाः ॥ 16 ॥

  17. एताश चान्याश च परुषा वाचः स समुदीरयन शलाघते जञातिमध्ये सम तवयि पव्रजिते वनम ॥ 17 ॥

  18. ये तत्रासन समानीतास ते दृष्ट्वा तवाम अनागसम अश्रुकण्ठा रुदन्तश च सभायाम आसते तदा ॥ 18 ॥

  19. न चैनम अभ्यनन्दंस ते राजानॊ बराह्मणैः सह सर्वे दुर्यॊधनं तत्र निन्दन्ति सम सभासदः ॥ 19 ॥

  20. कुलीनस्य च या निन्दा वधश चामित्रकर्शन महागुणॊ वधॊ राजन न तु निन्दा कुजीविका ॥ 20 ॥

  21. तदैव निहतॊ राजन यदैव निरपत्रपः निन्दितश च महाराज पृथिव्यां सर्वराजसु ॥ 21 ॥

  22. ईषत्कार्यॊ वधस तस्य यस्य चारित्रम ईदृशम परस्कम्भन परतिस्तब्धश छिन्नमूल इव दरुमः ॥ 22 ॥

  23. वध्यः सर्प इवानार्यः सर्वलॊकस्य दुर्मतिः जह्य एनं तवम अमित्रघ्न मा राजन विचिकित्सिथाः ॥ 23 ॥

  24. सर्वथा तवत कषमं चैतद रॊचते च ममानघ यत तवं पितरि भीष्मे च परणिपातं समाचरेः ॥ 24 ॥

  25. अहं तु सर्वलॊकस्य गत्वा छेत्स्यामि संशयम येषाम अस्ति दविधा भावॊ राजन दुर्यॊधनं परति ॥ 25 ॥

  26. मध्ये राज्ञाम अहं तत्र परातिपौरुषिकान गुणान तव संकीर्तयिष्यामि ये च तस्य वयतिक्रमाः ॥ 26 ॥

  27. बरुवतस तत्र मे वाक्यं धर्मार्थसहितं हितम निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ 27 ॥

  28. तवयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवाग इति तस्मिंश चाधिगमिष्यन्ति यथा लॊभाद अवर्तत ॥ 28 ॥

  29. गर्हयिष्यामि चैवैनं पौरजानपदेष्व अपि वृद्धबालान उपादाय चातुर्वर्ण्यसमागमे ॥ 29 ॥

  30. शमं चेद याचमानस तवं न धर्मं तत्र लप्स्यसे कुरून विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ 30 ॥

  31. तस्मिँल लॊकपरित्यक्ते किं कार्यम अवशिष्यते हते दुर्यॊधने राजन यद अन्यत करियताम इति ॥ 31 ॥

  32. यात्वा चाहं कुरून सर्वान युष्मदर्थम अहापयन यतिष्ये परशमं कर्तुं लक्षयिष्ये च चेष्टितम ॥ 32 ॥

  33. कौरवाणां परवृत्तिं च गत्वा युद्धाधिकारिकाम निशाम्य विनिवर्तिष्ये जयाय तव भारत ॥ 33 ॥

  34. सर्वथा युद्धम एवाहम आशंसामि परैः सह निमित्तानि हि सर्वाणि तथा परादुर्भवन्ति मे ॥ 34 ॥

  35. मृगाः शकुन्ताश च वदन्ति घॊरं; हस्त्यश्वमुख्येषु निशामुखेषु घॊराणि रूपाणि तथैव चाग्निर; वर्णान बहून पुष्यति घॊररूपान मनुष्यलॊकक्षपणॊ ऽथ घॊरॊ; नॊ चेद अनुप्राप्त इहान्तकः सयात ॥ 35 ॥

  36. शस्त्राणि पत्रं कवचान रथांश च; नागान धवजांश च परतिपादयित्वा यॊधाश च सर्वे कृतनिश्रमास ते; भवन्तु हस्त्यश्वरथेषु यत्ताः सांग्रामिकं ते यद उपार्जनीयं; सर्वं समग्रं कुरु तन नरेन्द्र ॥ 36 ॥

  37. दुर्यॊधनॊ न हय अलम अद्य दातुं; जीवंस तवैतन नृपते कथं चित यत ते पुरस्ताद अभवत समृद्धं; दयूते हृतं पाण्डवमुख्यराज्यम ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 72

Previous: अध्याय 70