धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 259

  1. [मार्क] पुलस्त्यस्य तु यः करॊधाद अर्धदेहॊ ऽभवन मुनिः विश्रवा नाम सक्रॊधः स वैश्रवणम ऐक्षत ॥ 1 ॥

  2. बुबुधे तं तु सक्रॊधं पितरं राक्षसेश्वरः कुबेरस तत्प्रसादार्थं यतते सम सदा नृप ॥ 2 ॥

  3. स राजराजॊ लङ्कायां निवसन नरवाहनः राक्षसीः परददौ तिस्रः पितुर वै परिचारिकाः ॥ 3 ॥

  4. तास्तदा तं महात्मानं संतॊषयितुम उद्यताः ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥ 4 ॥

  5. पुष्पॊत्कटा च राका च मालिनी च विशां पते अन्यॊन्यस्पर्धया राजञ शरेयः कामाः सुमध्यमाः ॥ 5 ॥

  6. तासां स भगवांस तुष्टॊ महात्मा परददौ वरान लॊकपालॊपमान पुत्रान एकैकस्या यथेप्सितान ॥ 6 ॥

  7. पुष्पॊत्कटायां जज्ञाते दवौ पुत्रौ राक्षसेश्वरौ कुम्भकर्ण दशग्रीवौ बलेनाप्रतिमौ भुवि ॥ 7 ॥

  8. मालिनी जनयाम आस पुत्रम एकं विभीषणम राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ 8 ॥

  9. विभीषणस तु रूपेण सर्वेभ्यॊ ऽभयधिकॊ ऽभवत स बभूव महाभागॊ धर्मगॊप्ता करिया रतिः ॥ 9 ॥

  10. दशग्रीवस तु सर्वेषां जयेष्ठॊ राक्षसपुंगवः महॊत्साहॊ महावीर्यॊ महासत्त्वपराक्रमः ॥ 10 ॥

  11. कुम्भकर्णॊ बलेनासीत सर्वेभ्यॊ ऽभयधिकस तदा मायावी रणशौण्डश च रौद्रश च रजनीचरः ॥ 11 ॥

  12. खरॊ धनुषि विक्रान्तॊ बरह्म दविट पिशिताशनः सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥ 12 ॥

  13. सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ऊषुः पित्रा सह रता गन्धमादन पर्वते ॥ 13 ॥

  14. ततॊ वैश्रवणं तत्र ददृशुर नरवाहनम पित्रा सार्धं समासीनम ऋद्ध्या परमया युतम ॥ 14 ॥

  15. जातस्पर्धास ततस ते तु तपसे धृतनिश्चयाः बरह्माणं तॊषयाम आसुर घॊरेण तपसा तदा ॥ 15 ॥

  16. अतिष्ठद एकपादेन सहस्रं परिवत्सरान वायुभक्षॊ दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ 16 ॥

  17. अधः शायी कुम्भकर्णॊ यताहारॊ यतव्रतः विभीषणः शीर्णपर्णम एकम अभ्यवहारयत ॥ 17 ॥

  18. उपवासरतिर धीमान सदा जप्यपरायणः तम एव कालम आतिष्ठत तीव्रं तप उदारधीः ॥ 18 ॥

  19. खरः शूर्पणखा चैव तेषां वै तप्यतां तपः परिचर्यां च रक्षां च चक्रतुर हृष्टमानसौ ॥ 19 ॥

  20. पूर्णे वर्षसहस्रे तु शिरॊ छित्त्वा दशाननः जुहॊत्य अग्नौ दुराधर्षस तेनातुष्यज जगत परभुः ॥ 20 ॥

  21. ततॊ बरह्मा सवयं गत्वा तपसस तान नयवारयत परलॊभ्य वरदानेन सर्वान एव पृथक पृथक ॥ 21 ॥

  22. [बरह्मा] परीतॊ ऽसमि वॊ निवर्तध्वं वरान वृणुत पुत्रकाः यद यद इष्टम ऋते तव एकम अमरत्वं तथास्तु तत ॥ 22 ॥

  23. यद यद अग्नौ हुतं सर्वं शिरस ते महद ईप्सया तथैव तानि ते देहे भविष्यन्ति यथेप्सितम ॥ 23 ॥

  24. वैरूप्यं च न ते देहे कामरूपधरस तथा भविष्यसि रणे ऽरीणां विजेतासि न संशयः ॥ 24 ॥

  25. [रावण] गन्धर्वदेवासुरतॊ यक्षराक्षसतस तथा सर्वकिंनर भूतेभ्यॊ न मे भूयात पराभवः ॥ 25 ॥

  26. [बरह्मा] य एते कीर्तिताः सर्वे न तेभ्यॊ ऽसति भयं तव ऋते मनुष्याद भद्रं ते तथा तद विहितं मया ॥ 26 ॥

  27. [मार्क] एवम उक्तॊ दशग्रीवस तुष्टः समभवत तदा अवमेने हि दुर्बुद्धिर मनुष्यान पुरुषादकः ॥ 27 ॥

  28. कुम्भकर्णम अथॊवाच तथैव परपितामहः स वव्रे महतीं निद्रां तमसा गरस्तचेतनः ॥ 28 ॥

  29. तथा भविष्यतीत्य उक्त्वा विभीषणम उवाच ह वरं वृणीष्व पुत्र तवं परीतॊ ऽसमीति पुनः पुनः ॥ 29 ॥

  30. [विभीसण] परमापद गतस्यापि नाधर्मे मे मतिर भवेत अशिक्षितं च भगवन बरह्मास्तं परतिभातु मे ॥ 30 ॥

  31. [बरह्मा] यस्माद राक्षसयॊनौ ते जातस्यामित्रकर्शन नाधर्मे रमते बुद्धिर अमरत्वं ददामि ते ॥ 31 ॥

  32. [मार्क] राक्षसस तु वरं लब्ध्वा दशग्रीवॊ विशां पते लङ्कायाश चयावयाम आस युधि जित्वा धनेश्वरम ॥ 32 ॥

  33. हित्वा स भगवाँल लङ्काम आविशद गन्धमादनम गन्धर्वयक्षानुगतॊ रक्षःकिंपुरुषैः सह ॥ 33 ॥

  34. विमानं पुष्पकं तस्य जहाराक्रम्य रावणः शशाप तं वैश्रवणॊ न तवाम एतद वहिष्यति ॥ 34 ॥

  35. यस तु तवां समरे हन्ता तम एवैतद धनिष्यति अवमन्य गुरुं मां च कषिप्रं तवं न भविष्यसि ॥ 35 ॥

  36. विभीषणस तु धर्मात्मा सतां धर्मम अनुस्मरन अन्वगच्छन महाराज शरिया परमया युतः ॥ 36 ॥

  37. तस्मै स भगवांस तुष्टॊ भराता भरात्रे धनेश्वरः सेनापत्यं ददौ धीमान यक्षराक्षस सेनयॊः ॥ 37 ॥

  38. राक्षसाः पुरुषादाश च पिशाचाश च महाबलाः सर्वे समेत्य राजानम अभ्यषिञ्चद दशाननम ॥ 38 ॥

  39. दशग्रीवस तु दैत्यानां देवानां च बलॊत्कटः आक्रम्य रत्नान्य अहरत कामरूपी विहंगमः ॥ 39 ॥

  40. रावयाम आस लॊकान यत तस्माद रावण उच्यते दशग्रीवः कामबलॊ देवानां भयम आदधत ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 260

Previous: अध्याय 258