धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 107

  1. [सुपर्ण] इयं विवस्वता पूर्वं शरौतेन विधिना किल गुरवे दक्षिणा दत्ता दक्षिणेत्य उच्यते ऽथ दिक ॥ 1 ॥

  2. अत्र लॊकत्रयस्यास्य पितृपक्षः परतिष्ठितः अत्रॊष्मपानां देवानां निवासः शरूयते दविज ॥ 2 ॥

  3. अत्र विश्वे सदा देवाः पितृभिः सार्धम आसते इज्यमानाः सम लॊकेषु संप्राप्तास तुल्यभागताम ॥ 3 ॥

  4. एतद दवितीयं धर्मस्य दवारम आचक्षते दविज तरुटिशॊ लवशश चात्र गण्यते कालनिश्चयः ॥ 4 ॥

  5. अत्र देवर्षयॊ नित्यं पितृलॊकर्षयस तथा तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥ 5 ॥

  6. अत्र धर्मश च सत्यं च कर्म चात्र निशाम्यते गतिर एषा दविजश्रेष्ठ कर्मणात्मावसादिनः ॥ 6 ॥

  7. एषा दिक सा दविजश्रेष्ठ यां सर्वः परतिपद्यते वृता तव अनवबॊधेन सुखं तेन न गम्यते ॥ 7 ॥

  8. नैरृतानां सहस्राणि बहून्य अत्र दविजर्षभ सृष्टानि परतिकूलानि दरष्टव्यान्य अकृतात्मभिः ॥ 8 ॥

  9. अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा दविज ॥ 9 ॥

  10. अत्र सामानि गाथाभिः शरुत्वा गीतानि रैवतः गतदारॊ गतामात्यॊ गतराज्यॊ वनं गतः ॥ 10 ॥

  11. अत्र सावर्णिना चैव यवक्रीतात्मजेन च मर्यादा सथापिता बरह्मन यां सूर्यॊ नातिवर्तते ॥ 11 ॥

  12. अत्र राक्षसराजेन पौलस्थ्येन महात्मना रावणेन तपश चीर्त्वा सुरेभ्यॊ ऽमरता वृता ॥ 12 ॥

  13. अत्र वृत्तेन वृत्रॊ ऽपि शक्रशत्रुत्वम ईयिवान अत्र सर्वासवः पराप्ताः पुनर गच्छन्ति पञ्चधा ॥ 13 ॥

  14. अत्र दुष्कृतकर्माणॊ नराः पच्यन्ति गालव अत्र वैतरणी नाम नदी वितरणैर वृता अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं परपद्यते ॥ 14 ॥

  15. अत्रावृत्तॊ दिनकरः कषरते सुरसं पयः काष्ठां चासाद्य धानिष्ठां हिमम उत्सृजते पुनः ॥ 15 ॥

  16. अत्राहं गालव पुरा कषुधार्तः परिचिन्तयन लब्धवान युध्यमानौ दवौ बृहन्तौ गल कच्छपौ ॥ 16 ॥

  17. अत्र शक्रधनुर नाम सूर्याज जातॊ महान ऋषिः विदुर यं कपिलं देवं येनात्ताः सगरात्मजाः ॥ 17 ॥

  18. अत्र सिद्धाः शिवा नाम बराह्मणा वेदपारगाः अधीत्य सखिलान वेदान आलभन्ते यमक्षयम ॥ 18 ॥

  19. अत्र भॊगवती नाम पुरी वासुकिपालिता तक्षकेण च नागेन तथैवैरावतेन च ॥ 19 ॥

  20. अत्र निर्याणकालेषु तमः संप्राप्यते महत अभेद्यं भास्करेणापि सवयं वा कृष्णवर्त्मना ॥ 20 ॥

  21. एष तस्यापि ते मार्गः परितापस्य गालव बरूहि मे यदि गन्तव्यं परतीचीं शृणु वा मम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 108

Previous: अध्याय 106