[य] राजन किं करवामस ते परशाध्य अस्मांस तवम ईश्वरः नित्यं हि सथातुम इच्छामस तव भारत शासने ॥ 1 ॥
[धृ] अजातशत्रॊ भद्रं ते अरिष्टं सवस्ति गच्छत अनुज्ञाताः सहधनाः सवराज्यम अनुशासत ॥ 2 ॥
इदं तव एवावबॊद्धव्यं वृद्धस्य मम शासनम धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम ॥ 3 ॥
वेत्थ तवं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर विनीतॊ ऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥ 4 ॥
यतॊ बुद्धिस ततः शान्तिः परशमं गच्छ भारत नादारौ करमते शस्त्रं दारौ शस्त्रं निपात्यते ॥ 5 ॥
न वैराण्य अभिजानन्ति गुणान पश्यन्ति नागुणान विरॊधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ 6 ॥
संवादे परुषाण्य आहुर युधिष्ठिर नराधमाः परत्याहुर मध्यमास तव एतान उक्ताः परुषम उत्तरम ॥ 7 ॥
नैवॊक्ता नैव चानुक्ता अहिताः परुषा गिरः परतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥ 8 ॥
समरन्ति सुकृतान्य एव न वैराणि कृतान्य अपि सन्तः परतिविजानन्तॊ लब्ध्वा परत्ययम आत्मनः ॥ 9 ॥
तथाचरितम आर्येण तवयास्मिन सत समागमे दुर्यॊधनस्य पारुष्यं तत तात हृदि मा कृथाः ॥ 10 ॥
मातरं चैव गान्धारीं मां च तवद गुणकाङ्क्षिणम उपस्थितं वृद्धम अन्धं पितरं पश्य भारत ॥ 11 ॥
परेक्षापूर्वं मया दयूतम इदम आसीद उपेक्षितम मित्राणि दरष्टुकामेन पुत्राणां च बलाबलम ॥ 12 ॥
अशॊच्याः कुरवॊ राजन येषां तवम अनुशासिता मन्त्री च विदुरॊ धीमान सर्वशास्त्रविशारदः ॥ 13 ॥
तवयि धर्मॊ ऽरजुने वीर्यं भीमसेने पराक्रमः शरद्धा च गुरुशुश्रूषा यमयॊः पुरुषाग्र्ययॊः ॥ 14 ॥
अजातशत्रॊ भद्रं ते खाण्डव परस्थम आविश भरातृभिस ते ऽसतु सौभ्रात्रं धर्मे ते धीयतां मनः ॥ 15 ॥
[व] इत्य उक्तॊ भरतश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः कृत्वार्य समयं सर्वं परतस्थे भरातृभिः सह ॥ 16 ॥
ते रथान मेघसंकाशान आस्थाय सह कृष्णया परययुर हृष्टमनस इन्द्रप्रस्थं पुरॊत्तमम ॥ 17 ॥
सभापर्व · Sabha Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66