[वै] ततः स पाण्डवॊ भूयॊ मार्कण्डेयम उवाच ह कथयस्वेह चरितं मनॊर वैवस्वतस्य मे ॥ 1 ॥
[मार्क] विवस्तवः सुतॊ राजन परमर्षिः परतापवान बभूव नरशार्दूल परजापतिसमद्युतिः ॥ 2 ॥
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः अतिचक्राम पितरं मनुः सवं च पितामहम ॥ 3 ॥
ऊर्ध्वबाहुर विशालायां बदर्यां स नराधिपः एकपादस्थितस तीव्रं चचार सुमहत तपः ॥ 4 ॥
अवाक्शिरास तथा चापि नेत्रैर अनिमिषैर दृढम सॊ ऽतप्यत तपॊ घॊरं वर्षाणाम अयुतं तदा ॥ 5 ॥
तं कदा चित तपस्यन्तम आर्द्र चीरजटा धरम वीरिणी तीरम आगम्य मत्स्यॊ वचनम अब्रवीत ॥ 6 ॥
भगवन कषुद्रमत्स्यॊ ऽसमि बलवद्भ्यॊ भयं मम मत्स्येभ्यॊ हि ततॊ मां तवं तरातुम अर्हसि सुव्रत ॥ 7 ॥
दुर्बलं बलवन्तॊ हि मत्स्यं मत्स्या विशेषतः भक्षयन्ति यथा वृत्तिर विहिता नः सनातनी ॥ 8 ॥
तस्माद भयौघान महतॊ मज्जन्तं मां विशेषतः तरातुम अर्हसि कर्तास्मि कृते परतिकृतं तव ॥ 9 ॥
स मत्स्यवचनं शरुत्वा कृपयाभिपरिप्लुतः मनुर वैवस्वतॊ ऽगृह्णात तं मत्स्यं पाणिना सवयम ॥ 10 ॥
उदकान्तम उपानीय मत्स्यं वैवस्वतॊ मनुः अलिञ्जरे पराक्षिपत स चन्द्रांशुसदृशप्रभम ॥ 11 ॥
स तत्र ववृधे राजन मत्स्यः परमसत्कृतः पुत्रवच चाकरॊत तस्मिन मनुर भावं विशेषतः ॥ 12 ॥
अथ कालेन महता स मत्स्यः सुमहान अभूत अलिञ्जरे जले चैव नासौ समभवत किल ॥ 13 ॥
अथ मत्स्यॊ मनुं दृष्ट्वा पुनर एवाभ्यभाषत भगवन साधु मे ऽदयान्यत सथानं संप्रतिपादय ॥ 14 ॥
उद्धृत्यालिञ्जरात तस्मात ततः स भगवान मुनिः तं मत्स्यम अनयद वापीं महतीं स मनुस तदा ॥ 15 ॥
तत्र तं पराक्षिपच चापि मनुः परपुरंजय अथावर्धत मत्स्यः स पुनर वर्षगणान बहून ॥ 16 ॥
दवियॊजनायता वापी विस्तृता चापि यॊजनम तस्यां नासौ समभवन मत्स्यॊ राजीवलॊचन विचेष्टितुं वा कौन्तेय मत्स्यॊ वाप्यां विशां पते ॥ 17 ॥
मनुं मत्यस ततॊ दृष्ट्वा पुनर एवाभ्यभाषत नयमां भगवन साधॊ समुद्रमहिषीं परभॊ गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥ 18 ॥
एवं कुतॊ मनुर मत्स्याम अनयद भगवान वशी नदीं गङ्गां तत्र चैनं सवयं पराक्षिपद अच्युतः ॥ 19 ॥
स तत्र ववृधे मत्स्यः किं चित कालम अरिंदम ततः पुनर मनुं दृष्ट्वा मत्स्यॊ वचनम अब्रवीत ॥ 20 ॥
गङ्गायां हि न शक्नॊमि बृहत्त्वाच चेष्टितुं परभॊ समुद्रं नयमाम आशु परसीद भगवन्न इति ॥ 21 ॥
उद्धृत्य गङ्गा सलिलात ततॊ मत्स्यं मनुः सवयम समुद्रम अनयत पार्थ तत्र चैनम अवासृजत ॥ 22 ॥
सुमहान अपि मत्स्यः सन स मनॊर मनसस तदा आसीद यथेष्ट हार्यश च सपर्शगन्धसुखैश च वै ॥ 23 ॥
यदा समुद्रे परक्षिप्तः स मत्स्यॊ मनुना तदा तत एनम इदं वाक्यं समयमान इवाब्रवीत ॥ 24 ॥
भगवन कृता हि मे रक्षा तवया सर्वा विशेषतः पराप्तकालं तु यत कार्यं तवया तच छरूयतां मम ॥ 25 ॥
अचिराद भगवन भौमम इदं सथावरजङ्गमम सर्वम एव महाभाग परलयं वै गमिष्यति ॥ 26 ॥
संप्रक्षालन कालॊ ऽयं लॊकानां समुपस्थितः तस्मात तवां बॊधयाम्य अद्य तत ते हितम अनुत्तमम ॥ 27 ॥
तरसानां सथावराणां च यच चेङ्गं यच च नेङ्गति तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥ 28 ॥
नौश च कारयितव्या ते दृढा युक्तवटाकरा तत्र सप्तर्षिभिः सार्धम आरुहेथा महामुने ॥ 29 ॥
बीजानि चैव सर्वाणि यथॊक्तनि मया पुरा तस्याम आरॊहयेर नावि सुसंगुप्तानि भागशः ॥ 30 ॥
नौस्थश च मां परतीक्षेथास तदा मुनिजनप्रिय आगमिष्याम्य अहं शृङ्गी विज्ञेयस तेन तापस ॥ 31 ॥
एवम एत तवया कार्यम आपृष्टॊ ऽसि वरजाम्य अहम नातिशङ्क्यम इदं चापि वचनं ते ममाभिभॊ ॥ 32 ॥
एवं करिष्य इति तं स मत्स्यं परत्यभाषत जग्मतुश च यथाकामम अनुज्ञाप्य परस्परम ॥ 33 ॥
ततॊ मनुर महाराज यथॊक्तं मत्यकेन ह बीजान्य आदाय सर्वाणि सागरं पुप्लुवे तदा नावा तु शुभया वीर महॊर्मिणम अरिंदम ॥ 34 ॥
चिन्तयाम आस च मनुस तं मत्स्यं पृथिवीपते स च तच चिन्तितं जञात्वा मत्स्यः परपुरंजय शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥ 35 ॥
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर मत्स्यं जलार्णवे शृङ्गिणं तं यथॊक्तेन रूपेणाद्रिम इवॊच्छ्रितम ॥ 36 ॥
वटाकरमयं पाशम अथ मत्स्यस्य मूधनि मनुर मनुजशार्दूल तस्मिञ शृङ्गे नयवेशयत ॥ 37 ॥
संयतस तेन पाशेन मत्स्यः परपुरंजय वेगेन महता नावं पराकर्षल लवणाम्भसि ॥ 38 ॥
स ततार तया नावा समुद्रं मनुजेश्वर नृत्यमानम इवॊर्मीभिर गर्जमानम इवाम्भसा ॥ 39 ॥
कषॊभ्यमाणा महावातैः सा नौस तस्मिन महॊदधौ धूर्णते चपलेव सत्री मत्ता परपुरंजय ॥ 40 ॥
नैव भूमिर न च दिशः परदिशॊ वा चकाशिरे सर्वम आम्भसम एवासीत खं दयौश च नरपुंगव ॥ 41 ॥
एवं भूते तदा लॊके संकुले भरतर्षभ अदृश्यन्त सप्तर्षयॊ मनुर मत्स्यः सहैव ह ॥ 42 ॥
एवं बहून वर्षगणांस तां नावं सॊ ऽथ मत्स्यकः चकर्षातन्द्रितॊ राजंस तस्मिन सलिलसंचये ॥ 43 ॥
ततॊ हिमवतः शृङ्गं यत परं पुरुषर्षभ तत्राकर्षत ततॊ नावं स मत्स्यः कुरुनन्दन ॥ 44 ॥
ततॊ ऽबरवीत तदा मत्स्यस तान ऋषीन परहसञ शनैः अस्मिन हिमवतः शृङ्गे नावं बध्नीत माचिरम ॥ 45 ॥
सा बद्धा तत्र तैस तूर्णम ऋषिभिर भरतर्षभ नौर मत्स्यस्य वचॊ शरुत्वा शृङ्गे हिमवतस तदा ॥ 46 ॥
तच च नौबन्धनं नाम शृङ्गं हिमवतः परम खयातम अद्यापि कौन्तेय तद विद्धि भरतर्षभ ॥ 47 ॥
अथाब्रवीद अनिमिषस तान ऋषीन सहितांस तदा अहं परजापतिर बरह्मा मत्परं नाधिगम्यते मत्स्यरूपेण यूयं च मयास्मान मॊक्षिता भयात ॥ 48 ॥
मनुना च परजाः सर्वाः सदेवासुरमानवाः सरष्टव्याः सर्वलॊकाश च यच चेङ्गं यच च नेङ्गति ॥ 49 ॥
तपसा चातितीव्रेण परतिभास्य भविष्यति मत्प्रसादात परजा सर्गे न च मॊहं गमिष्यति ॥ 50 ॥
इत्य उक्त्वा वचनं मत्स्यः कषणेनादर्शनं गतः सरष्टुकामः परजाश चापि मनुर वैवस्वतः सवयम परमूढॊ ऽभूत परजा सर्गे तपस तेपे महत ततः ॥ 51 ॥
तपसा महता युक्तः सॊ ऽथ सरष्टुं परचक्रमे सर्वाः परजा मनुः साक्षाद यथावद भरतर्षभ ॥ 52 ॥
इत्य एतन मात्यकं नाम पुराणं परिकीर्तितम आख्यानम इदम आख्यातं सर्वपापहरं मया ॥ 53 ॥
य इदं शृणुयान नित्यं मनॊश चरितम आदितः स सुखी सर्वसिद्धार्थः सवर्गलॊकम इयान नरः ॥ 54 ॥
वनपर्व · Vana Parva
अध्याय 185
Reach this point to mark the section finished.
Continue to अध्याय 186