[सुपर्ण] इयं दिग दयिता राज्ञॊ वरुणस्य तु गॊपतेः सदा सलिलराजस्य परतिष्ठा चादिर एव च ॥ 1 ॥
अत्र पश्चाद अहः सूर्यॊ विसर्जयति भाः सवयम पश्चिमेत्य अभिविख्याता दिग इयं दविजसत्तम ॥ 2 ॥
यादसाम अत्र राज्येन सलिलस्य च गुप्तये कश्यपॊ भगवान देवॊ वरुणं समाभ्यषेचयत ॥ 3 ॥
अत्र पीत्वा समस्तान वै वरुणस्य रसांस तु षट जायते तरुणः सॊमः शुक्लस्यादौ तमिस्रहा ॥ 4 ॥
अत्र पश्चात कृता दैत्या वायुना संयतास तदा निःश्वसन्तॊ महानागैर अर्दिताः सुषुपुर दविज ॥ 5 ॥
अत्र सूर्यं परणयिनं परतिगृह्णाति पर्वतः अस्तॊ नाम यतः संध्या पश्चिमा परतिसर्पति ॥ 6 ॥
अतॊ रात्रिश च निद्रा च निर्गता दिवसक्षये जायते जीवलॊकस्य हर्तुम अर्धम इवायुषः ॥ 7 ॥
अत्र देवीं दितिं सुप्ताम आत्मप्रसव धारिणीम विगर्भाम अकरॊच छक्रॊ यत्र जातॊ मरुद्गणः ॥ 8 ॥
अत्र मूलं हिमवतॊ मन्दरं याति शाश्वतम अपि वर्षसहस्रेण न चास्यान्तॊ ऽधिगम्यते ॥ 9 ॥
अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च उदधेस तीरम आसाद्य सुरभिः कषरते पयः ॥ 10 ॥
अत्र मध्ये समुद्रस्य कबन्धः परतिदृश्यते सवर्भानॊः सूर्यकल्पस्य सॊमसूर्यौ जिघांसतः ॥ 11 ॥
सुवर्णशिरसॊ ऽपय अत्र हरिरॊम्णः परगायतः अदृश्यस्याप्रमेयस्य शरूयते विपुलॊ धवनिः ॥ 12 ॥
अत्र धवजवती नाम कुमारी हरि मेधसः आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात ॥ 13 ॥
अत्र वायुस तथा वह्निर आपः खं चैव गालव आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति अतः परभृति सूर्यस्य तिर्यग आवर्तते गतिः ॥ 14 ॥
अत्र जयॊतींषि सर्वाणि विशन्त्य आदित्यमण्डलम अष्टाविंशति रात्रं च चङ्क्रम्य सह भानुना निष्पतन्ति पुनः सूर्यात सॊमसंयॊगयॊगतः ॥ 15 ॥
अत्र नित्यं सरवन्तीनां परभवः सागरॊदयः अत्र लॊकत्रयस्यापस तिष्ठन्ति वरुणाश्रयाः ॥ 16 ॥
अत्र पन्नगराजस्याप्य अनन्तस्य निवेशनम अनादि निधनस्यात्र विष्णॊः सथानम अनुत्तमम ॥ 17 ॥
अत्रानल सखस्यापि पवनस्य निवेशनम महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम ॥ 18 ॥
एष ते पश्चिमॊ मार्गॊ दिग दवारेण परकीर्तितः बरूहि गालव गच्छावॊ बुद्धिः का दविजसत्तम ॥ 19 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 108
Reach this point to mark the section finished.
Continue to अध्याय 109