[ज] दृष्ट्वा पुत्रांस तथा पौत्रान सानुबन्धाञ जनाधिपः धृतराष्ट्रः किम अकरॊद राजा चैव युधिष्ठिरः ॥ 1 ॥
[वै] तद दृष्ट्वा महद आश्चर्यं पुत्राणां दर्शनं पुनः वीतशॊकः स राजर्षिः पुनर आश्रमम आगमत ॥ 2 ॥
इतरस तु जनः सर्वस ते चैव परमर्षयः परतिजग्मुर यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ 3 ॥
पाण्डवास तु महात्मानॊ लघु भूयिष्ठ सैनिकाः अनुजग्मुर महात्मानं सदारं तं महीपतिम ॥ 4 ॥
तम आश्रमगतं धीमान बरह्मर्षिर लॊकपूजितः मुनिः सत्यवती पुत्रॊ धृतराष्ट्रम अभाषत ॥ 5 ॥
धृतराष्ट्र महाबाहॊ शृणु कौरवनन्दन शरुतं ते जञानवृद्धानाम ऋषीणां पुण्यकर्मणाम ॥ 6 ॥
ऋद्धाभिजन वृद्धानां वेदवेदाङ्गवेदिनाम धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ 7 ॥
मा सम शॊके मनः कार्षीद इष्टेन वयथते बुधः शरुतं देव रहस्यं ते नारदाद देव दर्शनात ॥ 8 ॥
गतास ते कषत्रधर्मेण शस्त्रपूतां गतिं शुभाम यथादृष्टास तवया पुत्रा यथा कामविहारिणः ॥ 9 ॥
युधिष्ठिरस तव अयं धीमान भवन्तम अनुरुध्यते सहितॊ भरातृभिः सर्वैः सदारः ससुहृज्जनः ॥ 10 ॥
विसर्जयैनं यात्व एष सवराज्यम अनुशासताम मासः समधिकॊ हय एषाम अतीतॊ वसतां वने ॥ 11 ॥
एतद धि नित्यं यत्नेन पदं रक्ष्यं परंतप बहु परत्यर्थिकं हय एतद राज्यं नाम नराधिप ॥ 12 ॥
इत्य उक्तः कौरवॊ राजा वयासेनामित बुद्धिना युधिष्ठिरम अथाहूय वाग्मी वचनम अब्रवीत ॥ 13 ॥
अजातशत्रॊ भद्रं ते शृणु मे भरातृभिः सह तवत्प्रसादान महीपाल शॊकॊ नास्मान परबाधते ॥ 14 ॥
रमे चाहं तवया पुत्रपुरेव गजसाह्वये नाथेनानुगतॊ विद्वान परियेषु परिवर्तिना ॥ 15 ॥
पराप्तं पुत्रफलं तवत्तः परीतिर मे विपुला तवयि न मे मन्युर महाबाहॊ गम्यतां पुत्र माचिरम ॥ 16 ॥
भवन्तं चेह संप्रेक्ष्य तपॊ मे परिहीयते तपॊ युक्तं शरीरं च तवां दृष्ट्वा धारितं पुनः ॥ 17 ॥
मातरौ ते तथैवेमे शीर्णपर्णकृताशने मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ॥ 18 ॥
दुर्यॊधनप्रभृतयॊ दृष्टा लॊकान्तरं गताः वयासस्य तपसॊ वीर्याद भवतश च समागमात ॥ 19 ॥
परयॊजनं चिरं वृत्तं जीवितस्य च मे ऽनघ उग्रं तपः समास्थास्ये तवम अनुज्ञातुम अर्हसि ॥ 20 ॥
तवय्य अद्य पिण्डः कीर्तिश च कुलं चेदं परतिष्ठितम शवॊ वाद्य वा महाबाहॊ गम्यतां पुत्र माचिरम ॥ 21 ॥
राजनीतिः सुबहुशः शरुता ते भरतर्षभ संदेष्टव्यं न पश्यामि कृतम एतावता विभॊ ॥ 22 ॥
इत्य उक्तवचनं तात नृपॊ राजानम अब्रवीत न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम ॥ 23 ॥
कामं गच्छन्तु मे सर्वे भरातरॊ ऽनुचरास तथा भवन्तम अहम अन्विष्ये मातरौ च यतव्रते ॥ 24 ॥
तम उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे तवय्य अधीनं कुरु कुलं पिण्डश च शवशुरस्य मे ॥ 25 ॥
गम्यतां पुत्र पर्याप्तम एतावत पूजिता वयम राजा यद आह तत कार्यं तवया पुत्र पितुर वचः ॥ 26 ॥
इत्य उक्तः सा तु गान्धार्या कुन्तीम इदम उवाच ह सनेहबाष्पाकुले नेत्रे परमृज्य रुदतीं वचः ॥ 27 ॥
विसर्जयति मां राजा गान्धारी च यशस्विनी भवत्यां बद्धचित्तस तु कथं यास्यामि दुःखितः ॥ 28 ॥
न चॊत्सहे तपॊविघ्नं कर्तुं ते धर्मचारिणि तपसॊ हि परं नास्ति तपसा विन्दते महत ॥ 29 ॥
ममापि न तथा राज्ञि राज्ये बुद्धिर यथा पुरा तपस्य एवानुरक्तं मे मनः सार्वात्मना तथा ॥ 30 ॥
शून्येयं च मही सर्वा न मे परीतिकरी शुभे बान्धवा नः परिक्षीणा बलं नॊ न यथा पुरा ॥ 31 ॥
पाञ्चालाः सुभृशं कषीणाः कन्या मात्रावशेषिताः न तेषां कुर कर्तारं कं चित पश्याम्य अहं शुभे ॥ 32 ॥
सर्वे हि भस्मसान नीता दरॊणेनैकेन संयुगे अवशेषास तु निहता दरॊणपुत्रेण वै निशि ॥ 33 ॥
चेदयश चैव मत्स्याश च दृष्ट पूर्वास तथैव नः केवलं वृष्णिचक्रं तु वासुदेव परिग्रहात यं दृष्ट्वा सथातुम इच्छामि धर्मार्थं नान्यहेतुकम ॥ 34 ॥
शिवेन पश्य नः सर्वान दुर्लभं दर्शनं तव भविष्यत्य अम्ब राजा हि तीव्रम आरप्स्यते तपः ॥ 35 ॥
एतच छरुत्वा महाबाहुः सहदेवॊ युधां पतिः युधिष्ठिरम उवाचेदं बाष्पव्याकुललॊचनः ॥ 36 ॥
नॊत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ परतियातु भवान कषिप्रं तपस तप्स्याम्य अहं वने ॥ 37 ॥
इहैव शॊषयिष्यामि तपसाहं कलेवरम पादशुश्रूषणे युक्तॊ राज्ञॊ मात्रॊस तथानयॊः ॥ 38 ॥
तम उवाच तथा कुन्ती परिष्वज्य महाभुजम गम्यतां पुत्र मैव तवं वॊचः कुरु वचॊ मम ॥ 39 ॥
आगमा वः शिवाः सन्तु सवस्था भवत पुत्रकाः उपरॊधॊ भवेद एवम अस्माकं तपसः कृते ॥ 40 ॥
तवत सनेहा पाशबद्धा च हीयेयं तपसः परात तस्मात पुत्रक गच्छ तवं शिष्टम अल्पं हि नः परभॊ ॥ 41 ॥
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर मनः सहदेवस्य राजेन्द्र राज्ञश चैव विशेषतः ॥ 42 ॥
ते मात्रा समनुज्ञाता राज्ञा च कुरु पुङ्गवाः अभिवाद्य कुरुश्रेष्ठम आमन्त्रयितुम आरभन ॥ 43 ॥
राजन परतिगमिष्यामः शिवेन परतिनन्दिताः अनुज्ञातास तवया राजन गमिष्यामॊ विकल्मषाः ॥ 44 ॥
एवम उक्तः स राजर्षिर धर्मराज्ञा महात्मना अनुजज्ञे जयाशीर्भिर अभिनन्द्या युधिष्ठिरम ॥ 45 ॥
भीमं च बलिनां शरेष्ठं सांत्वयाम आस पार्थिवः स चास्य सम्यङ मेधावी परत्यपद्यत वीर्यवान ॥ 46 ॥
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ 47 ॥
गान्धार्या चाभ्यनुज्ञातः कृतपादाभिवन्दनाः जनन्या समुपाघ्राताः परिष्वक्तश च ते नृपम चक्रुः परदक्षिणं सर्वे वत्सा इव निवारणे ॥ 48 ॥
पुनः पुनर निरीक्षन्तः परजग्मुस ते परदक्षिणम तथैव दरौपदी साध्वी सर्वाः कौरव यॊषितः ॥ 49 ॥
नयायतः शवशुरे वृत्तिं परयुज्य परययुस ततः शवश्रूभ्यां सामनुज्ञाताः परिष्वज्याभिनन्दिताः संदिष्टाश चेतिकर्तव्यं परययुर भर्तृभिः सह ॥ 50 ॥
तथ परजज्ञे निनदः सूतानां युज्यताम इति उष्ट्राणां करॊशतां चैव हयानां हेषताम अपि ॥ 51 ॥
ततॊ युधिष्ठिरॊ राजा सदारः सहसैनिकः नगरं हास्तिनपुरं पुनर आयात सबान्धवः ॥ 52 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45