[व] संजये परतियाते तु धर्मराजॊ युधिष्ठिरः अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम ॥ 1 ॥
अयं स कालः संप्राप्तॊ मित्राणां मे जनार्दन न च तवदन्यं पश्यामि यॊ न आपत्सु तारयेत ॥ 2 ॥
तवां हि माधव संश्रित्य निर्भया मॊहदर्पितम धार्तराष्ट्रं सहामात्यं सवम अंशम अनुयुञ्ज्महे ॥ 3 ॥
यथा हि सर्वास्व आपत्सु पासि वृष्णीन अरिंदम तथा ते पाण्डवा रक्ष्याः पाह्य अस्मान महतॊ भयात ॥ 4 ॥
[भगवान] अयम अस्मि महाबाहॊ बरूहि यत ते विवक्षितम करिष्यामि हि तत सर्वं यत तवं वक्ष्यसि भारत ॥ 5 ॥
शरुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम एतद धि सकलं कृष्ण संजयॊ मां यद अब्रवीत ॥ 6 ॥
तन मतं धृतराष्ट्रस्य सॊ ऽसयात्मा विवृतान्तरः यथॊक्तं दूत आचष्टे वध्यः सयाद अन्यथा बरुवन ॥ 7 ॥
अप्रदानेन राज्यस्य शान्तिम अस्मासु मार्गति लुब्धः पापेन मनसा चरन्न असमम आत्मनः ॥ 8 ॥
यत तद दवादश वर्षाणि वने निर्व्युषिता वयम छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात ॥ 9 ॥
सथाता नः समये तस्मिन धृतराष्ट्र इति परभॊ नाहास्म समयं कृष्ण तद धि नॊ बराह्मणा विदुः ॥ 10 ॥
वृद्धॊ राजा धृतराष्ट्रः सवधर्मं नानुपश्यति पश्यन वा पुत्रगृद्धित्वान मन्दस्यान्वेति शासनम ॥ 11 ॥
सुयॊधन मते तिष्ठन राजास्मासु जनार्दन मिथ्या चरति लुब्धः संश चरन परियम इवात्मनः ॥ 12 ॥
इतॊ दुःखतरं किं नु यत्राहं मातरं ततः संविधातुं न शक्नॊमि मित्राणां वा जनार्दन ॥ 13 ॥
काशिभिश चेदिपाञ्चालैर मत्स्यैश च मधुसूदन भवता चैव नाथेन पञ्च गरामा वृता मया ॥ 14 ॥
कुश सथलं वृकस्थलम आसन्दी वारणावतम अवसानं च गॊविन्द किं चिद एवात्र पञ्चमम ॥ 15 ॥
पञ्च नस तात दीयन्तां गरामा वा नगराणि वा वसेम सहिता येषु मा च नॊ भरता नशन ॥ 16 ॥
न च तान अपि दुष्टात्मा धार्तराष्ट्रॊ ऽनुमन्यते सवाम्यम आत्मनि मत्वासाव अतॊ दुःखतरं नु किम ॥ 17 ॥
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः लॊभः परज्ञानम आहन्ति परज्ञा हन्ति हता हरियम ॥ 18 ॥
हरीर हता बाधते धर्मं धर्मॊ हन्ति हतः शरियम शरीर हता पुरुषं हन्ति पुरुषस्यास्वता वधः ॥ 19 ॥
अस्वतॊ हि निवर्तन्ते जञातयः सुहृदर्त्विजः अपुष्पाद अफलाद वृक्षाद यथा तात पतत्रिणः ॥ 20 ॥
एतच च मरणं तात यद अस्मात पतिताद इव जञातयॊ विनिवर्तन्ते परेतसत्त्वाद इवासवः ॥ 21 ॥
नातः पापीयसीं कां चिद अवस्थां शम्बरॊ ऽबरवीत यत्र नैवाद्य न परातर भॊजनं पतिदृश्यते ॥ 22 ॥
धनम आहुः परं धर्मं धने सर्वं परतिष्ठितम जीवन्ति धनिनॊ लॊके मृता ये तव अधना नराः ॥ 23 ॥
ये धनाद अपकर्षन्ति नरं सवबलम आश्रिताः ते धर्मम अर्थं कामं च परमथ्नन्ति नरं च तम ॥ 24 ॥
एताम अवस्थां पराप्यैके मरणं वव्रिरे जनाः गरामायैके वनायैके नाशायैके पवव्रजुः ॥ 25 ॥
उन्मादम एके पुष्यन्ति यान्त्य अन्ये दविषतां वशम दास्यम एके निगच्छन्ति परेषाम अर्थहेतुना ॥ 26 ॥
आपद एवास्य मरणात पुरुषस्य गरीयसी शरियॊ विनाशस तद धयस्य निमित्तं धर्मकामयॊः ॥ 27 ॥
यद अस्य धर्म्यं मरणं शाश्वतं लॊकवर्त्म तत समन्तात सर्वभूतानां न तद अत्येति कश चन ॥ 28 ॥
न तथा बाध्यते कृष्ण परकृत्या निर्धनॊ जनः यथा भद्रां शरियं पराप्य तया हीनः सुखैधितः ॥ 29 ॥
स तदात्मापराधेन संप्राप्तॊ वयसनं महत सेन्द्रान गर्हयते देवान नात्मानं च कथं चन ॥ 30 ॥
न चास्मिन सर्वशास्त्राणि परतरन्ति निगर्हणाम सॊ ऽभिक्रुध्यति भृत्यानां सुहृदश चाभ्यसूयति ॥ 31 ॥
तं तदा मन्युर एवैति स भूयः संप्रमुह्यति स मॊहवशम आपन्नः करूरं कर्म निषेवते ॥ 32 ॥
पापकर्मात्ययायैव संकरं तेन पुष्यति संकरॊ नरकायैव सा काष्ठा पापकर्मणाम ॥ 33 ॥
न चेत परबुध्यते कृष्ण नरकायैव गच्छति तस्य परबॊधः परज्ञैव परज्ञा चक्षुर न रिष्यति ॥ 34 ॥
परज्ञा लाभे हि पुरुषः शास्त्राण्य एवान्ववेक्षते शास्त्रनित्यः पुनर धर्मं तस्य हरीर अङ्गम उत्तमम ॥ 35 ॥
हरीमान हि पापं परद्वेष्टि तस्य शरीर अभिवर्धते शरीमान स यावद भवति तावद भवति पूरुषः ॥ 36 ॥
धर्मनित्यः परशान्तात्मा कार्ययॊगवहः सदा नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ॥ 37 ॥
अह्रीकॊ वा विमूढॊ वा नैव सत्री न पुनः पुमान नास्याधिकारॊ धर्मे ऽसति यथा शूद्रस तथैव सः ॥ 38 ॥
हरीमान अवति देवांश च पितॄन आत्मानम एव च तेनामृतत्वं वरजति सा काष्ठा पुण्यकर्मणाम ॥ 39 ॥
तद इदं मयि ते दृष्टं परत्यक्षं मधुसूदन यथा राज्यात परिभ्रष्टॊ वसामि वसतीर इमाः ॥ 40 ॥
ते वयं न शरियं हातुम अलं नयायेन केन चित अत्र नॊ यतमानानां वधश चेद अपि साधु तत ॥ 41 ॥
तत्र नः परथमः कल्पॊ यद वयं ते च माधव परशान्ताः समभूताश च शरियं तान अश्नुवीमहि ॥ 42 ॥
तत्रैषा परमा काष्ठा रौद्रकर्म कषयॊदया यद वयं हौरवान हत्वा तानि राष्ट्राण्य अशीमहि ॥ 43 ॥
ये पुनः सयुर असंबद्धा अनार्याः कृष्ण शत्रवः तेषाम अप्य अवधः कार्यः किं पुनर ये सयुर ईदृशाः ॥ 44 ॥
जञातयश च हि भूयिष्ठाः सहाया गुरवश च नः तेषां वधॊ ऽतिपापीयान किं नु युद्धे ऽसति शॊभनम ॥ 45 ॥
पापः कषत्रिय धर्मॊ ऽयं वयं च कषत्रबान्धवाः स नः सवधर्मॊ ऽधर्मॊ वा वृत्तिर अन्या विगर्हिता ॥ 46 ॥
शूद्रः करॊति शुश्रूषां वैश्या विपणि जीविनः वयं वधेन जीवामः कपालं बराह्मणैर वृतम ॥ 47 ॥
कषत्रियः कषत्रियं हन्ति मत्स्यॊ मत्स्येन जीवति शवा शवानं हन्ति दाशार्ह पश्य धर्मॊ यथागतः ॥ 48 ॥
युद्धे कृष्ण कलिर नित्यं पराणाः सीदन्ति संयुगे बलं तु नीतिमात्राय हठे जयपराजयौ ॥ 49 ॥
नात्मच छन्देन भूतानां जीवितं मरणं तथा नाप्य अकाले सुखं पराप्यं दुःखं वापि यदूत्तम ॥ 50 ॥
एकॊ हय अपि बहून हन्ति घनन्त्य एकं बहवॊ ऽपय उत शूरं कापुरुषॊ हन्ति अयशस्वी यशस्विनम ॥ 51 ॥
जयश चैवॊभयॊर दृष्ट उभयॊश च पराजयः तथैवापचयॊ दृष्टॊ वयपयाने कषयव्ययौ ॥ 52 ॥
सर्वथा वृजिनं युद्धं कॊ घनन न परतिहन्यते हतस्य च हृषीकेश समौ जयपराजयौ ॥ 53 ॥
पराजयश च मरणान मन्ये नैव विशिष्यते यस्य सयाद विजयः कृष्ण तस्याप्य अपचयॊ धरुवम ॥ 54 ॥
अन्ततॊ दयितं घनन्ति के चिद अप्य अपरे जनाः तस्याङ्गबलहीनस्य पुत्रान भरातॄन अपश्यतः निर्वेदॊ जीविते कृष्ण सर्वतश चॊपजायते ॥ 55 ॥
ये हय एव वीरा हरीमन्त आर्याः करुणवेदिनः त एव युद्धे हन्यन्ते यवीयान मुच्यते जनः ॥ 56 ॥
हत्वाप्य अनुशयॊ नित्यं परान अपि जनार्दन अनुबन्धश च पापॊ ऽतर शेषश चाप्य अवशिष्यते ॥ 57 ॥
शेषे हि बलम आसाद्य न शेषम अवषेषयेत सर्वॊच्छेदे च यतते वैरस्यान्त विधित्सया ॥ 58 ॥
जयॊ वैरं परसृजति दुःखम आस्ते पराजितः सुखं परशान्तः सवपिति हित्वा जयपराजयौ ॥ 59 ॥
जातवैरश च पुरुषॊ दुःखं सवपिति नित्यदा अनिर्वृतेन मनसा स सर्प इव वेश्मनि ॥ 60 ॥
उत्सादयति यः सर्वं यशसा स वियुज्यते अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ॥ 61 ॥
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य अपि आख्यातारश च विद्यन्ते पुमांश चॊत्पद्यते कुले ॥ 62 ॥
न चापि वैरं वैरेण केशव वयुपशाम्यति हविषाग्निर यथा कृष्ण भूय एवाभिवर्धते ॥ 63 ॥
अतॊ ऽनयथा नास्ति शान्तिर नित्यम अन्तरम अन्ततः अन्तरं लिप्समानानाम अयं दॊषॊ निरन्तरः ॥ 64 ॥
पौरुषेयॊ हि बलवान आधिर हृदयबाधनः तस्य तयागेन वा शान्तिर निवृत्त्या मनसॊ ऽपि वा ॥ 65 ॥
अथ वा मूलघातेन दविषतां मधुसूदन फलनिर्वृत्तिर इद्धा सयात तन नृशंसतरं भवेत ॥ 66 ॥
या तु तयागेन शान्तिः सयात तद ऋते वध एव सः संशयाच च समुच्छेदाद दविषताम आत्मनस तथा ॥ 67 ॥
न च तयक्तुं तद इच्छामॊ न चेच्छामः कुलक्षयम अत्र या परणिपातेन शान्तिः सैव गरीयसी ॥ 68 ॥
सर्वथा यतमानानाम अयुद्धम अभिकाङ्क्षताम सान्त्वे परतिहते युद्धं परसिद्धम अपराक्रमम ॥ 69 ॥
परतिघातेन सान्त्वस्य दारुणं संप्रवर्तते तच छुनाम इव गॊपादे पण्डितैर उपलक्षितम ॥ 70 ॥
लाङ्गूलचालनं कष्वेडः परतिरावॊ विवर्तनम दन्तदर्शनम आरावस ततॊ युद्धं परवर्तते ॥ 71 ॥
तत्र यॊ बलवान कृष्ण जित्वा सॊ ऽतति तद आमिषम एवम एव मनुष्येषु विशेषॊ नास्ति कश चन ॥ 72 ॥
सर्वथा तव एतद उचितं दुर्बलेषु बलीयसाम अनादरॊ विरॊधश च परणिपाती हि दुर्बलः ॥ 73 ॥
पिता राजा च वृद्धश च सर्वथा मानम अर्हति तस्मान मान्यश च पूज्यश च धृतराष्ट्रॊ जनार्दन ॥ 74 ॥
पुत्रस्नेहस तु बलवान धृतराष्ट्रस्य माधव सपुत्रवशम आपन्नः परणिपातं परहास्यति ॥ 75 ॥
तत्र किं मन्यसे कृष्ण पराप्तकालम अनन्तरम कथम अर्थाच च धर्माच च न हीयेमहि माधव ॥ 76 ॥
ईदृशे हय अर्थकृच्छ्रे ऽसमिन कम अन्यं मधुसूदन उपसंप्रष्टुम अर्हामि तवाम ऋते पुरुषॊत्तम ॥ 77 ॥
परियश च परियकामश च गतिज्ञः सर्वकर्मणाम कॊ हि कृष्णास्ति नस तवादृक सर्वनिश्चयवित सुहृत ॥ 78 ॥
एवम उक्तः परत्युवाच धर्मराजं जनार्दनः उभयॊर एव वाम अर्थे यास्यामि कुरुसंसदम ॥ 79 ॥
शमं तत्र लभेयं चेद युष्मदर्थम अहापयन पुण्यं मे सुमहद राजंश चरितं सयान महाफलम ॥ 80 ॥
मॊचयेयं मृत्युपाशात संरब्धान कुरुसृञ्जयान पाण्डवान धार्तराष्ट्रांश च सर्वां च पृथिवीम इमाम ॥ 81 ॥
न ममैतन मतं कृष्ण यत तवं यायाः कुरून परति सुयॊधनः सूक्तम अपि न करिष्यति ते वचः ॥ 82 ॥
समेतं पार्थिवं कषत्रं सुयॊधन वशानुगम तेषां मध्यावतरणं तव कृष्ण न रॊचये ॥ 83 ॥
न हि नः परीणयेद दरव्यं न देवत्वं कुतः सुखम न च सर्वामरैश्वर्यं तव रॊधेन माधव ॥ 84 ॥
[भगवान] जानाम्य एतां महाराज धार्तराष्ट्रस्य पापताम अवाच्यास तु भविष्यामः सर्वलॊके महीक्षिताम ॥ 85 ॥
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः ॥ 86 ॥
अथ चेत ते परवर्तेरन मयि किं चिद असांप्रतम निर्दहेयं कुरून सर्वान इति मे धीयते मतिः ॥ 87 ॥
न जातु गमनं तत्र भवेत पार्थ निरर्थकम अर्थप्राप्तिः कदा चित सयाद अन्ततॊ वाप्य अवाच्यता ॥ 88 ॥
यत तुभ्यं रॊचते कृष्ण सवस्ति पराप्नुहि कौरवान कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामि पुनरागतम ॥ 89 ॥
विष्वक्सेन कुरून गत्वा भारताञ शमयेः परभॊ यथा सर्वे सुमनसः सह सयामः सुचेतसः ॥ 90 ॥
भराता चासि सखा चासि बीभत्सॊर मम च परियः सौहृदेनाविशङ्क्यॊ ऽसि सवस्ति पराप्नुहि भूतये ॥ 91 ॥
अस्मान वेत्थ परान वेत्थ वेत्थार्थं वेत्थ भाषितम यद यद अस्मद्धितं कृष्ण तत तद वाच्यः सुयॊधनः ॥ 92 ॥
यद यद धर्मेण संयुक्तम उपपद्येद धितं वचः तत तत केशव भाषेथाः सान्त्वं वा यदि वेतरत ॥ 93 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 70
Reach this point to mark the section finished.
Continue to अध्याय 71