धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 260

  1. [मार्क] ततॊ बरह्मर्षयः सिद्धा देवराजर्षयस तथा हव्यवाहं पुरस्कृत्य बराह्मणं शरणं गताः ॥ 1 ॥

  2. [अग्नि] यः स विश्रवसः पुत्रॊ दशग्रीवॊ महाबलः अवध्यॊ वरदानेन कृतॊ भगवता पुरा ॥ 2 ॥

  3. स बाधते परजा सर्वा विप्रकारैर महाबलः ततॊ नस तरातुभगवन नान्यस तराता हि विद्यते ॥ 3 ॥

  4. [बरह्मा] न स देवासुरैः शक्यॊ युद्धे जेतुं विभावसॊ विहितं तत्र यत कार्यम अभितस तस्य निग्रहे ॥ 4 ॥

  5. तदर्थम अवतीर्णॊ ऽसौ मन्नियॊगाच चतुर्भुजः विष्णुः परहरतां शरेष्ठः स कर्मैतत करिष्यति ॥ 5 ॥

  6. [मार्क] पितामहस ततस तेषां संनिधौ वाक्यम अब्रवीत सर्वैर देवगणैः सार्धं संभवध्वं महीतले ॥ 6 ॥

  7. विष्णॊः सहायान ऋक्षीषु वानरीषु च सर्वशः जनयध्वं सुतान वीरान कामरूपबलान्वितान ॥ 7 ॥

  8. ततॊ भागानुभागेन देवगन्धर्वदानवाः अवतर्तुं महीं सर्वे रञ्जयाम आसुर अञ्जसा ॥ 8 ॥

  9. तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः शशास वरदॊ देवॊ देवकार्यार्थ सिद्धये ॥ 9 ॥

  10. पितामहवचॊ शरुत्वा गन्धर्वी दुन्दुभी ततः मन्थरा मानुषे लॊके कुब्जा समभवत तदा ॥ 10 ॥

  11. शक्रप्रभृतयश चैव सर्वे ते सुरसत्तमाः वानरर्क्ष वरस्त्रीषु जनयाम आसुर आत्मजान ते ऽनववर्तन पितॄन सर्वे यशसा च बलेन च ॥ 11 ॥

  12. भेत्तारॊ गिरिशृङ्गाणां शालतालशिलायुधाः वज्रसंहननाः सर्वे सर्वे चौघबलास तथा ॥ 12 ॥

  13. कामवीर्यधराश चैव सर्वे युद्धविशारदाः नागायुत समप्राणा वायुवेगसमा जवे यत्रेच्छक निवासाश च के चिद अत्र वनौकसः ॥ 13 ॥

  14. एवंविधाय तत सर्वं भगवाँल लॊकभावनः मन्थरां बॊधयाम आस यद यत कार्यं यथा यथा ॥ 14 ॥

  15. सा तद्वचनम आज्ञाय तथा चक्रे मनॊजवा इतॊ चेतश च गच्छन्ती वैरसंधुक्षणे रता ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 261

Previous: अध्याय 259