धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 69

  1. [य] आमन्त्रयामि भरतांस तथा वृद्धं पिता महम राजानं सॊमदत्तं च महाराजं च बाह्लिकम ॥ 1 ॥

  2. दरॊणं कृपं नृपांश चान्यान अश्वत्थामानम एव च विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश च सर्वशः ॥ 2 ॥

  3. युयुत्सुं संजयं चैव तथैवान्यान सभा सदः सर्वान आमन्त्र्य गच्छामि दरष्टास्मि पुनर एत्य वः ॥ 3 ॥

  4. [व] न च किं चित तदॊचुस ते हरिया सन्तॊ युधिष्ठिरम मनॊभिर एव कल्याणं दध्युस ते तस्य धीमतः ॥ 4 ॥

  5. [वि] आर्या पृथा राजपुत्री नारण्यं गन्तुम अर्हति सुकुमारी च वृद्धा च नित्यं चैव सुखॊचिता ॥ 5 ॥

  6. इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि इति पार्था विजानीध्वम अगदं वॊ ऽसतु सर्वशः ॥ 6 ॥

  7. युधिष्ठिर विजानीहि ममेदं भरतर्षभ नाधर्मेण जितः कश चिद वयथते वै पराजयात ॥ 7 ॥

  8. तवं वै धर्मान विजानीषे युधां वेत्ता धनंजयः हन्तारीणां भीमसेनॊ नकुलस तव अर्थसंग्रही ॥ 8 ॥

  9. संयन्ता सहदेवस तु धौम्यॊ बरह्मविद उत्तमः धर्मार्थकुशला चैव दरौपदी धर्मचारिणी ॥ 9 ॥

  10. अन्यॊन्यस्य परियाः सर्वे तथैव परियवादिनः परैर अभेद्याः संतुष्टाः कॊ वॊ न सपृहयेद इह ॥ 10 ॥

  11. एष वै सर्वकल्याणः समाधिस तव भारत नैनं शत्रुर विषहते शक्रेणापि समॊ ऽचयुत ॥ 11 ॥

  12. हिमवत्य अनुशिष्टॊ ऽसि मेरुसावर्णिना पुरा दवैपायनेन कृष्णेन नगरे वारणावते ॥ 12 ॥

  13. भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना अश्रौषीर असितस्यापि महर्षेर अञ्जनं परति ॥ 13 ॥

  14. दरष्टा सदा नारदस्य धौम्यस ते ऽयं पुरॊहितः मा हार्षीः साम्पराये तवं बुद्धिं ताम ऋषिपूजिताम ॥ 14 ॥

  15. पुरूरवसम ऐलं तवं बुद्ध्या जयसि पाण्डव शक्त्या जयसि राज्ञॊ ऽनयान ऋषीन धर्मॊपसेवया ॥ 15 ॥

  16. ऐन्द्रे जये धृतमना याम्ये कॊपविधारणे विसर्गे चैव कौबेरे वारुणे चैव संयमे ॥ 16 ॥

  17. आत्मप्रदानं सौम्य तवम अद्भ्यश चैवॊपजीवनम भूमेः कषमा च तेजॊ च समग्रं सूर्यमण्डलात ॥ 17 ॥

  18. वायॊर बलं विद्धि स तवं भूतेभ्यश चात्मसंभवम अगदं वॊ ऽसतु भद्रं वॊ दरक्ष्यामि पुनरागतान ॥ 18 ॥

  19. आपद धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः यथावत परतिपद्येथाः काले काले युधिष्ठिर ॥ 19 ॥

  20. आपृष्टॊ ऽसीह कौन्तेय सवस्ति पराप्नुहि भारत कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामः पुनरागतम ॥ 20 ॥

  21. [व] एवम उक्तस तथेत्य उक्त्वा पाण्डवः सत्यविक्रमः भीष्मद्रॊणौ नमस्कृत्य परातिष्ठत युधिष्ठिरः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 70

Previous: अध्याय 68