धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 68

  1. वैशंपायन उवाच वनवासाय चक्रुस ते मतिं पार्थाः पराजिताः अजिनान्य उत्तरीयाणि जगृहुश च यथाक्रमम ॥ 1 ॥

  2. अजिनैः संवृतान दृष्ट्वा हृतराज्यान अरिंदमान परस्थितान वनवासाय ततॊ दुःशासनॊ ऽबरवीत ॥ 2 ॥

  3. परवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञॊ महात्मनः पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥ 3 ॥

  4. अद्य देवाः संप्रयाताः समैर वर्त्मभिर अस्थलैः गुणज्येष्ठास तथा जयेष्ठा भूयांसॊ यद वयं परैः ॥ 4 ॥

  5. नरकं पातिताः पार्था दीर्घकालम अनन्तकम सुखाच च हीना राज्याच च विनष्टाः शाश्वतीः समाः ॥ 5 ॥

  6. बलेन मत्ता ये ते सम धार्तराष्ट्रान परहासिषुः ते निर्जिता हृतधना वनम एष्यन्ति पाण्डवाः ॥ 6 ॥

  7. चित्रान संनाहान अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति निवास्यन्तां रुरुचर्माणि सर्वे; यथा गलहं सौबलस्याभ्युपेताः ॥ 7 ॥

  8. न सन्ति लॊकेषु पुमांस ईदृशा; इत्य एव ये भावितबुद्धयः सदा जञास्यन्ति ते तमानम इमे ऽदय पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ॥ 8 ॥

  9. अयं हि वासॊदय ईदृशानां; मनस्विनां कौरव मा भवेद वः अदीक्षितानाम अजिनानि यद्वद; बलीयसां पश्यत पाण्डवानाम ॥ 9 ॥

  10. महाप्राज्ञः सॊमकॊ यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः परदाय अकार्षीद वै दुष्कृतं नेह सन्ति; कलीबाः पार्थाः पतयॊ याज्ञसेन्याः ॥ 10 ॥

  11. सूक्ष्मान परावारान अजिनानि चॊदितान; दृष्ट्वारण्ये निर्धनान अप्रतिष्ठान कां तवं परीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम इहान्यम इच्छसि ॥ 11 ॥

  12. एते हि सर्वे कुरवः समेताः; कषान्ता दान्ताः सुद्रविणॊपपन्नाः एषां वृणीष्वैकतमं पतित्वे; न तवां तपेत कालविपर्ययॊ ऽयम ॥ 12 ॥

  13. यथाफलाः षण्ढतिला यथा चर्ममया मृगाः तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ 13 ॥

  14. किं पाण्डवांस तवं पतितान उपास्से; मॊघः शरमः षण्ढतिलान उपास्य एवं नृशंसः परुषाणि पार्थान; अश्रावयद धृतराष्ट्रस्य पुत्रः ॥ 14 ॥

  15. तद वै शरुत्वा भीमसेनॊ ऽतयमर्षी; निर्भर्त्स्यॊच्चैस तं निगृह्यैव रॊषात उवाचेदं सहसैवॊपगम्य; सिंहॊ यथा हैमवतः शृगालम ॥ 15 ॥

  16. भीमसेन उवाच करूर पापजनैर जुष्टम अकृतार्थं परभाषसे गान्धारविद्यया हि तवं राजमध्ये विकत्थसे ॥ 16 ॥

  17. यथा तुदसि मर्माणि वाक्शरैर इह नॊ भृशम तथा समारयिता ते ऽहं कृन्तन मर्माणि संयुगे ॥ 17 ॥

  18. ये च तवाम अनुवर्तन्ते कामलॊभवशानुगाः गॊप्तारः सानुबन्धांस तान नेष्यामि यमसादनम ॥ 18 ॥

  19. वैशंपायन उवाच एवं बरुवाणम अजिनैर विवासितं; दुःखाभिभूतं परिनृत्यति सम मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर गौर इति समाह्वयन मुक्तलज्जः ॥ 19 ॥

  20. भीमसेन उवाच नृशंसं परुषं करूरं शक्यं दुःशासन तवया निकृत्या हि धनं लब्ध्वा कॊ विकत्थितुम अर्हति ॥ 20 ॥

  21. मा ह सम सुकृताँल लॊकान गच्छेत पार्थॊ वृकॊदरः यदि वक्षसि भित्त्वा ते न पिबेच छॊणितं रणे ॥ 21 ॥

  22. धार्तराष्ट्रान रणे हत्वा मिषतां सर्वधन्विनाम शमं गन्तास्मि नचिरात सत्यम एतद बरवीमि वः ॥ 22 ॥

  23. वैशंपायन उवाच तस्य राजा सिंहगतेः सखेलं; दुर्यॊधनॊ भीमसेनस्य हर्षात गतिं सवगत्यानुचकार मन्दॊ; निर्गच्छतां पाण्डवानां सभायाः ॥ 23 ॥

  24. नैतावता कृतम इत्य अब्रवीत तं; वृकॊदरः संनिवृत्तार्धकायः शीघ्रं हि तवा निहतं सानुबन्धं; संस्मार्याहं परतिवक्ष्यामि मूढ ॥ 24 ॥

  25. एतत समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान स मानी राजानुगः संसदि कौरवाणां; विनिष्क्रमन वाक्यम उवाच भीमः ॥ 25 ॥

  26. अहं दुर्यॊधनं हन्ता कर्णं हन्ता धनंजयः शकुनिं चाक्षकितवं सहदेवॊ हनिष्यति ॥ 26 ॥

  27. इदं च भूयॊ वक्ष्यामि सभामध्ये बृहद वचः सत्यं देवाः करिष्यन्ति यन नॊ युद्धं भविष्यति ॥ 27 ॥

  28. सुयॊधनम इमं पापं हन्तास्मि गदया युधि शिरः पादेन चास्याहम अधिष्ठास्यामि भूतले ॥ 28 ॥

  29. वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः दुःशासनस्य रुधिरं पातास्मि मृगराड इव ॥ 29 ॥

  30. अर्जुन उवाच नैव वाचा वयवसितं भीम विज्ञायते सताम इतश चतुर्दशे वर्षे दरष्टारॊ यद भविष्यति ॥ 30 ॥

  31. दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम ॥ 31 ॥

  32. असूयितारं वक्तारं परस्रष्टारं दुरात्मनाम भीमसेन नियॊगात ते हन्ताहं कर्णम आहवे ॥ 32 ॥

  33. अर्जुनः परतिजानीते भीमस्य परियकाम्यया कर्णं कर्णानुगांश चैव रणे हन्तास्मि पत्रिभिः ॥ 33 ॥

  34. ये चान्ये परतियॊत्स्यन्ति बुद्धिमॊहेन मां नृपाः तांश च सर्वाञ शतैर बाणैर नेतास्मि यमसादनम ॥ 34 ॥

  35. चलेद धि हिमवान सथानान निष्प्रभः सयाद दिवाकरः शैत्यं सॊमात परणश्येत मत्सत्यं विचलेद यदि ॥ 35 ॥

  36. न परदास्यति चेद राज्यम इतॊ वर्षे चतुर्दशे दुर्यॊधनॊ हि सत्कृत्य सत्यम एतद भविष्यति ॥ 36 ॥

  37. वैशंपायन उवाच इत्य उक्तवति पार्थे तु शरीमान माद्रवतीसुतः परगृह्य विपुलं बाहुं सहदेवः परतापवान ॥ 37 ॥

  38. सौबलस्य वधं परेप्सुर इदं वचनम अब्रवीत करॊधसंरक्तनयनॊ निःश्वसन्न इव पन्नगः ॥ 38 ॥

  39. अक्षान यान मन्यसे मूढ गान्धाराणां यशॊहर नैते ऽकषा निशिता बाणास तवयैते समरे वृताः ॥ 39 ॥

  40. यथा चैवॊक्तवान भीमस तवाम उद्दिश्य सबान्धवम कर्ताहं कर्मणस तस्य कुरु कार्याणि सर्वशः ॥ 40 ॥

  41. हन्तास्मि तरसा युद्धे तवां विक्रम्य सबान्धवम यदि सथास्यसि संग्रामे कषत्रधर्मेण सौबल ॥ 41 ॥

  42. सहदेववचः शरुत्वा नकुलॊ ऽपि विशां पते दर्शनीयतमॊ नॄणाम इदं वचनम अब्रवीत ॥ 42 ॥

  43. सुतेयं यज्ञसेनस्य दयूते ऽसमिन धृतराष्ट्रजैः यैर वाचः शराविता रूक्षाः सथितैर दुर्यॊधनप्रिये ॥ 43 ॥

  44. तान धार्तराष्ट्रान दुर्वृत्तान मुमूर्षून कालचॊदितान दर्शयिष्यामि भूयिष्ठम अहं वैवस्वतक्षयम ॥ 44 ॥

  45. निदेशाद धर्मराजस्य दरौपद्याः पदवीं चरन निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद इव ॥ 45 ॥

  46. एवं ते पुरुषव्याघ्राः सर्वे वयायतबाहवः परतिज्ञा बहुलाः कृत्वा धृतराष्ट्रम उपागमन ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 69

Previous: अध्याय 67