धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 113

  1. [विभान्द] रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति ॥ 1 ॥

  2. सुरूपरूपाणि च तानि तात; परलॊभयन्ते विविधैर उपायैः सुखाच च लॊकाच च निपातयन्ति; तान्य उग्रकर्माणि मुनीन वनेषु ॥ 2 ॥

  3. न तानि सेवेत मुनिर यतात्मा; सतां लॊकान परार्थयानः कथं चित कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास तपसस तान्य अपाप ॥ 3 ॥

  4. असज जनेनाचरितानि पुत्र; पापान्य अपेयानि मधूनि तानि माल्यानि चैतानि न वै मुनीनां; समृतानि चित्रॊज्ज्वल गन्धवन्ति ॥ 4 ॥

  5. [लॊमष] रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस तां मृगयां बभूव नासादयाम आस यदा तर्यहेण; तदा स पर्याववृते ऽऽशरमाय ॥ 5 ॥

  6. यदा पुनः काश्यपॊ वै जगाम; फलान्य आहर्तुं विधिना शरामणेन तदा पुनर लॊभयितुं जगाम; सा वेश यॊषा मुनिम ऋश्य शृङ्गम ॥ 6 ॥

  7. दृष्ट्वैव ताम ऋश्य शृङ्गः परहृष्टः; संभान्त रूपॊ ऽभयपतत तदानीम परॊवाच चैनां भवतॊ ऽऽशरमाय; गच्छाव यावन न पिता ममेति ॥ 7 ॥

  8. ततॊ राजन काश्यपस्यैक पुत्रं; परवेश्य यॊगेन विमुच्य नावम परलॊभयन्त्यॊ विविधैर उपायैर; आजग्मुर अङ्गाधिपतेः समीपम ॥ 8 ॥

  9. संस्थाप्य ताम आश्रमदर्शने तु; संतारितां नावम अतीव शुभ्राम तीराद उपादाय तथैव चक्रे; राजाश्रमं नाम वनं वि चित्रम ॥ 9 ॥

  10. अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्म जम एकपुत्रम ददर्श देवं सहसा परविष्टम; आपूर्यमाणं च जगज जलेन ॥ 10 ॥

  11. स लॊम पादः परिपूर्णकामः; सुतां ददाव ऋश्य शृङ्गाय शान्ताम करॊधप्रतीकार करं च चक्रे; गॊभिश च मार्गेष्व अभिकर्षणं च ॥ 11 ॥

  12. विभाण्डकस्याव्रजतः स राजा; पशून परभूतान पशुपांश च वीरान समादिशत पुत्र गृधी महर्षिर; विभाण्डकः परिपृच्छेद यदा वः ॥ 12 ॥

  13. स वक्तव्यः पराञ्जलिभिर भवद्भिः; पुत्रस्य ते पशवः कर्षणं च किं ते परियं वै करियतां महर्षे; दासाः सम सर्वे तव वाचि बद्धाः ॥ 13 ॥

  14. अथॊपायात स मुनिश चण्डकॊपः; सवम आश्रमं फलमूलानि गृह्य अन्वेषमाणश च न तत्र पुत्रं; ददर्श चुक्रॊध ततॊ भृशं सः ॥ 14 ॥

  15. ततः स कॊपेन विदीर्यमाण; आशङ्कमानॊ नृपतेर विधानम जगाम चम्पां परदिदक्षमाणस; तम अङ्गराजं विषयं च तस्य ॥ 15 ॥

  16. स वै शरान्तः कषुधितः काश्यपस तान; घॊषान समासादितवान समृद्धान गॊपैश च तैर विधिवत पूज्यमानॊ; राजेव तां रात्रिम उवाच तत्र ॥ 16 ॥

  17. संप्राप्य सत्कारम अतीव तेभ्यः; परॊवाच कस्य परथिताः सथ सौम्याः ऊचुर ततस ते ऽभयुपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ॥ 17 ॥

  18. देशे तु देशे तु स पूज्यमानस; तांश चैव शृण्वन मधुरान परलापान परशान्तभूयिष्ठ रजाः परहृष्टः; समाससादाङ्गपतिं पुरस्थम ॥ 18 ॥

  19. संपूजितस तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम शान्तां सनुषां चैव ददर्श तत्र; सौदामिनीम उच्चरन्तीं यथैव ॥ 19 ॥

  20. गरामांश च घॊषांश च सुतं च दृष्ट्वा; शान्तां च शान्तॊ ऽसय परः स कॊपः चकार तस्मै परमं परसादं; विभाण्डकॊ भूमिपतेर नरेन्द्र ॥ 20 ॥

  21. स तत्र निक्षिप्य सुतं महर्षिर; उवाच सूर्याग्निसमप्रभावम जाते पुत्रे वनम एवाव्रजेथा; राज्ञः परियाण्य अस्य सर्वाणि कृत्वा ॥ 21 ॥

  22. स तद वचः कृतवान ऋश्य शृङ्गॊ; ययौ च यत्रास्य पिता बभूव शान्ता चैनं पर्यचरद यथा वत; खे रॊहिणी सॊमम इवानुकूला ॥ 22 ॥

  23. अरुन्धती वा सुभगा वसिष्ठं; लॊपामुद्रा वापि यथा हय अगस्त्यम नलस्य वा दमयन्ती यथाभूद; यथा शची वज्रधरस्य चैव ॥ 23 ॥

  24. नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ तथा शान्ता ऋश्य शृङ्गं वनस्थं; परीत्या युक्ता पर्यचरन नरेन्द्र ॥ 24 ॥

  25. तस्याश्रमः पुण्य एषॊ विभाति; महाह्रदं शॊभयन पुण्यकीर्तिः अत्र सनातः कृतकृत्यॊ विशुद्धस; तीर्थान्य अन्यान्य अनुसंयाहि राजन ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 114

Previous: अध्याय 112