धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 31

  1. [वै] निर्याय नगराच छूरा वयूढानीकाः परहारिणः तरिगर्तान अस्पृशन मत्स्याः सूर्ये परिणते सति ॥ 1 ॥

  2. ते तरिगर्ताश च मत्स्याश च संरब्धा युद्धदुर्मदाः अन्यॊन्यम अभिगर्जन्तॊ गॊषु गृद्धा महाबलाः ॥ 2 ॥

  3. भीमाश च मत्तमातङ्गास तॊमराङ्कुशचॊदिताः गरामणीयैः समारूढाः कुशलैर हस्तिसादिभिः ॥ 3 ॥

  4. तेषां समागमॊ घॊरस तुमुलॊ लॊमहर्षणः देवासुरसमॊ राजन्न आसीत सूर्येविलम्बति ॥ 4 ॥

  5. उदतिष्ठद रजॊ भौमं न परज्ञायत किं चन पक्षिणश चापतन भूमौ सैन्येन रजसावृताः ॥ 5 ॥

  6. इषुभिर वयतिसंयद्भिर आदित्यॊ ऽनतरधीयत खद्यॊतैर इव संयुक्तम अन्तरिक्षं वयराजत ॥ 6 ॥

  7. रुक्मपृष्ठानि चापानि वयतिषक्तानि धन्विनाम पततां लॊकवीराणां सव्यदक्षिणम अस्यताम ॥ 7 ॥

  8. रथा रथैः समाजग्मुः पादातैश च पदातयः सादिभिः सादिनश चैव गजैश चापि महागजाः ॥ 8 ॥

  9. असिभिः पट्टिशैः परासैः शक्तिभिस तॊमरैर अपि संरब्धाः समरे राजन निजघ्नुर इतरेतरम ॥ 9 ॥

  10. निघ्नन्तः समरे ऽनयॊन्यं शूराः परिघबाहवः न शेकुर अभिसंरब्धाः शूरान कर्तुं पराङ्मुखान ॥ 10 ॥

  11. कॢप्तॊत्तरौष्ठं सुनसं कॢप्त केशम अलं कृतम अदृश्यत शिरश छिन्नं रजॊध्वस्तं सकुण्डलम ॥ 11 ॥

  12. अदृश्यंस तत्र गात्राणि शरैश छिन्नानि भागशः शालस्कन्धनिकाशानि कषत्रियाणां महामृधे ॥ 12 ॥

  13. नागभॊगनिकाशैश च बाहुभिश चन्दनॊक्षितैः आकीर्णा वसुधा तत्र शिरॊ भिश च सकुण्डलैः ॥ 13 ॥

  14. उपशाम्यद रजॊ भौमं रुधिरेण परसर्पता कश्मलं पराविशद घॊरं निर्मर्यादम अवर्तत ॥ 14 ॥

  15. शतानीकः शतं हत्वा विशालाक्षश चतुःशतम परविष्टौ महतीं सेनां तरिगर्तानां महारथौ आर्च्छेतां बहु संरब्धौ केशाकेशि नखानखि ॥ 15 ॥

  16. लक्षयित्वा तरिगर्तानां तौ परविष्टौ रथव्रजम जग्मतुः सूर्यदत्तश च मदिराश्वश च पृष्ठतः ॥ 16 ॥

  17. विराटस तत्र संग्रामे हत्वा पञ्चशतान रथान हयानां च शतान्य अत्र हत्वा पञ्च महारथान ॥ 17 ॥

  18. चरन स विविधान मार्गान रथेषु रथयूथपः तरिगर्तानां सुशर्माणम आर्च्छद रुक्मरथं रणे ॥ 18 ॥

  19. तौ वयावहरतां तत्र महात्मानौ महाबलौ अन्यॊन्यम अभिगर्जन्तौ गॊष्ठे गॊवृषभाव इव ॥ 19 ॥

  20. ततॊ रथाभ्यां रथिनौ वयतियाय समन्ततः शरान वयसृजतां शीघ्रं तॊयधारा घनाव इव ॥ 20 ॥

  21. अन्यॊन्यं चातिसंरब्धौ विचेरतुर अमर्षणौ कृतास्त्रौ निशितैर बाणैर असि शक्तिगदा भृतौ ॥ 21 ॥

  22. ततॊ राजा सुशर्माणं विव्याध दशभिः शरैः पञ्चभिः पञ्चभिश चास्य विव्याध चतुरॊ हयान ॥ 22 ॥

  23. तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः पञ्चाशता शितैर बाणैर विव्याध परमास्त्र वित ॥ 23 ॥

  24. ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणॊः नाभ्यजानंस तदान्यॊन्यं परदॊषे रजसावृते ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 32

Previous: अध्याय 30