धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 42

  1. [बर] अहंकारात परसूतानि महाभूतानि पञ्च वै पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ॥ 1 ॥

  2. तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु शब्दस्पर्शन रूपेषु रसगन्धक्रियासु च ॥ 2 ॥

  3. महाभूतविनाशान्ते परलये परत्युपस्थिते सर्वप्राणभृतां धीरा महद उत्पद्यते भयम ॥ 3 ॥

  4. यद्य अस्माज जायते भूतं तत्र तत परविलीयते लीयन्ते परतिलॊमानि जायन्ते चॊत्तरॊत्तरम ॥ 4 ॥

  5. ततः परलीने सर्वस्मिन भूते सथावरजङ्गमे समृतिमन्तस तदा धीरा न लीयन्ते कदा चन ॥ 5 ॥

  6. शब्दः सपर्शस तथारूपं रसॊ गन्धश च पञ्चमः करिया कारणयुक्ताः सयुर अनित्या मॊहसंज्ञिताः ॥ 6 ॥

  7. लॊभप्रजन संयुक्ता निर्विशेषा हय अकिंचनाः मांसशॊणितसंघाता अन्यॊन्यस्यॊपजीविनः ॥ 7 ॥

  8. बहिर आत्मान इत्य एते दीनाः कृपण वृत्तयः पराणापानाव उदानश च समानॊ वयान एव च ॥ 8 ॥

  9. अन्तरात्मेति चाप्य एते नियताः पञ्च वायवः वान मनॊ बुद्धिर इत्य एभिर सार्धम अष्टात्मकं जगत ॥ 9 ॥

  10. तवग घराणश्रॊत्रचक्षूंषि रसनं वाक च संयता विशुद्धं च मनॊ यस्य बुद्धिश चाव्यभिचारिणी ॥ 10 ॥

  11. अष्टौ यस्याग्नयॊ हय एते न दहन्ते मनः सदा स तद बरह्म शुभं याति यस्माद भूयॊ न विद्यते ॥ 11 ॥

  12. एकादश च यान्य आहुर इन्द्रियाणि विशेषतः अहंकारप्रसूतानि तानि वक्ष्याम्य अहं दविजाः ॥ 12 ॥

  13. शरॊत्रं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी पादौ पायुर उपस्थं च हस्तौ वाग दशमी भवेत ॥ 13 ॥

  14. इन्द्रियग्राम इत्य एष मन एकादशं भवेत एतं गरामं जयेत पूर्वं ततॊ बरह्म परकाशते ॥ 14 ॥

  15. बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च शरॊत्रादीन्य अपि पञ्चाहुर बुद्धियुक्तानि तत्त्वतः ॥ 15 ॥

  16. अविशेषाणि चान्यानि कर्म युक्तानि तानि तु उभयत्र मनॊ जञेयं बुद्धिर दवादशमी भवेत ॥ 16 ॥

  17. इत्य उक्तानीन्द्रियाणीमान्य एकादश मया करमात मन्यन्ते कृतम इत्य एव विदित्वैतानि पण्डिताः ॥ 17 ॥

  18. तरीणि सथानानि भूतानां चतुर्थं नॊपपद्यते सथलम आपस तथाकाशं जन्म चापि चतुर्विधम ॥ 18 ॥

  19. अण्डजॊद्भिज्ज संस्वेद जरायुजम अथापि च चतुर्धा जन्म इत्य एतद भूतग्रामस्य लक्ष्यते ॥ 19 ॥

  20. अचराण्य अपि भूतानि खेचराणि तथैव च अण्डजानि विजानीयात सर्वांश चैव सरीसृपान ॥ 20 ॥

  21. संस्वेदाः कृमयः परॊक्ता जन्तवश च तथाविधाः जन्म दवितीयम इत्य एतज जघन्यतरम उच्यते ॥ 21 ॥

  22. भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात उद्भिज्जानीति तान्य आहुर भूतानि दविजसत्तमाः ॥ 22 ॥

  23. दविपाद बहुपादानि तिर्यग्गतिमतीनि च जरायुजानि भूतानि वित्ततान्य अपि सत्तमाः ॥ 23 ॥

  24. दविविधापीह विज्ञेया बरह्मयॊनिः सनातना तपः कर्म च यत पुण्यम इत्य एष विदुषां नयः ॥ 24 ॥

  25. दविविधं कर्म विज्ञेयम इज्या दानं च यन मखे जातस्याध्ययनं पुण्यम इति वृद्धानुशासनम ॥ 25 ॥

  26. एतद यॊ वेद विधिवत स मुखः सयाद दविजर्षभाः विमुक्तः सर्वपापेभ्य इति चैव निबॊधत ॥ 26 ॥

  27. आकाशं परथमं भूतं शरॊत्रम अध्यात्मम उच्यते अधिभूतं तथा शब्दॊ दिशस तत्राधिदैवतम ॥ 27 ॥

  28. दवितीयं मारुतॊ भूतं तवग अध्यात्मं च विश्रुतम सप्रष्टव्यम अधिभूतं च विद्युत तत्राधिदैवतम ॥ 28 ॥

  29. तृतीयं जयॊतिर इत्य आहुर चक्षुर अध्यात्मम उच्यते अधिभूतं ततॊ रूपं सूर्यस तत्राधिदैवतम ॥ 29 ॥

  30. चतुर्थम आपॊ विज्ञेयं जिह्वा चाध्यात्मम इष्यते अधिभूतं रसश चात्र सॊमस तत्राधिदैवतम ॥ 30 ॥

  31. पृथिवी पञ्चमं भूतं घराणश चाध्यात्मम इष्यते अधिभूतं तथा गन्धॊ वायुस तत्राधिदैवतम ॥ 31 ॥

  32. एष पञ्चसु भूतेषु चतुष्टय विधिः समृतः अतः परं परवक्ष्यामि सर्वं तरिविधम इन्द्रियम ॥ 32 ॥

  33. पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः अधिभूतं तु गन्तव्यं विष्णुस तत्राधिदैवतम ॥ 33 ॥

  34. अवाग गतिर अपानश च पायुर अध्यात्मम इष्यते अधिभूतं विसर्वश च मित्रस तत्राधिदैवतम ॥ 34 ॥

  35. परजनः सर्वभूतानाम उपस्थॊ ऽधयात्मम उच्यते अधिभूतं तथा शुक्रं दैवतं च परजापतिः ॥ 35 ॥

  36. हस्ताव अध्यात्मम इत्य आहुर अध्यात्मविदुषॊ जनाः अधिभूतं तु कर्माणि शक्रस तत्राधिदैवतम ॥ 36 ॥

  37. वैश्वदेवी मनः पूर्वा वाग अध्यात्मम इहॊच्यते वक्तव्यम अधिभूतं च वह्निस तत्राधिदैवतम ॥ 37 ॥

  38. अध्यात्मं मन इत्य आहुः पञ्च भूतानुचारकम अधिभूतं च मन्यव्यं चन्द्रमाश चाधिदैवतम ॥ 38 ॥

  39. अध्यात्मं बुद्धिर इत्य आहुः षडिन्द्रिय विचारिणी अधिभूतं तु विज्ञेयं बरह्मा तत्राधिदैवतम ॥ 39 ॥

  40. यथावद अध्यात्मविधिर एष वः कीर्तितॊ मया जञानम अस्य हि धर्मज्ञाः पराप्तं बुद्धिमताम इह ॥ 40 ॥

  41. इन्द्रियाणीन्द्रियार्थाश च महाभूतानि पञ्च च सर्वाण्य एतानि संधाय मनसा संप्रधारयेत ॥ 41 ॥

  42. कषीणे मनसि सर्वस्मिन न जन्म सुखम इष्यते जञानसंपन्न सत्त्वानां तत सुखं विदुषां मतम ॥ 42 ॥

  43. अतः परं परवक्ष्यामि सूक्ष्मभावकरीं शिवाम निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ 43 ॥

  44. गुणागुणम अनासङ्गम एकचर्यम अनन्तरम एतद बराह्मणतॊ वृत्तम आहुर एकपदं सुखम ॥ 44 ॥

  45. विद्वान कूर्म इवाङ्गानि कामान संहृत्य सर्वशः विरजाः सर्वतॊ मुक्तॊ यॊ नरः स सुखी सदा ॥ 45 ॥

  46. कामान आत्मनि संयम्य कषीणतृष्णः समाहितः सर्वभूतसुहृन मैत्रॊ बरह्मभूयं स गच्छति ॥ 46 ॥

  47. इन्द्रियाणां निरॊधेन सर्वेषां विषयैषिणाम मुनेर जनपद तयागाद अध्यात्माग्निः समिध्यते ॥ 47 ॥

  48. यथाग्निर इन्धनैर इद्धॊ महाज्यॊतिः परकाशते तथेन्द्रिय निरॊधेन महान आत्मा परकाशते ॥ 48 ॥

  49. यदा पश्यति भूतानि परसन्नात्मात्मनॊ हृदि सवयं यॊनिस तदा सूक्ष्मात सूक्ष्मम आप्नॊत्य अनुत्तमम ॥ 49 ॥

  50. अग्नी रूपं पयः सरॊतॊ वायुः सपर्शनम एव च मही पङ्कधरं घॊरम आकाशं शरवणं तथा ॥ 50 ॥

  51. रागशॊकसमाविष्टं पञ्च सरॊतः समावृतम पञ्च भूतसमायुक्तं नवद्वारं दविदैवतम ॥ 51 ॥

  52. रजस्वलम अथादृश्यं तरिगुणं च तरिधातुकम संसर्गाभिरतं मूढं शरीरम इति धारणा ॥ 52 ॥

  53. दुश्चरं जीवलॊके ऽसमिन सत्त्वं परति समाश्रितम एतद एव हि लॊके ऽसमिन कालचक्रं परवर्तते ॥ 53 ॥

  54. एतन महार्णवं घॊरम अगाधं मॊहसंज्ञितम विसृजेत संक्षिपेच चैव भॊधयेत सामरं जगत ॥ 54 ॥

  55. कामक्रॊधौ भयं मॊहम अभिद्रॊहम अथानृतम इन्द्रियाणां निरॊधेन स तांस तयजति दुस्त्यजान ॥ 55 ॥

  56. यस्यैते निर्जिता लॊके तरिगुणाः पञ्च धातवः वयॊम्नि तस्य परं सथानम अनन्तम अथ लक्ष्यते ॥ 56 ॥

  57. कामकूलाम अपारान्तां मनः सरॊतॊ भयावहाम नदीं दुर्ग हरदां तीर्णः कामक्रॊधाव उभौ जयेत ॥ 57 ॥

  58. स सर्वदॊषनिर्मुक्तस ततः पश्यति यत परम मनॊ मनसि संधाय पश्यत्य आत्मानम आत्मनि ॥ 58 ॥

  59. सर्ववित सर्वभूतेषु वीक्षत्य आत्मानम आत्मनि एकधा बहुधा चैव विकुर्वाणस ततस ततः ॥ 59 ॥

  60. धरुवं पश्यति रूपाणि दीपाद दीपशतं यथा स वै विष्णुश च मित्रश च वरुणॊ ऽगनिः परजापतिः ॥ 60 ॥

  61. स हि धाता विधाता च स परभुः सर्वतॊ मुखः हृदयं सर्वभूतानां महान आत्मा परकाशते ॥ 61 ॥

  62. तं विप्र संघाश च सुरासुराश च; यक्षाः पिशाचाः पितरॊ वयांसि रक्षॊगणा भूतगणाश च सर्वे; महर्षयश चैव सदा सतुवन्ति ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 43

Previous: अध्याय 41