[लॊमष] ततॊ जगाम कौरव्य सॊ ऽगस्त्यॊ भिक्षितुं वसु शरुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ 1 ॥
स विदित्वा तु नृपतिः कुम्भयॊनिम उपागमत विषयान्ते सहामात्यः परत्यगृह्णात सुसत कृतम ॥ 2 ॥
तस्मै चार्घ्यं यथान्यायम आनीय पृथिवीपतिः पराञ्जलिः परयतॊ भूत्वा पप्रच्छागमने ऽरथि ताम ॥ 3 ॥
[अ] वित्तार्थिनम अनुप्राप्तं विद्धि मां पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ मे ॥ 4 ॥
[लॊम] तत आयव्ययौ पूर्णौ तस्मै राजा नयवेदयत अतॊ विद्वन्न उपादत्स्व यद अत्र वसु मन्यसे ॥ 5 ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत ॥ 6 ॥
स शरुतर्वाणम आदाय वध्र्य अश्वम अगमत ततः स च तौ विषयस्यान्ते परत्यगृह्णाद यथाविधि ॥ 7 ॥
तयॊर अर्घ्यं च पाद्यं च वध्र्यश्वः परत्यवेदयत अनुज्ञाप्य च पप्रच्छ परयॊजनम उपक्रमे ॥ 8 ॥
[अ] वित्तकामाव इह पराप्तौ विद्ध्य आवां पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नौ ॥ 9 ॥
[लॊम] तत आयव्ययौ पूर्णौ ताभ्यां राजा नयवेदयत ततॊ जञात्वा समादत्तां यद अत्र वयतिरिच्यते ॥ 10 ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत ॥ 11 ॥
पौरुकुत्सं ततॊ जग्मुस तरसदस्युं महाधनम अगस्त्यश च शरुतर्वा च वध्र्य अश्वश च महीपतिः ॥ 12 ॥
तरसदस्युश च तान सर्वान परत्यगृह्णाद यथाविधि अभिगम्य महाराज विषयान्ते स वाहनः ॥ 13 ॥
अर्चयित्वा यथान्यायम इक्ष्वाकू राजसत्तमः समाश्वस्तांस ततॊ ऽपृच्छत परयॊजनम उपक्रमे ॥ 14 ॥
[अ] वित्तकामान इह पराप्तान विद्धि नः पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नः ॥ 15 ॥
[लॊम] तत आयव्ययौ पूर्णौ तेषां राजा नयवेदयत अतॊ जञात्वा समादद्ध्वं यद अत्र वयतिरिच्यते ॥ 16 ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत ॥ 17 ॥
ततः सर्वे समेत्याथ ते नृपास तं महामुनिम इदम ऊचुर महाराज समवेक्ष्य परस्परम ॥ 18 ॥
अयं वै दानवॊ बरह्मन्न इल्वलॊ वसुमान भुवि तम अभिक्रम्य सर्वे ऽदय वयं याचामहे वसु ॥ 19 ॥
तेषां तदासीद रुचितम इल्वलस्यॊपभिक्षणम ततस ते सहिता राजन्न इल्वलं समुपाद्रवन ॥ 20 ॥
वनपर्व · Vana Parva
अध्याय 96
Reach this point to mark the section finished.
Continue to अध्याय 97