धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 9

  1. [वै] ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान ययौ सवभवनं राजा गान्धार्यानुगतस तदा ॥ 1 ॥

  2. मन्दप्राणगतिर धीमान कृच्छ्राद इव समुद्धरन पदातिः स महीपालॊ जीर्णॊ गजपतिर यथा ॥ 2 ॥

  3. तम अन्वगच्छद विदुरॊ विद्वान सूतश च संजयः स चापि परमेष्वासः कृपः शारद्वतस तथा ॥ 3 ॥

  4. स परविश्य गृहं राजा कृतपूर्वाह्णिक करियः तर्पयित्वा दविजश्रेष्ठान आहारम अकरॊत तदा ॥ 4 ॥

  5. गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी वधूभिर उपचारेण पूजिताभुङ्क्त भारत ॥ 5 ॥

  6. कृताहारं कृताहाराः सर्वे ते विदुरादयः पाण्डवाश च कुरुश्रेष्ठम उपातिष्ठन्त तं नृपम ॥ 6 ॥

  7. ततॊ ऽबरवीन महाराज कुन्तीपुत्रम उपह्वरे निषण्णं पाणिना पृष्ठे संस्पृशन्न अम्बिका सुतः ॥ 7 ॥

  8. अप्रमादस तवया कार्यः सर्वथा कुरुनन्दन अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥ 8 ॥

  9. तत तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन राज्यं धर्मं च कौन्तेय विद्वान असि निबॊध तत ॥ 9 ॥

  10. विद्या वृद्धान सदैव तवम उपासीथा युधिष्ठिर शृणुयास ते च यद बरूयुः कुर्याश चैवाविचारयन ॥ 10 ॥

  11. परातर उत्थाय तान राजन पूजयित्वा यथाविधि कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम आत्मनः ॥ 11 ॥

  12. ते तु संमानिता राजंस तवया राज्यहितार्थिना परवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ॥ 12 ॥

  13. इन्द्रियाणि च सर्वाणि वाजिवत परिपालय हिताय वै भविष्यन्ति रक्षितं दरविणं यथा ॥ 13 ॥

  14. अमात्यान उपधातीतान पितृपैतामहाञ शुचीन दान्तान कर्मसु सर्वेषु मुख्यान मुख्येषु यॊजयेः ॥ 14 ॥

  15. चारयेथाश च सततं चारैर अव्विदितैः परान परीक्षितैर बहुविधं सवराष्ट्रेषु परेषु च ॥ 15 ॥

  16. पुरं च ते सुगुप्तं सयाद दृढप्राकारतॊरणम अट्टाट्टालक संबाधं षट पथं सर्वतॊदिशम ॥ 16 ॥

  17. तस्य दवाराणि कार्याणि पर्याप्तानि बृहन्ति च सर्वतः सुविभक्तानि यन्त्रैर आरक्षितानि च ॥ 17 ॥

  18. पुरुषैर अलम अर्थज्ञैर विदितैः कुलशीलतः आत्मा च रक्ष्यः सततं भॊजनादिषु भारत ॥ 18 ॥

  19. विहाराहार कालेषु माल्यशय्यासनेषु च सत्रियश च ते सुगुप्ताः सयुर वृद्धैर आप्तैर अधिष्ठिताः शीलवद्भिः कुलीनैश च विद्वद्भिश च युधिष्ठिर ॥ 19 ॥

  20. मन्त्रिणश चैव कुर्वीथा दविजान विद्या विशारदान विनीतांश च कुलीनांश च धर्मार्थकुशलान ऋजून ॥ 20 ॥

  21. तैः सार्धं मन्त्रयेथास तवं नात्यर्थं बहुभिः सह समस्तैर अपि च वयस्तैर वयपदेशेन केन चित ॥ 21 ॥

  22. सुसंवृतं मन्त्रगृहं सथलं चारुह्य मन्त्रयेः अरण्ये निःशलाके वा न च रात्रौ कथं चन ॥ 22 ॥

  23. वानराः पक्षिणश चैव ये मनुष्यानुकारिणः सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः ॥ 23 ॥

  24. मन्त्रभेदे हि ये दॊषा भवन्ति पृथिवीक्षिताम न ते शक्याः समाधातुं कथं चिद इति मे मतिः ॥ 24 ॥

  25. दॊषांश च मन्त्रभेदेषु बरूयास तवं मन्त्रिमण्डले अभेदे च गुणान राजन पुनः पुनर अरिंदम ॥ 25 ॥

  26. पौरजानपदानां च शौचाशौचं युधिष्ठिरः यथा सयाद विदितं राजंस तथा कार्यम अरिंदम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8