धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 28

  1. [य] असंशयं संजय सत्यम एतद; धर्मॊ वरः कर्मणां यत तवम आत्थ जञात्वा तु मां संजय गर्हयेस तवं; यदि धर्मं यद्य अधर्मं चरामि ॥ 1 ॥

  2. यत्राधर्मॊ धर्मरूपाणि बिभ्रद; धर्मः कृत्स्नॊ दृश्यते ऽधर्मरूपः तथा धर्मॊ धारयन धर्मरूपं; विद्वांसस तं संप्रपश्यन्ति बुद्ध्या ॥ 2 ॥

  3. एवम एताव आपदि लिङ्गम एतद; धर्माधर्मौ वृत्ति नित्यौ भजेताम आद्यं लिङ्गं यस्य तस्य परमाणम; आपद धर्मं संजय तं निबॊध ॥ 3 ॥

  4. लुप्तायां तु परकृतौ येन कर्म; निष्पादयेत तत्परीप्सेद विहीनः परकृतिस्थश चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ ॥ 4 ॥

  5. अविलॊपम इच्छतां बराह्मणानां; परायश्चित्तं विहितं यद विधात्रा आपद्य अथाकर्मसु वर्तमानान; विकर्मस्थान संजय गर्हयेत ॥ 5 ॥

  6. मनीषिणां तत्त्वविच छेदनाय; विधीयते सत्सु वृत्तिः सदैव अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वॊच्छेदं साधु मन्येत तेभ्यः ॥ 6 ॥

  7. तदर्था नः पितरॊ ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽनये परज्ञैषिणॊ य च हि कर्म चक्रुर; नास्त्य अन्ततॊ नास्ति नास्तीति मन्ये ॥ 7 ॥

  8. यत किं चिद एतद वित्तम अस्यां पृथिव्यां; यद देवानां तरिदशानां परत्र पराजापत्यं तरिदिवं बरह्मलॊकं; नाधर्मतः संजय कामये तत ॥ 8 ॥

  9. धर्मेश्वरः कुशलॊ नीतिमांश चाप्य; उपासिता बराह्मणानां मनीषी नानाविधांश चैव महाबलांश च; राजन्य भॊजनान अनुशास्ति कृष्णः ॥ 9 ॥

  10. यदि हय अहं विसृजन सयाम अगर्ह्यॊ; युध्यमानॊ यदि जह्यां सवधर्मम महायशाः केशवस तद बरवीतु; वासुदेवस तूभयॊर अर्थकामः ॥ 10 ॥

  11. शैनेया हि चैत्रकाश चान्धकाश च; वार्ष्णेय भॊजाः कौकुराः सृञ्जयाश च उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून सुहृदॊ नन्दयन्ति ॥ 11 ॥

  12. वृष्ण्यन्धका हय उग्रसेनादयॊ वै; कृष्ण परणीताः सर्वैवेन्द्र कल्पाः मनस्विनः सत्यपराक्रमाश च; महाबला यादवा भॊगवन्तः ॥ 12 ॥

  13. काश्यॊ बभ्रुः शरियम उत्तमां गतॊ; लब्ध्वा कृत्णं भरातरम ईशितारम यस्मै कामान वर्षति वासुदेवॊ; गरीष्मात्यये मेघ इव परजाभ्यः ॥ 13 ॥

  14. ईदृशॊ ऽयं केशवस तात भूयॊ; विद्मॊ हय एनं कर्मणां निश्चयज्ञम परियश च नः साधुतमश च कृष्णॊ; नातिक्रमे वचनं केशवस्य ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 29

Previous: अध्याय 27