धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 289

  1. [वै] सा तु कन्या महाराज बराह्मणं संशितव्रतम तॊषयाम आस शुद्धेन मनसा संशितव्रता ॥ 1 ॥

  2. परातर आयास्य इत्य उक्त्वा कदा चिद दविजसत्तमः तत आयाति राजेन्द्र साये रात्राव अथॊ पुनः ॥ 2 ॥

  3. तं च सर्वासु वेलासु भक्ष्यभॊज्य परतिश्रयैः पूजयाम आस सा कन्या वर्धमानैस तु सर्वदा ॥ 3 ॥

  4. अन्नादि समुदाचारः शय्यासनकृतस तथा दिवसे दिवसे तस्य वर्धते न तु हीयते ॥ 4 ॥

  5. निर्भर्त्सनापवादैश च तथैवाप्रियया गिरा बराह्मणस्य पृथा राजन न चकाराप्रियं तदा ॥ 5 ॥

  6. वयस्ते काले पुनॊ चैति न चैति बहुशॊ दविजः दुर्लभ्यम अपि चैवान्नं दीयताम इति सॊ ऽबरवीत ॥ 6 ॥

  7. कृतम एव च तत सर्वं पृथा तस्मै नयवेदयत शिष्यवत पुत्रवच चैव सवसृवच च सुसंयता ॥ 7 ॥

  8. यथॊपजॊषं राजेन्द्र दविजातिप्रवरस्य सा परीतिम उत्पादयाम आस कन्या यत्नैर अनिन्दिता ॥ 8 ॥

  9. तस्यास तु शीलवृत्तेन तुतॊष दविजसत्तमः अवधानेन भूयॊ ऽसय परं यत्नम अथाकरॊत ॥ 9 ॥

  10. तां परभाते च साये च पिता पप्रच्छ भारत अपि तुष्यति ते पुत्रि बराह्मणः परिचर्यया ॥ 10 ॥

  11. तं सा परमम इत्य एव परत्युवाच यशस्विनी ततः परीतिम अवापाग्र्यां कुन्तिभॊजॊ महामनः ॥ 11 ॥

  12. ततः संवत्सरे पूर्णे यदासौ जपतां वरः नापश्यद दुष्कृतं किं चित पृथायाः सौहृदे रतः ॥ 12 ॥

  13. ततः परीतमना भूत्वा स एनां बराह्मणॊ ऽबरवीत परीतॊ ऽसमि परमं भद्रे परिचारेण ते शुभे ॥ 13 ॥

  14. वरान वृणीष्व कल्याणि दुरापान मानुषैर इह यैस तवं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ॥ 14 ॥

  15. [उन्ती] कृतानि मम सर्वाणि यस्या मे वेदवित्तम तवं परसन्नः पिता चैव कृतं विप्र वरैर मम ॥ 15 ॥

  16. [बरा] यदि नेच्छसि भद्रे तवं वरं मत्तः शुचिस्मिते इमं मन्त्रं गृहाण तवम आह्वानाय दिवौकसाम ॥ 16 ॥

  17. यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि तेन तेन वशे भद्रे सथातव्यं ते भविष्यति ॥ 17 ॥

  18. अकामॊ वा सकामॊ वा न स नैष्यति ते वशम विबुधॊ मन्त्रसंशान्तॊ वाक्ये भृत्य इवानतः ॥ 18 ॥

  19. [वै] न शशाक दवितीयं सा परत्याख्यातुम अनिन्दिता तं वै दविजातिप्रवरं तदा शापभयान नृप ॥ 19 ॥

  20. ततस ताम अनवद्याङ्गीं गराहयाम आस वै दविजः मन्त्रग्रामं तदा राजन्न अथर्वशिरसि शरुतम ॥ 20 ॥

  21. तं परदाय तु राजेन्द्र कुन्तिभॊजम उवाच ह उषितॊ ऽसमि सुखं राजन कन्यया परितॊषितः ॥ 21 ॥

  22. तव गेहे सुविहितः सदा सुप्रतिपूजितः साधयिष्यामहे तावद इत्य उक्त्वान्तरधीयत ॥ 22 ॥

  23. स तु राजा दविजं दृष्ट्वा तत्रैवान्तर हितं तदा बभूव विस्मयाविष्टः पृथां च समपूजयत ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 290

Previous: अध्याय 288