धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 43

  1. [बर] मनुष्याणां तु राजन्यः कषत्रियॊ मध्यमॊ गुणः कुञ्जरॊ वाहनानां च सिंहश चारण्यवासिनाम ॥ 1 ॥

  2. अविः पशूनां सर्वेषाम आखुश च बिलवासिनाम गवां गॊवृषभश चैव सत्रीणां पुरुष एव च ॥ 2 ॥

  3. नयग्रॊधॊ जम्बुवेक्षश च पिप्पलः शाल्मलिस तथा शिंशपा मेषशृङ्गश च तथा कीचक वेणवः एते दरुमाणां राजानॊ लॊके ऽसमिन नात्र संशयः ॥ 3 ॥

  4. हिमवान पारियात्रश च सद्यॊ विन्ध्यस तरिकूटवान शवेतॊ नीलश च भासश च काष्ठवांश चैव पर्वतः ॥ 4 ॥

  5. शुभस्कन्धॊ महेन्द्रश च माल्यवान पर्वतस तथा एते पर्वतराजानॊ गणानां मरुतस तथा ॥ 5 ॥

  6. सूर्यॊ गरहाणाम अधिपॊ नक्षत्राणां च चन्द्रमाः यमः पितॄणाम अधिपः सरिताम अथ सागरः ॥ 6 ॥

  7. अम्भसां वरुणॊ राजा सत्त्वानां मित्र उच्यते अर्कॊ ऽधिपतिर उष्णानां जयॊतिषाम इन्दुर उच्यते ॥ 7 ॥

  8. अग्निर भूतपतिर नित्यं बराह्मणानां बृहस्पतिः ओषधीनां पतिः सॊमॊ विष्णुर बलवतां वरः ॥ 8 ॥

  9. तवष्टाधिराजॊ रूपाणां पशूनाम ईश्वरः शिवः दक्षिणानां तथा यज्ञॊ वेदानाम ऋषयस तथा ॥ 9 ॥

  10. दिशाम उदीची विप्राणां सॊमॊ राजा परतापवान कुबेरः सर्वयक्षाणां देवतानां पुरंदरः एष भूतादिकः सर्गः परजानां च परजापतिः ॥ 10 ॥

  11. सर्वेषाम एव भूतानाम अहं बरह्ममयॊ महान भूतं परतरं मत्तॊ विष्णॊर वापि न विद्यते ॥ 11 ॥

  12. राजाधिराजः सर्वासां विष्णुर बरह्ममयॊ महान ईश्वरं तं विजानीमः स विभुः स परजापतिः ॥ 12 ॥

  13. नरकिंनर यक्षाणां गन्धर्वॊरगरक्षसाम देवदानव नागानां सर्वेषाम ईश्वरॊ हि सः ॥ 13 ॥

  14. भग देवानुयातानां सर्वासां वामलॊचना माहेश्वरी महादेवी परॊच्यते पार्वतीति या ॥ 14 ॥

  15. उमां देवीं विजानीत नारीणाम उत्तमां शुभाम रतीनां वसुमत्यस तु सत्रीणाम अप्सरसस तथा ॥ 15 ॥

  16. धर्मकामाश च राजानॊ बराह्मणा धर्मलक्षणाः तस्माद राजा दविजातीनां परयतेतेह रक्षणे ॥ 16 ॥

  17. रज्ञां हि विषये येषाम अवसीदन्ति साधवः हीनास ते सवगुणैः सर्वैः परेत्यावान मार्गगामिनः ॥ 17 ॥

  18. राज्ञां तु विषये येषां साधवः परिरक्षिताः ते ऽसमिँल लॊके परमॊदन्ते परेत्य चानन्त्यम एव च पराप्नुवन्ति महात्मान इति वित्तद्विजर्षभाः ॥ 18 ॥

  19. अत ऊर्ध्वं परवक्ष्यामि नियतं धर्मलक्षणम अहिंसा लक्षणॊ धर्मॊ हिंसा चाधर्मलक्षणा ॥ 19 ॥

  20. परकाशलक्षणा देवा मनुष्याः कर्म लक्षणाः शब्दलक्षणम आकाशं वायुस तु सपर्शलक्षणः ॥ 20 ॥

  21. जयॊतिषां लक्षणं रूपम आपश च रसलक्षणाः धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ॥ 21 ॥

  22. सवरव्यञ्जन संस्कारा भारती सत्यलक्षणा मनसॊ लक्षणं चिन्ता तथॊक्ता बुद्धिर अन्वयात ॥ 22 ॥

  23. मनसा चिन्तयानॊ ऽरथान बुद्ध्या चैव वयवस्यति बुद्धिर हि वयवसायेन लक्ष्यते नात्र संशयः ॥ 23 ॥

  24. लक्षणं महतॊ धयानम अव्यक्तं साधु लक्षणम परवृत्ति लक्षणॊ यॊगॊ जञानं संन्यासलक्षणम ॥ 24 ॥

  25. तस्माज जञानं पुरस्कृत्य संन्यसेद इह बुद्धिमान संन्यासी जञानसंयुक्तः पराप्नॊति परमां गतिम अतीतॊ ऽदवंद्वम अभ्येति तमॊ मृत्युजरातिगम ॥ 25 ॥

  26. धर्मलक्षणसंयुक्तम उक्तं वॊ विधिवन मया गुणानां गरहणं सम्यग वक्ष्याम्य अहम अतः परम ॥ 26 ॥

  27. पार्थिवॊ यस तु गन्धॊ वै घराणेनेह स गृह्यते घराणस्थश च तथा वायुर गन्धज्ञाने विधीयते ॥ 27 ॥

  28. अपां धातुरसॊ नित्यं जिह्वया स तु गृह्यते जिह्वास्थश च तथा सॊमॊ रसज्ञाने विधीयते ॥ 28 ॥

  29. जयॊतिषश च गुणॊ रूपं चक्षुषा तच च गृह्यते चक्षुःस्थश च तथादित्यॊ रूपज्ञाने विधीयते ॥ 29 ॥

  30. वायव्यस तु तथा सपर्शस तवचा परज्ञायते च सः तवक्स्थश चैव तथा वायुः सपर्शज्ञाने विधीयते ॥ 30 ॥

  31. आकाशस्य गुणॊ घॊषः शरॊत्रेण स तु गृह्यते शरॊत्रस्थाश च दिशः सर्वाः शब्दज्ञाने परकीर्तिताः ॥ 31 ॥

  32. मनसस तु गुणश चिन्ता परज्ञया स तु गृह्यते हृदिस्थ चेतना धातुर मनॊ जञाने विधीयते ॥ 32 ॥

  33. बुद्धिर अध्यवसायेन धयानेन च महांस तथा निश्चित्य गरहणं नित्यम अव्यक्तं नात्र संशयः ॥ 33 ॥

  34. अलिङ्ग गरहणॊ नित्यः कषेत्रज्ञॊ निर्गुणात्मकः तस्माद अलिङ्गः कषेत्रज्ञः केवलं जञानलक्षणः ॥ 34 ॥

  35. अव्यक्तं कषेत्रम उद्दिष्टं गुणानां परभवाप्ययम सदा पश्याम्य अहं लीनं विजानामि शृणॊमि च ॥ 35 ॥

  36. पुरुषस तद विजानीते तस्मात कषेत्रज्ञ उच्यते गुणवृत्तं तथा कृत्स्नं कषेत्रज्ञः परिपश्यति ॥ 36 ॥

  37. आदिमध्यावसानान्तं सृज्यमानम अचेतनम न गुणा विदुर आत्मानं सृज्यमानं पुनः पुनः ॥ 37 ॥

  38. न सत्यं वेद वै कश चित कषेत्रज्ञस तव एव विन्दति गुणानां गुणभूतानां यत परं परतॊ महत ॥ 38 ॥

  39. तस्माद गुणांश च तत्त्वं च परित्यज्येह तत्त्ववित कषीणदॊषॊ गुणान हित्वा कषेत्रज्ञं परविशत्य अथ ॥ 39 ॥

  40. निर्द्वंद्वॊ निर्नमः कारॊ निः सवधा कार एव च अचलश चानिकेतश च कषेत्रज्ञः स परॊ विभुः ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42